श्रीविष्णुपुराण - प्रथम अंश - अध्याय १४

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिवादिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्‌यजायत ॥१॥

हविर्धानात् षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥२॥

प्राचीनबर्हिर्भगवान्महानासीप्प्रजापतिः । हविर्धानान्महाभग येन संवर्धिताः प्रजाः ॥३॥

प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने । प्राचीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥४॥

समुद्रतनयायां तु कृतदारो महीपतिः । महतस्तपसः पारे सवर्णायां महामते ॥५॥

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥६॥

अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः । दशवर्षसहस्त्राणि समुद्रसलिलेशयाः ॥७॥

श्रीमैत्रेय उवाच

यदर्थ ते महात्मानस्तपस्तेपुर्महामुने । प्रचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥८॥

श्रीपराशर उवाच

पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना । प्रजापतिनियुक्तेन बहुमानपुरस्सरम् ॥९॥

प्राचीनबर्हिरुवाच

ब्रह्मणा देवदेवेन समादिष्टोऽस्म्यहं सुताः । प्रजाः संवर्द्धनीयास्ते मया चोक्तं तथेति तत्‌ ॥१०॥

तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः । कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥११॥

श्रीपराशर उवाच

ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः । तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥१२॥

प्रचेतस ऊचुः

येन तात प्रजावृद्धौ समर्थाः कर्मणा वयम् । भवेम् तत् समस्तं नः कर्म व्याख्यातुमर्हसि ॥१३॥

पितोवाच

आराध्य वरदं विष्णूमिष्टप्राप्तिमसंशयम् । समेति नान्यथा मर्त्यः किमन्यत्कथयामि वः ॥१४॥

तस्मात्प्रजाविवृद्ध‌यर्थ सर्वभूतप्रभूं हरिम् । आराधयत गोविन्दं यदि सिद्धिमभीप्सथ ॥१५॥

धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा । आराधनीयो भगवाननादिपुरुषोत्तम ॥१६॥

यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः । तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥१७॥

श्रीपराशर उवाच

इत्येवमुक्तास्ते पित्रा पुत्राः प्रचेतसो दश । मग्नाः पयोधिसलिले तपस्तेपुः समाहिताः ॥१८॥

दशवर्षसहस्त्राणि न्यस्तचित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥१९॥

तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् । तुष्टवुर्यस्स्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥२०॥

श्रीमैत्रेय उवाच

स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः । चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥२१॥

श्रीपराशर उवाच

श्रृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः । तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥२२॥

प्रचेतस ऊचुः

नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती । तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥२३॥

ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् । योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥२४॥

यस्याहः प्रथमं रूपरूपस्य तथा निशा । सन्ध्या च परमेशस्य तस्मै कालात्मने नमः ॥२५॥

भुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः । जीवभूतः समस्तस्य तस्मै सोमात्मने नमः ॥२६॥

यस्तमांस्यति तीव्रात्मा प्रभाभिर्भासयन्नभः । धर्मशीताम्भसं योनिस्तस्मै सूर्यात्मने नमः ॥२७॥

काठिन्यवान् यो बिभर्त्ति जगदेतदशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥२८॥

यद्योनिभूतं जगतो बीजं यत्सर्वदेहिनाम्‌ । तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥२९॥

यो मूखं सर्वदेवानां हव्यभुक्कव्यभुक् तथा । पितृणां च नमस्तस्मै विष्णवे पावकात्मने ॥३०॥

पत्र्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिरुम् । आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥३१॥

अवकाशमशेषाणां भूतानां यः प्रयच्छति । अनन्तमूर्तिमात्र्छुद्धस्तस्मै व्योमात्मने नमः ॥३२॥

समस्तेन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥३३॥

गृह्णाति विषयान्नित्यमिन्द्रियात्मा क्षराक्षरः । यस्तस्मै ज्ञानमूलाय नताः स्म हरिमेधसे ॥३४॥

गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति । अन्तः करणरूपाय तस्मै विश्वात्मने नमः ॥३५॥

यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथो द्गतम् । लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥३६॥

शुद्धः सँल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः । तमात्मरूपिणं देवं नताः स्म पुरुषोत्तमम् ॥३७॥

अविकारमजं शुद्धं निर्गुणं यन्निरत्र्जनम् । नताः स्म तत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥३८॥

अदीर्घह्रस्वमस्थूलमनण्वश्यामलोहितम् । अस्त्रेहच्छायमतनुमस्कमशरीरिणम् ॥३९॥

अनाकाशमसंस्पर्शमगन्धमरसं च यत् । अचक्षुश्रोतमचलमवाक्‌पाणिममानसम् ॥४०॥

अनामगोत्रमसुखमतेज्स्कमहेतुकम् । अभयं भ्रान्तिरहितमनिद्रमजरामरम् ॥४१॥

अरजोऽशब्दममृतमप्लुतं यदसंवृत्तम् । पूर्वापरे न वै यस्मिस्तद्विष्णोः परमं पदम् ॥४२॥

परमेशत्वगुणवत्सर्वभूतमसंश्रयम् । नताः स्म तत्पदं विष्णोर्जिह्वदृग्गोचरं न यत् ॥४३॥

श्रेपराशर उवाच

एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्सामाधयः । दशवर्षसहस्त्राणि तपश्चेरुर्महार्णवे ॥४४॥

ततः प्रसन्नो भगवांस्तेषाम्तर्जले हरिः । ददौ दर्शनमुन्निलोप्तलदलच्छविः ॥४५॥

पतत्त्रिराजमारूढमवलोक्य प्रचेतसः । प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥४६॥

ततस्तानाह भगवान्व्रियतामीप्सितो वरः । प्रसादसुमुखोऽहं वो वरदः समुपस्थितः ॥४७॥

ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥४८॥

स चापि देवस्तं दत्त्वा यथाभिलषितं वरम् । अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥४९॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP