श्रीविष्णुपुराण - प्रथम अंश - अध्याय १९

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूया पुत्रं पप्रच्छं प्रभावस्यास्य कारणम् ॥१॥

हिरण्यशिपुरुवाच

प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहजं तव ॥२॥

श्रीपराशर उवाच

एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः । प्रणितस्य पितुः पादाविदं वचनब्रवीत् ॥३॥

न मन्त्रादिकृतं तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥४॥

अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥५॥

कर्मणा मनासा वाचा परपीड़ा करोति यः । तद्वीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥६॥

सोऽहं पापमिच्छामि न करोमि वदामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥७॥

शारिरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र सुभचित्तस्य तस्य मे जायते कृतः ॥८॥

एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥९॥

श्रीपराशर उवाच

इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान ॥१०॥

हिरण्यकशिपुरुवाच

दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नांगसंहतिः ॥११॥

ततस्तं चिक्षिपुः सर्वे बालं दैतेयदानवाः । पपात सोप्यधः क्षिप्तो हृदयेनोद्वहन्हरिम् ॥१२॥

पतमानं जगद्धात्री जगद्धातारि केशवे । भक्तियुक्तं दधारैनमुपसंगम्य मेदिनी ॥१३॥

ततो विलोक्य तं स्वस्थमविशीर्णास्थिपत्र्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥१४॥

हिरण्यकशिपुरुवाच

नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥१५॥

शम्बर उवाच

सूदयाम्येव दैत्येन्द्र पश्य मायाबलं मम । सहस्त्रमत्र मायानां पश्य कोटिशतं तथा ॥१६॥

श्रीपराशर उवाच

ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥१७॥

समाहितमतिर्भूत्वा शम्बरेऽपि विमत्सरः । मैत्रेय सोऽपि प्रह्लादः सस्माद मधुसूदनम् ॥१८॥

ततो भगवता तस्य रक्षार्थ चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥१९॥

तेन मायासहस्त्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं च विशोधितम् ॥२०॥

संशाषकं तथा वायूं दैत्यन्द्रस्त्विदमब्रवीत् । शीघ्रमेष ममादेशद्दुरात्मा नीयतां क्षयम् ॥२१॥

तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु । शीतोऽतिरूक्षः शोषाय तद्देहस्यातिदुःसह ॥२२॥

तेनाविष्टमथात्मानं स बुद्‌ध्वा दैत्यबालकः । हृदयेन माहात्मानं दधार धरणीधरम् ॥२३॥

हृदयस्थस्ततस्तस्य तं वायुमतिभीषणम् । पपौ जनार्दन क्रुद्धः स ययौ पवनः क्षयम् ॥२४॥

क्षीणासु सर्वमायासु पवने च क्षयं गते । जगाम सोऽपि भवनं गुरोरेव महामतिः ॥२५॥

अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं भलं राज्ञामुशनसा कृताम् ॥२६॥

गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तप्तित्रे कथयामास शिक्षितम् ॥२७॥

आचार्या उवाच

गृहितनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥२८॥

हिरण्यकशिपुरुवाच

मित्रषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् ॥२९॥

कथं मन्त्रिष्वमात्येष ब्राहोष्वाभ्यन्तरेषु च । चारेषु पौरवर्गेषु शंकितेषइतषु च ॥३०॥

कृताकृत्यविधानत्र्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥३१॥

एतद्च्चान्यच्च सकलमधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥३२॥

श्रीपराशर उवाच

प्रणिपत्य पितुः पादो तदा प्रश्चभूषणः । प्रह्लादः प्राह दैत्यैन्द्रं कृताज्त्रलिपुस्तथा ॥३३॥

प्रह्लाद उवाच

ममोपदिष्टं सकलं गुरुणां नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतं मम ॥३४॥

साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादीनां च साधने ॥३५॥

तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनेः किं प्रजोजनम् ॥३६॥

सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कृतः ॥३७॥

त्वय्यस्तिअ भगवान् विष्णुर्मयि चान्यत्र चास्ति सः । यतस्ततोऽयं मित्रं मे शत्रुश्चेति पृथक्कुतः ॥३८॥

तदेभिरलामत्यर्थ दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने ॥३९॥

विद्याबुद्धिरविद्यायामज्ञानात्तात जायते । बालोऽग्निं किं न खद्योतमसुरेश्वर मन्यते ॥४०॥

तक्तर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥४१॥

तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥४२॥

न चिन्तयति को राज्यं को धनं नाभिवात्र्छति । तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ॥४३॥

सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पूसां भाग्यानि नोद्यमा भूतिहेतवः ॥४४॥

जडानामविवेकानामशुराणामपि प्रभो । भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥४५॥

तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥४६॥

देवा मनुष्याः पशवः पक्षिवृक्षसरिसृपाः । रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम ॥४७॥

एतद्विजानता सर्वं जगत्स्थावरजंगमम् । द्रष्टव्यमात्मद्विष्णुर्यंतोऽयं विश्वरूपधृक् ॥४८॥

एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥४९॥

श्रीपराशर उवाच

एतच्छुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् ॥५०॥

उवाच च स कोपेन सामर्षः प्रज्वलन्निव । निष्पिव्य पाणिना पाणिं हन्तुकामो जगद्यथा ॥५१॥

हिरण्यकशिपुरुवाच

हे विप्रिचित्ते हे राहो हे बलैष महार्णवे । नागपाशैर्दृढैर्बद्‌ध्वा क्षिप्यतां मा विलम्ब्यताम् ॥५२॥

अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥५३॥

बहुशो वारितोऽस्माभिरयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥५४॥

हिरण्यकशिपुरुवाच

दैतेयाः सकलैः शलैरत्रैव वरुणालये । निश्छिद्रैः सर्वशः सर्वैश्चीयतामेष दुर्मतिः ॥५८॥

नाग्निर्दहति नैवायं शस्त्रैरिछत्रो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया ॥५९॥

न मायाभिर्न चैवोत्र्चात्पातितो न च दिग्गजैः । बालोऽतिदुष्टचित्तोऽयं नानेनार्थोऽस्ति जीवता ॥६०॥

तदेष तोयमध्ये तु समान्कान्तो महीधरैः । तिष्ठत्वब्दसहस्त्रान्तं प्राणान्हास्याति दुर्मतिः ॥६१॥

ततो दैत्या दानवाश्च पर्वतैस्तं महोदधी । आक्रम्य चयनं चक्रुर्योजनानि सहस्त्रशः ॥६२॥

स चित्तः पर्वतैरन्तः समुद्रस्य महामतिः । तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम् ॥६३॥

प्रह्लाद उवाच

नमस्ते पुण्डरीकक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥६४॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥६५॥

ब्रह्मात्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥६६॥

देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥६७॥

पक्षिणः स्थावरश्चैव पिपीलिकसरीसृपाः । भूम्यापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः ॥६८॥

रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थाश्च सर्वमेतत्त्वमच्युत ॥६९॥

विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥७०॥

समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥७१॥

मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च । तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥७२॥

त्वां योगिनाश्चिन्तयन्ति त्वां यजन्ति च याजकाः । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥७३॥

रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्म जगदेतदीश । रूपाणि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥७४॥

तस्माच्च सूक्ष्मादिवेशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ॥७५॥

सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥७६॥

यातीतगोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्चरीं पराम् ॥७७॥

ॐ नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥७८॥

नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योऽस्तित्वेनोपलभ्यते ॥७९॥

यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥८०॥

योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परेश्वरम् ॥८१॥

नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥८२॥

यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥८३॥

ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥८४॥

सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥८५॥

अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः । ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ॥८६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP