संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
परशुरामस्तुतिः ।

स्तुतिः - परशुरामस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कुलाचला यस्य महीं द्विजेभ्यः प्रयच्छतः सोमदृषत्त्वमापुः ।

बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमातनोतु ॥१॥

नाशिष्यः किमभूद्भवकिमभवन्नापुत्रिणी रेणुका नाभुद्विश्वमकार्मुकं किमिति यः प्रीणातु रामत्रपा ।

विप्राणां प्रतिमंदिरं मणिगणोन्मिश्राणि दण्डाहतेर्नांब्धीनां स मया यमोऽपिं महिषेणाम्भांसि नोद्वाहितः ॥२॥

पायाद्वो यमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः ।

येनाशेषहताहिताङ्गरुधिरैः सन्तर्पिताः पुर्वजा भक्त्या चाश्वमुखे समुद्रवसना भुर्हन्तकारीकृता ॥३॥

द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्गदे पीयूषं सरसीषु विप्रवदने विद्याश्चतस्त्रो दश ॥

एवं कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः ॥४॥

इति परशुरामस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP