श्रीपराशर उवाच
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरूहाः । अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥१॥
नाशकन्मरुतो वातुं वृतं खमभवद्द्नुमैः । दशवर्षसहस्त्राणि न शेकुश्चेष्टितुं प्रजाः ॥२॥
तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥३॥
उन्मुलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोरस्तत्राभूदद्नुमसंक्षयः ॥४॥
द्नुमक्षयमथो दृष्ट्वा कित्र्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान्नाजा सोमः प्रजापतीन् ॥५॥
कोपं यच्छत राजानः श्रृणुध्वं च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥६॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यज्जानता पूर्व मया गोभिर्विवर्द्धिता ॥७॥
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । भार्या वोऽस्तुं महाभाग ध्रुवं वंशविवर्द्धिनी ॥८॥
युष्माकं तेजसोऽर्द्धन मम चार्द्धन तेजसः । अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥९॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । तेजसाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥१०॥
कण्डर्नाम मुनिः पूर्वमासीद्वेदाविदां वरः । सुरम्यें गोमतीतीरे स तेपे परमं तपः ॥११॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥१२॥
क्षोभितः स तया सार्द्ध वर्षाणमधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥१३॥
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥१४॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥१५॥
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥१६॥
अनुज्ञां देहि भगवान व्रजामि त्रिदशालयम । उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥१७॥
पुनर्गते वर्षशते साधिके सा शुभानना । यामीत्याह दिवं ब्रह्मान्प्रणयस्मितशोभनम् ॥१८॥
उक्तस्तयैवं स मुनिरूपगॄह्यायतेक्षणाम् । इहास्यतां क्षणां सुभ्रु चिरकालं गमिष्यसि ॥१९॥
सा क्रिडमाना सुश्रोणी सह तेनार्षिणा पुनः । शतद्वयं कित्र्चिदूनं वर्षाणामन्वतिष्ठत ॥२०॥
गमनाय महाभाग देवराजनिवेशनम् । प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥२१॥
तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभंगार्तिवेदिनी न जहौ मुनिम् ॥२२॥
तया च रमतस्तस्य परमर्षेरहर्निशम् । नवं नवमभूत्प्रेम मन्मथाविष्टचेतसः ॥२३॥
एकदा तु त्वरायुक्तो निश्चकामोटजान्मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥२४॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥२५॥
ततः प्रहस्य सुदती तं सा प्राह महामुनिम् । किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥२६॥
बहुनां विप्र वर्षाणां परिवृत्तमहस्तव । गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥२७॥
मुनिरूवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । मया दुष्टासि तन्वंगि प्रविष्टासि ममाश्रमम् ॥२८॥
इयं च वर्तते सन्ध्या परिणाममहर्गतम् । उपहारः किमर्थोऽयं सद्भावः कथ्यतां मम ॥२९॥
प्रम्लोचोवाच
प्रत्युषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा । नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥३०॥
सोम उवाच
ततस्ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥३१॥
प्रम्लोचोवाच
सप्तोत्तराण्यतीतानि नववर्शतानि ते । मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥३२॥
ऋषिरुवाच
सत्यं भीरू वदस्येतत्पारिहासोऽथ वा शुभे । दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥३३॥
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रहान्कथमत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥३४॥
सोम उवाच
निशम्य तद्वचः सत्यं स मुनर्नृपनन्दनाः । धिग्धिड् मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥३५॥
मुनिरुवाच
तपांचि मम नष्टानि हतं ब्रह्माविदां धनम् । हतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥३६॥
ऊर्मिषट्कातिर्ग ब्रह्म ज्ञेयमात्माजयेन मे । मतिरेषा हृता येन धिक् तं कामं महाग्रहम् ॥३७॥
व्रतानि वेदवेद्याप्तिकारणान्यखिलानि च । नरकग्राममार्गेण संगेनापहृतानि मे ॥३८॥
विनिन्द्येत्थं स धर्मज्ञःस्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥३९॥
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया । देवरायास्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥४०॥
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना । सतां सप्तपंद मैत्रमिषितोऽहं त्वया सह ॥४१॥
अथवा तव को दोषः किं वा कुप्याम्यहं तव । ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥४२॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक्तां महामोहमत्र्जुषां सुजुगुप्सिताम् ॥४३॥
सोम उवाच
यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । तावद्गलत्स्वेदजला सा बभुवातिवेपथुः ॥४४॥
प्रवेपमानां सततं स्विन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥४५॥
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥४६॥
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै । वृक्षाद्वृक्षं ययौ बाला तदग्रारुणपल्लवैः ॥४७॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्जगाम स रोमत्र्चस्वेदरूपी तदंगतः ॥४८॥
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः । मया चाप्यागितो गोभिः स तदा ववृधे शनैः ॥४९॥
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥५०॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥५१॥
श्रीपराशर उवाच
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥५२॥
तत्रैकाग्रतिर्भूत्वा चकारराधनं हरेः । ब्रह्मापारमयं कुर्वत्र्जपमेकाग्रमानसः । ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥५३॥
प्रचेतस ऊचुः
ब्रह्मपारं मुनेः श्रोतुमिच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाराध्यत केशवः ॥५४॥
सोम उवाच
पारं परं विष्णुरपारपारः परः परेभ्यः परमार्थरूपी । स ब्रह्मपारः परपारभूतः परः पाराणामपि पारपारः ॥५५॥
स कारणं कारणतस्ततोऽपि तस्यापि हेतुः परहेतुहेतुः । कार्येषु चैवं सह कर्मकर्तृरूपैरशेषैरवतीह सर्वम् ॥५६॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ । ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसंगि ॥५७॥
ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः । तथा रागादयो दोषाः प्रयान्तु प्रशमं मम् ॥५८॥
एतद्ब्रह्मापरख्यं वै सस्तवं परमं जपन् । अवाप परमां सिद्धिं स तमाराध्य केशवम् ॥५९॥
( इम स्तवं यः पठति श्रृणुयाद्वापि नित्यशः । स कामदुशेरखिलैर्मुक्तः प्रोन्प्रोति वात्र्छितम् ॥ )
इयं च मारिषा पूर्वमासीद्या तां ब्रवीमि वः । कार्यगौरवमेतस्याः कथने फलदायि वः ॥६०॥
अपुत्रा प्रागियां विष्णुं मृते भर्त्तरि सत्तमा । भूपपत्नी महाभाग तोशयामास भक्तितः ॥६१॥
आराधितस्यया विष्णुः प्राह प्रत्यक्षतां गतः । वरं वृणीष्वेति शुभे सा च प्राहात्मवात्र्छितम् ॥६२॥
भगवन्बालवैधव्याद् वृथाजन्माहमीदृशी । मन्दभाग्या समुद्धुता विफला च जगत्पते ॥६३॥
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोऽस्तु मे ॥६४॥
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता । अविसंवादिता सत्त्वं वृद्धंसेवा कृतज्ञता ॥६५॥
रूपसम्पत्समायुक्त सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वत्प्रसादादधोक्षज ॥६६॥
सोम उवाच तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥६७॥
देव उवाच
भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि । प्रख्यातोदारकर्माणो भवत्याः पतयो दश ॥६८॥
पुत्रं च सुमहावीर्य महाबलपराक्रमम् । प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥६९॥
वंशानां तस्य कर्तुत्वं जगत्यस्मिन्भविष्यति । त्रैलोक्यमाखिला सुतिस्तस्य चापूरयिष्यति ॥७०॥
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता । मनः प्रीतिकरी नृणां मत्प्रसादाद्भविष्यसि ॥७१॥
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् । सा चेयं मारिषां जाता युष्मत्पत्नी नृपात्मजाः ॥७२॥
श्रीपराशर उवाच
ततः सोमस्य वचनाज्जगृहस्ते प्रचेतसः । संहत्य कोपं वृक्षेभ्यः पत्नीधर्मेण मारिषाम् ॥७३॥
दशभ्य़स्तु प्रचेतभ्यो मारिषायां प्रजापतिः । जज्ञे दक्षो महाभागो यः पूर्व ब्रह्मणोऽभवत् ॥७४॥
स तु दक्षो महाभागस्सृष्ट्यर्थ सुमहामते । पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥७५॥
अवरांश्च वरांश्चैव द्विपदोऽथ चतुष्पदान् । आदेशं ब्रह्मणः कुर्वन सृष्ट्यर्थ समुपस्थितः ॥७६॥
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः । ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य ननये युक्ताः सप्तविंषतिमिन्दवे ॥७७॥
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः । गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥७८॥
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः ।
तपोविशेषैः सिद्धांना तदात्यन्ततपस्विनाम् ॥७९॥
श्रीमैत्रेय उवाच
अंगुष्ठाद्दक्षिणाद्दक्षः पूर्व जातो मया श्रुतः । कर्थं प्राचेतसो भूयः समुत्पन्नो महामुने ॥८०॥
एष मे संशयो ब्रह्मान्सुमहान्हृदि वर्त्तते । यद्दौहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥८१॥
श्रीपराशर उवाच
उप्तत्तिश्च निरोधश्च नित्यो भूतेषु सर्वदा । ऋषोयोऽत्र न मुहॄन्ति ये चान्ये दिव्यचक्षुषः ॥८२॥
युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तम । पुनश्चैवं निरुद्धयन्ते विद्वांस्तत्र न मुह्यति ॥८३॥
कानिष्ठ्यं ज्यैष्ठयमप्येषां पूर्वां नाभूद्द्विजोत्तम । तप एव गरियोऽभूत्प्रभावश्चैव कारणम् ॥८४॥
श्रीमैत्रेय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उप्तत्तिं सिस्तरेणेह मम ब्रह्मन्प्रकीर्त्तय ॥८५॥
श्रीपराशर उवाच
प्रजाः सृजेति व्यादिष्टः पूर्व दक्षः स्वयम्भुवा । यथा ससर्ज भूतानि तथा श्रृणु महामुने ॥८६॥
मानसान्येव भूतानि पूर्व दक्षोऽसृजत्तदा । देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥८७॥
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । ततः सत्र्चिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥८८॥
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । असोक्रिमावहत्कन्यां वीरणस्य प्रजापते ।
सुतां सुतपमा युक्तां महतीं लोकधरिणीम् ॥८९॥
अथ पुत्रसहस्त्राणि वैरुण्यां पत्र्च वीर्यवान् । असिक्न्यां जनयामास सर्वहेतोः प्रजापतिः ॥९०॥
तान्दृष्टा नारदो विप्र संविवर्द्धयिषून्प्रजाः । संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत ॥९१॥
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईद्वशो दृश्यते यत्नो भवतां श्रूयतामिदम् ॥९२॥
बालिशा बत यूयं वै नास्या जानीत वै भुवः । अन्तरूर्ध्वमधश्चैव कथं सृक्ष्मथ वै प्रजाः ॥९३॥
ऊर्ध्व तिर्यगधाश्चैव यदऽप्रतिहता गतिः । तदा कस्माद्भूवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥९४॥
ते तु तव्दचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥९५॥
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः । वैरुण्यामथ पुत्राणां सहस्त्रमसृजत्प्रभुः ॥९६॥
विवर्द्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः । पूर्वोक्तं वचनं ब्रह्मान्नारदेनैव नोदिताः ॥९७॥
अन्योऽन्यमूचुस्ते सर्वे सम्यगाह महामुनिः । भ्रातृणां पदवी चैव गन्तव्या नात्र संशयः ॥९८॥
ज्ञात्वा प्रमाणं पृथ्वाश्च प्रजासस्त्रक्ष्यामहे ततः । तेऽपि तेनैव मार्गेण समुद्रेभ्य इवापगाः ॥९९॥
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजः । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥१००॥
तांश्चापि नष्टान् विज्ञान पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे महाभागो नारदं स शशाप च ॥१०१॥
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः । षष्टिं दक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतुम् ॥१०२॥
ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्त्रोऽरिष्टनिमिने ॥१०३॥
द्वे चैव बहुपुत्राय द्वे चैवांगिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे श्रृणु ॥१०४॥
अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती । संकल्पा च मुहूर्ता च साख्या विश्वा च तादृशी ।
धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे श्रृणु ॥१०५॥
विश्वैदेवास्तु विश्वायाः साध्या साध्यानजायत । मरुत्वत्यां मरुत्वन्तो वसोश्च वसवः स्मृताः ।
भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्यजाः ॥१०६॥
लम्बायाश्चैव घोषोऽथ नागवीथी तु यामिजा ॥१०७॥
पृथिवीविषयं सर्वमरुन्धत्यामजायत । संकल्पायास्तु सर्वात्मा यज्ञे संकल्प एव हि ॥१०८॥
ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमः । वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥१०९॥
आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥११०॥
आपस्य पुत्रौ वैतण्डः श्रमः शान्तो ध्वनिस्तथा । ध्रुवस्य पुत्रौ भगवान्कालो लोकप्रकालनः ॥१११॥
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ॥११२॥
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । मनोहरायां शिशिरः प्राणोऽथ वरुणस्तथा ॥११३॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलास्य तु ॥११४॥
अगिन्पुत्रः कुमारस्तु शरस्तम्बे व्यजायतः । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥११५॥
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥११६॥
प्रत्युषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥११७॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्त्रमसक्ता विचरत्युक्त ।
प्रभासस्य तु सा भार्या वसूनाष्टमस्य तु ॥११८॥
विश्वकर्मा महाभागस्तस्या जज्ञे प्रजापतिः । कर्ता शिल्पसहस्त्राणां त्रिदशानां च वर्द्धकी ॥११९॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यः सर्वेषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥१२०॥
तस्य पुत्रास्तु चत्वारस्तेषां नामानि मे श्रृणु । अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्र्च वीर्यवान् ।
त्वष्टूश्चाप्यात्मजः पुत्रो विश्वरूपो महतपाः ॥१२१॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । वृषाकपिश्च शम्भूश्च कपर्दी रैवतह स्मृतः ॥१२२॥
मृगव्याधश्च शर्वश्व कपाली च महामुनेः । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् ॥१२३॥
कश्यपस्य तु भार्या यास्तासां नामानि मे श्रृणु । अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥१२४॥
सुरभिर्विनता चैव ताम्रा कोधवशा इरा । कन्द्रर्मुनिश्च धर्मज्ञ तदपत्यानि मे श्रृणु ॥१२५॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिरा नाम तेऽन्योऽन्यमूचुर्वैवस्वतेऽन्तरे ॥१२६॥
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥१२७॥
आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥१२८॥
एवमुक्त्या तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥१२९॥
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥१३०॥
विवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चातितेजा आदित्य द्वादश स्मृताः ॥१३१॥
चाक्षुषस्यान्तरे पुर्वमासन्ये तुषिताः सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥१३२॥
याः सप्तविंशतिः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः । सर्वा नक्षत्रयोगिन्यस्तन्नम्न्यश्चैव ताःस्मृता ॥१३३॥
तासामपत्यान्यभवन्दिप्तान्यमिततेजसाम् । अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥१३४॥
बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः ॥१३५॥
प्रत्यंगिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः । कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥१३६॥
एते युगसहस्त्रान्ते जायन्ते पुनरेव हि । सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ॥१३७॥
तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥१३८॥
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह । एवं देवानिकायास्ते सम्भवन्ति युगे युगे ॥१३९॥
दित्या पुत्रद्वयं जज्ञै कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥१४०॥
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥१४१॥
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः । अनुह्लदश्च ह्लदश्च प्रह्लदश्चैव बुद्धिमान् ।
संह्लदश्च महावीर्या दैत्यवंशविवर्द्धनाः ॥१४२॥
तेषां मध्ये महाभाग सर्वत्र समदृग्वशी । प्रह्लादः परमां भक्तिं व उवाच जनार्दने ॥१४३॥
दैत्येन्द्रदीपितो वह्निः सर्वांगोपचितो द्विज । न ददाह च यं विप्र वासुदेवे हृदि स्थिते ॥१४४॥
महार्णवान्तः सलिले स्थितस्य चलतो मही चचाल सकला यस्य पाशबद्धस्य धीमतः ॥१४५॥
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः । शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥१४६॥
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुरुतेजसः ॥१४७॥
शैलैराक्रान्तदेहोऽपि यः स्मरन्पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥१४८॥
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥१४९॥
यस्य संशोषको वायुर्देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥१५०॥
विषाणभंगमुन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षः स्थले प्राप्त दैत्येन्द्रपरिणामिताः ॥१५१॥
यस्य चोप्तादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥१५२॥
शम्बरस्य च मायानां सहस्त्रमतिमायिनः । यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथीकृतम् ॥१५३॥
दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् । जरयामास मतिमानविकारममत्सरी ॥१५४॥
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु । यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥१५५॥
धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः । उपमानमशेषाणां साधूनां यः सदाभवत् ॥१५६॥