श्रीमैत्रेय उवाच
कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥१॥
यत्त्वेतद् भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥२॥
जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशैर्बद्धे क्षुण्णस्तत्याज जीवितम् ॥३॥
शैलैराक्रान्तदेहोऽपि न ममार च यः पुरा । त्वया चातीव माहात्म्यं कथितं यस्य धीमतः ॥४॥
तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने । श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥५॥
किन्निमित्तमसौ शस्त्रैर्विक्षिप्तो दितिजैर्मुने । किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः ॥६॥
आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः । क्षिप्तः किमद्गिशिखरात्किं वा पावकसत्र्चये ॥७॥
दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरुपितः । संशोषकोऽनिलश्चास्य प्रयुक्तः किं महासुरैः ॥८॥
कृत्यां च दैत्यगुरवो युयुजुस्तत्र किं मुने । शम्बरश्चापि मायानां सहस्त्रं किं प्रयुक्तवान् ॥९॥
हालाहलं विषमहो दैत्यसूर्दैर्महात्मनः । कस्माद्दत्तं विनाशाय यज्जीर्ण तेन धीमता ॥१०॥
एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्रोतुमिच्छामि महामात्म्यसूचकम् ॥११॥
न हि कौतूहलं तत्र यद्दैत्यैर्न हतो हि सः । अनन्यमनसो विष्णो कः समर्थो निपातने ॥१२॥
तस्मिन्धर्मपरे नित्यं केशवाराधनोद्यते । स्ववंशप्रभवैर्दैत्यैः कृतो द्वेषोऽतिदुष्करः ॥१३॥
धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे । दैतेयैः प्रह्नतं कस्मात्तन्ममाख्यातुमर्हसि ॥१४॥
प्रहरन्ति महात्मानो विपक्षा अपि नेदृशे । गुणैस्समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥१५॥
तदेतत्कथ्यतां सर्व विस्तरान्मुनिपुंगव । दैत्येश्वरस्य चरितं श्रोतुमिच्छाम्यशेषतः ॥१६॥