श्रीमैत्रेय उवाचं
कथितं मे त्वया सर्वं यत्पृष्टोऽसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥१॥
श्रीपराशर उवाच
भृगोः ख्यात्यां समुप्तन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥२॥
आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥३॥
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्यापि सुतं श्रृणु ॥४॥
प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् । ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥५॥
पत्नी मरीचेः सम्भूतिः पौर्णिमासमसूयत । विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥६॥
वंशसंकीर्तने पुत्रान्वदिष्येऽहं ततो द्विज । स्मृतिश्चांगिरसः पत्नी प्रसूता कन्यकास्तथा ।
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥७॥
अनसूया तथैवात्रेर्जज्ञे निष्कल्मषान्सुतान् । सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥८॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽन्सुतान् । पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भूवेऽन्तरे ॥९॥
कर्मदश्चौर्वरीयांश्च सहिष्णुश्च सुतास्त्रयः । क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥१०॥
क्रतोश्च सन्तातिर्भायां वालखिल्यानसूयत । षष्टिपुत्रसहस्त्राणि मुनीनामूर्ध्वरेतसाम् ।
अंगष्ठपर्वमात्राणां ज्वलभ्दास्करतेजसाम् ॥११॥
ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥१२॥
रजो गोत्रोर्द्धवबाहूश्व सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥१३॥
योऽसावग्न्यभिमानी स्याद ब्रह्माणस्तनयोऽग्रज् । तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो द्विज ॥१४॥
पावकं पवमानं तु शुचिं चापि जलाशिनम् ॥१५॥
तेषां तु सन्ततावन्ये चत्वारिंशच्च पत्र्च च । कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत् ॥१६॥
एवमेकोनपत्र्चाशद्वह्नयः परिकीर्तिताः ॥१७॥
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मजा द्विज । अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥१८॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥१९॥
उत्तमज्ञानसम्पन्ने सर्वैः समुदितैर्गुणैः ॥२०॥
इत्येषा दक्षकन्यानां कथितापत्यसन्तातिः । श्रद्धावान्संस्मरन्नेतामनत्यो न जायते ॥२१॥