संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
सन्मात्ररूपिणेऽचिन्त्यमहि...

भगवत्स्तुतिः - सन्मात्ररूपिणेऽचिन्त्यमहि...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


सन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥१॥
सर्वरूपाय तेऽचिन्त्य हविर्भूताय ते नमः
नमो विज्ञानपाराय पराय प्रकृतेः प्रभो ॥२॥
भूतात्मा चेन्द्रियात्माच प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥३॥
प्रसीद सर्व सर्वात्मन् क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥४॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधानं त्वां नतोऽस्मि परमेश्वर ॥५॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥६॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तविष्णुसंज्ञाभिरीड्यते ॥७॥
सर्वार्थास्त्वमज विकल्पनाभिरेतैर्देवाद्यैर्भवति हि यैरनन्त विश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेत-
त्सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥८॥
त्वं ब्रह्मा पशुपतिरर्यमा विधाता
धाता त्वं त्रिदशपतिस्समीरणोऽग्निः ।
तोयेशो धनपतिरन्तकस्त्वमेको भिन्नार्थैर्जगदभिपासि शक्तिभेदैः ॥९॥
विश्वं भवान् सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोऽयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥१०॥

ऊँ नमो वासुदेवाय नमस्संकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥११॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP