श्रीविष्णुपुराण - प्रथम अंश - अध्याय २२

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

यदाभिषिक्तः स पृथुः पूर्व राज्ये महर्षिभिः । ततः क्रमेण राज्यनि ददौ लोकपितामहः ॥१॥

नक्षत्रग्रहविप्राणां वीरूधां चाप्यशेषतः । सोमं राज्ये दधद्बह्या यज्ञानां तपसामापि ॥२॥

राज्ञां वैश्रवणं राज्ये जलानां वरूणं तथा । आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥३॥

प्रजापतीनां दक्षं तु वासवं मरुतामपि । दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥४॥

पितृणां धर्मराजं तं यमं राज्येऽभ्यषेच्ययत् । ऐरावतं गजेन्द्राणामशेषाणां पतिं ददौ ॥५॥

पतत्त्रिणां तु गरुडं देवानामपि वासवम् । उच्चैः श्रवसमश्वानां वृषभं तु गवामपि ॥६॥

मृगाणा चैव सर्वेषां राज्ये सिंहं ददौ प्रभूः । शेषं तु दन्दशुकानामकरोत्पतिमव्ययः ॥७॥

हिमालयं स्थावराणां मुनीनां कपिलं मुनिम् । नखिनां दंष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥८॥

वनस्पतीनां राजानां प्लक्षमेवाभ्यषेचयत् । एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून ॥९॥

एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥१०॥

पूर्वस्या दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥११॥

दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पश्चिमस्यां दिशि तथा राजसः सोऽभ्यषेचयत् ॥१२॥

पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानजं राजानं सोऽभ्यषेचयत् ॥१३॥

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । पुत्रं शंखपदं नाम राजानं सोऽभ्यषेचयत् ॥१४॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥१५॥

एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥१६॥

ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज । ते सर्वे सर्वभुतस्य विष्णोरंशा द्विजोत्तम ॥१७॥

ये तु देवाधिपतयो ये च दैत्याधिपास्तथा । दानवानां च ये नाथ ये नाथाः पिशिताशिनाम् ॥१८॥

पशूनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागनामधिपाश्च ये ॥१९॥

वृक्षांणां पर्वतांनां च ग्रहाणं चापि येऽधिपाः । अतीता वर्त्तमानाश्च ये भविष्यन्ति चापरे ।

ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ॥२०॥

न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥२१॥

सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजः सत्त्वादिसंश्रयः ॥२२॥

चतुर्विभागः संसृष्टौ चतुर्धा संस्थितःस्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥२३॥

एकेनाशेन ब्रह्मासौ भवत्यवयक्तमूर्त्तिमान् । मरीचिमिश्राः पतयः प्रजानां चान्यभागशः ॥२४॥

कालस्तृतीएयस्तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्त्तऽसौ रजोगुणः ॥२५॥

एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् । मन्वादिरूपश्चान्येन कालरूपोऽपरेण च ॥२६॥

सर्वभूतेषु चान्येन संस्थितः कुरुते स्थितम् । सत्त्वं गुणं समाश्रितत्य जगतः पुरुषोत्तमः ॥२७॥

आश्रित्य तमसो वृत्तिमन्तकले तथा पुनः । रुद्रस्वरूपो भगवानेकंशेन भवत्यजः ॥२८॥

अग्न्यन्तकादिरूपेण भागेनान्येन वर्त्तते । कालस्वरूपो भागो यस्सर्वभूतानि चापरः ॥२९॥

विनाशं कुर्वतस्तस्य चतुर्द्धवं महात्मनः । विभागकल्पना ब्रह्मन कथ्यते सार्वकालिकी ॥३०॥

ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयाँ जगत्‌की सृष्टिकी कारण हैं ॥३१॥

विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥३२॥

रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा प्रलयायैता जनार्दनविभूतयः ॥३३॥

जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज । धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥३४॥

ब्रह्मा सृजत्यादिकाले मरीचिप्रमुखास्ततः । उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥३५॥

कालेन न विना ब्रह्मा सृष्टिनिष्पादको द्विज । न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥३६॥

एवमेव विभागो‍ऽयं स्थितावप्युपदिश्यते । चतुर्धा तस्य देवस्य मैत्रेय प्रलये तथा ॥३७॥

यत्कित्र्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः ॥३८॥

हन्ति यावच्त यत्कित्र्चित्सत्वं स्थावरंगमम् । जनार्दनस्य तद्रौदं मैत्रेयान्तकरं वपुः ॥३९॥

एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥४०॥

सृष्टिस्थित्यन्तकालेषु त्रिधैवं सम्प्रवर्तते । गुणप्रवृत्य परमं पदं तस्यागुणं महत् ॥४१॥

तच्च ज्ञानमयं व्यापि स्वसंवेद्यमनौपमम् । चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥४२॥

श्रीमैत्रेय उवाच

चतुष्प्रकारतां तस्य ब्रह्मभूतस्य हे मुने । ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥४३॥

श्रीपराशर उवाच

मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुष । साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥४४॥

योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् । साध्यं च परमं ब्रह्म पुनर्नावर्त्तते यतः ॥४५॥

साधनालम्बनं ज्ञानं मुक्ताये योगिनां हि यत् । स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥४६॥

यत्र्जत्रः क्लेशमुक्तर्थं साध्यं यद्भहा योगिनः । तदालम्बनविज्ञानं द्वितीयोंऽशों महामुने ॥४७॥

उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् । विज्ञानमद्वैतमयं तद्भागोऽन्यो मयोदितः ॥४८॥

ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने । तन्निराकरणद्वारा दर्शितात्मस्वरूपवत ॥४९॥

निर्व्यापारमनाख्येयं व्याप्तिमात्रमनुपमम् । आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥५०॥

प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् । विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥५१॥

तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षोणोप्तौ ते यान्ति निर्बीजतां द्विज ॥५२॥

एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं नित्यं व्यापकमक्षयम् ॥५३॥

तद्भहा परमं योगी यतो नावर्त्तते पुनः । श्रयत्यपुण्योपरमे क्षीणक्लेशोऽतिनिर्मलः ॥५४॥

द्वे रूपे ब्रह्मणस्तस्य मूर्तेअं चामूर्तमेव च । क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥५५॥

अक्षरं तत्परं ब्रह्मा क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणी यथा ।

परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥५६॥

तत्राप्यासन्नदुरत्वाद्बहूत्वस्वल्पतामयः । ज्योत्स्नाभेदोऽस्ति तच्छकेस्तद्वन्मैत्रेय विद्यते ॥५७॥

ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः । ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥५८॥

ततो मनुष्याः पशवो मृगपक्षिसरीसृपाः । न्य़ूनान्नयूनतराश्चैव वृक्षगुल्मादयस्तथा ॥५९॥

तदेतदक्षरं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥६०॥

सर्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणः परम् । मूर्त्त यद्योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥६१॥

सालम्बनो महायोगः सबीजो यत्र संस्थितः । मनस्यव्याहते सम्यगयुत्र्जतां जायते मुने ॥६२॥

स परः परशक्तीनां ब्रह्मणः समनन्तरम् । मूर्त्त ब्रह्म महभाग सर्वब्रह्ममयो हरिः ॥६३॥

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । ततो जगज्जगत्तस्मिन्स जगच्चाखिलं मुने ॥६४॥

क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वररूपवत् ॥६५॥

श्रीमैत्रेय उवाच

भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् । बिभर्त्ति भगवान्विष्णुस्तन्ममाख्यातुमर्हसि ॥६६॥

श्रीपराशर उवाच

नमस्कृत्याप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममाभवत ॥६७॥

आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्त्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥६८॥

श्रीवत्ससंश्तानधरमनन्तेन समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥६९॥

भुतादिमिन्द्रियादिं च द्विधाहंकारमीश्वरः । बिभर्त्ति शंखरूपेण शांगरूपेण च स्थितम् ॥७०॥

चलत्स्वरूपमत्यन्तं जवेनान्तरितानिलम् । चक्रत्स्वरूपमत्यन्तं जवेनान्तरितानिलम् ॥७१॥

पत्र्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥७२॥

यानीन्द्रियाण्यशेषाणि बुद्धिकार्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥७३॥

बिभर्त्ति यच्चासिरत्नमच्यतोऽत्यन्तनिर्मलम् । विद्यामयं तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥७४॥

इत्थं पुमान्प्रधानं च बुद्धयहंकारमेव च । भूतानि च हृषीकेशे मनः सर्वोन्द्रियाणि च ।

विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥७५॥

अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभर्ति मायारूपोऽसौ श्रेयसे प्राणिनां हरिः ॥७६॥

सविकारं प्रधानं च पुमासमखिलं जगत् । बिभर्त पुण्डरीकाक्षस्तदेवं परमेश्वरः ॥७७॥

या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् । तत्सर्व सर्वभुतेशे मैत्रेय मधुसूदने ॥७८॥

कलाक्राष्ठानिमेषादिदिनर्त्वयनहायनैः । कालस्वरूपो भगवानपापो हरिरव्ययः ॥७९॥

भूलौकोऽथं भुवर्लोकः स्वर्लोको मुनिसत्तम । महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥८०॥

लोकात्ममूर्त्तिः सर्वेषां पूर्वषामपि पूर्वजः । आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥८१॥

देवमानुषपश्वादिस्वरूपैर्बहुभिः स्थितः । ततः सर्वेश्वरोऽन्यन्तो भूतमूर्तिरमूर्त्तिमान् ॥८२॥

ऋचो यजूंषि सामानि तथैवाथर्वणानि वै । इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥८३॥

वेदांगनि समस्तानि मन्वादिगादितानि च । शस्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥८४॥

काव्यालापाश्च ये केचि द्गीतकान्याखिलानि च । शब्दमूर्तिधरस्यतद्वपुर्विष्णोर्महात्मनः ॥८५॥

यानि मूर्त्तान्यमूर्त्तानि यान्यत्रान्यत्र वा क्वचित । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥८६॥

अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । इदृंमनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति ॥८७॥

इत्येष तेंऽशः प्रथमः पुराणस्यास्य वै द्विज । यथावत्कथितो यास्मित्र्छुते पापैः प्रमुच्यते ॥८८॥

कार्तिक्यां पुष्करस्त्राने द्वादशाब्देन यत्फलम् । तदस्य श्रवणात्सर्वं मैत्रेयाप्रोति मानवः ॥८९॥

देवर्षिपितृगन्धर्वयक्षादीनां च सम्भवम् । भवन्ति श्रृण्वतः पूसो देवाद्या वरदा मुने ॥९०॥

इति श्रीविष्णुपुराणे प्रथमेंऽशें द्वाविंशोऽध्यायः ॥२२॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमोंऽशः समाप्तः ॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP