श्रीविष्णुपुराण - प्रथम अंश - अध्याय १८

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


एवं प्रह्लादकृत भगवत् स्तुति

श्रीपराशर उवाच

तस्यैतां दनावाश्चेष्टां दृष्टा दैत्यपतेर्भयात् । आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥१॥

हिरण्यकशिपुरुवाच

हे सूदा मम पुत्रोऽसावन्यषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥२॥

हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् । अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥३॥

श्रीपराशर उवाच

ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञत्पं पित्रा तस्य महात्मनः ॥४॥

हालहलं विषं घोरमनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥५॥

अविकारं स तद्भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्वीर्य जरयामास तद्विषम् ॥६॥

ततः सूदा भयत्रस्ता जीर्णा दृष्टवा महद्विषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥७॥

सूदा ऊचुः

दैत्यराज विषं दत्तमस्माभिरतिभीषणम् । जीर्णं तेन सहान्नेन प्रह्लादेन सुतेन ते ॥८॥

हिरण्यकशिपुरुवाच

त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय उप्तादयत मा चिरम् ॥९॥

श्रीपराशर उवाच

सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥१०॥

पुरोहित ऊचुः

जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणःकुले । दैत्यराजस्य तनयो हिरण्यकशिपोर्भवान् ॥११॥

किं देवैः किमनन्तेन किमन्येन तवाश्रयः । पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥१२॥

तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् । श्‍लाध्यः पिता समस्तानां गुरुणां परमो गुरुः ॥१३॥

प्रह्लाद उवाच

एवमेतन्महाभागाः श्‍लाघ्यमेतन्महाकुलम् । मरीचेः सकलेऽप्यस्मिन् त्रैलोक्ये नान्यथा वदेत् ॥१४॥

पिता च मम सर्वस्मित्र्जगत्युत्कृष्तचेष्टितः । एतदप्यवगच्छमि सत्यमत्रापि नानृतम् ॥१५॥

गुरूणामपि सर्वषं पिता परमको गुरुः । यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥१६॥

पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम् ॥१७॥

यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिरीदृशम् । को ब्रवीति यथान्याय्यं किं तु नैतद्वचोऽर्थवत् ॥१८॥

इत्युक्त्वा सोऽभवन्मौनी तेषां गौरवयन्त्नितः । प्रहस्य च पुनः प्राह किननन्तेन साध्विति ॥१९॥

साधु भो किमनन्तेन साधु भो गुरवो मम । श्रुयतां यदनन्तेन यदि खेदं न यास्यथ ॥२०॥

धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः । चतुष्टयमिदं यस्मात्तस्मात्किं किमिदं वचः ॥२१॥

मरिचिमिश्रैर्दक्षाद्यैस्तथैवान्यैरनन्ततः । धर्मः प्राप्तस्तथा चार्न्यैरर्थः कामस्तथाऽपरैः ॥२२॥

तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥२३॥

सम्पदैश्वर्यमाहात्म्यज्ञानसन्ततिकर्मणाम् । विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरे ॥२४॥

यतो धर्मार्थकमाख्यं मुक्तिश्चापि फलं द्विजाः । तेनापि किं किमित्येवमनन्तेन किमुच्यते ॥२५॥

किं चापि बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वासाधु विवेकोऽस्माकमल्पकः ॥२६॥

बहुनात्र किमुक्तेन स एव जगतः पतिः । स कर्त्ता च विकर्त्ता च संहर्ता च हृदि स्थितः ॥२७॥

स भोक्ता भोज्यमप्येवं स एवं जगदीश्वरः । भवद्भिरेतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥२८॥

पुरोहिता ऊचुः

दह्यामानस्त्वमस्माभिरग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान् ॥२९॥

यदास्मद्वचनान्मोहग्राहं न त्यक्ष्यते भवात् । ततः कृत्यां विनाशाय तव स्त्रक्ष्याम दुर्मते ॥३०॥

प्रह्लाद उवाच

कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्यास्यत्साधु समाचरन् ॥३१॥

कर्मणा जायते सर्व कर्मैव गतिसाधनम् । तस्मत्सर्वप्रयत्नेन साधुकर्म समाचरेत् ॥३२॥

श्रीपराशरजी उवाच

इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामृत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम् ॥३३॥

अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शूलेन साधु संकुद्धा तं जलानाशु वक्षासि ॥३४॥

तत्तस्य हृदयं प्राप्यं शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥३५॥

यत्रानपायी भगवान् हृद्यास्ते हरिरीश्वरः । भंगो भवति वज्रस्य तत्र शूलस्य का कथा ॥३६॥

अपापे तत्र पापैश्च पातिता दैत्ययाजकैः । तानेव सा जघानाशु कृत्या नाशं जगाम च ॥३७॥

कृत्यया दह्ममानांस्तान्विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति वदन्नभवपद्यत ॥३८॥

प्रह्लाद उवाच

सर्वव्यापिन जगद्रूप जगत्स्त्रष्टर्जनार्दन । पाहि विप्रानिमनस्मादृःसहान्मन्त्रपावकात् ॥३९॥

यथा सर्वेषु भूतेषु सर्वव्यापी जगदगुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहोताः ॥४०॥

यथा सर्वगतं विष्णुं मन्यमानोऽनपायिनम् । चिन्तयाम्यरिपक्षेऽपिं जीवन्त्वेते पुरोहिताः ॥४१॥

ये हन्तुमागता दत्तं यैर्विंषं यैर्हुताशनः । यैर्दिग्गजैरहं क्षुण्णो दष्टः सर्पैश्च यैरपि ॥४२॥

तेष्वहं मित्रभावेन समः पापोऽस्मि न क्वचित् । यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥४३॥

श्रीपराशर उवाच

इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः । समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्चयान्वितम् ॥४४॥

पुरोहिता ऊचुः

दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनैश्वर्यैर्युक्तो वत्स भवोत्तमः ॥४५॥

श्रीपराशरजी उवाच

इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलमाचचख्युर्महामुने ॥४६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP