संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीरामस्तुतिः ।

स्तुतिः - श्रीरामस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


यो रामो न जघान वक्षसि रणे तं रावणं सायकैर्ह्रद्यस्य प्रतिवासरं वसति सा तस्या ह्यहं राघवः ।

मय्यास्ते भुवनावली परिवृता द्वीपैः सम्म सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापरः ॥१॥

राज्यं येन पटान्तलग्नतृणवत्त्यक्त गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं धोरं वनं प्रस्थितः ॥

स्वाधीनः शशिमौलिचापविजये प्राप्तो न वै विक्रियां पायाद्वः स विभीषणाग्रजनिहा रामाभिधानो हरिः ॥२॥

कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ॥

विश्रामास्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥३॥

कल्यानोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ॥

सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा ॥

दिविषदभिनुता देवता रामनामा ॥४॥

इति रामस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP