आश्विन शुक्लपक्ष व्रत - विजयादशमी

व्रतसे ज्ञानशक्ति, विचारशक्ति, बुद्धि, श्रद्धा, मेधा, भक्ति तथा पवित्रताकी वृद्धि होती है ।


विजयादशमी

( श्रुति - स्मृति - पुराणादि ) -

आश्विन शुक्ल दशमीको श्रवणका सहयोग होनेसे विजयादशमी होती है । इस दिन राज्यवृद्धिकी भावना और विजयप्राप्तिकी कामनावाले राजा ' विजयकाल ' में प्रस्थान करते हैं । ' ज्योतिर्निबन्ध ' में लिखा है कि

' आश्विनस्य सिते पक्षे दशम्यां तारकोदये । स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये ॥

' आश्विन शुक्ल दशमीके सायंकालमें तारा उदय होनेके समय ' विजयकाल ' रहता है । वह सब कामोंको सिद्ध करता है । आश्विन शुक्ल दशमी पूर्वविद्धा निषिद्ध, परविद्धा शुद्ध और श्रवणयुक्त सूर्योदयव्यापिनी सर्वश्रेष्ठ होती है । राजाओंको चाहिये कि उस दिन प्रातःस्त्रानादि नित्यकर्मसे निश्चिन्त होकर

' मम क्षेमारोग्यादिसिद्धयर्थ यात्रायां विजयसिद्धयर्थं गणपतिमातृकामार्गदेवतापराजिताशमीपूजनानि करिष्ये ।'

यह संकल्प करके उक्त सभी देवताओं, अस्त्र - शस्त्राश्वादिकों और पूजनीय गुरुजन आदिका यथाविधि १ पूजन करके सुसज्जित अश्वपर आरुढ़ होकर अपराह्णमें गज, तुरग, रथराज्यैश्वर्यादिसहित यात्रा करके स्वपुरसे बाहर ईशान कोणमें शमी ( जाँटी या खेजड़ा ) और अश्मन्तक ( कोविदार या कचनार ) के समीप अश्वसे उतरकर शमीके मूलकी भूमिका जलसे प्रोक्षण करे और पूर्व या उत्तर मुख बैठकर पहले शमीका और फिर अश्मन्तकका पूजन करे और

' शमी शमय मे पापं शमी लोहितकण्टका । धारिण्यर्जुन बाणानां रामस्य प्रियवादिनी ॥

करिष्यमाणयात्रायां यथाकालं सुखं मम । तत्र निर्विघ्रकर्त्री त्वं भव श्रीरामपूजिते ॥'

इन मन्त्नोंसे शमीकी और

' अश्मन्तक महावृक्ष महादोषनिवारक । इष्टानां दर्शनं देहि शत्रूणां च विनाशनम् ॥'

इससे अश्मन्तककी प्रार्थना करके शमीके अथवा अश्मन्तकके या दोनोकि पत्ते लेकर उनमें पूजास्थानकी थोड़ी - सी मृत्तिका और कुछ तण्डुल तथा एक सुपारी रखकर कपड़ेमें बाँध ले और कार्यसिद्धिकी कामनासे अपने पास रखे । फिर आचार्यादिका आशीर्वाद प्राप्तकर वहाँ ही पूर्व दिशामें विष्णुकी परिक्रमा करके अपने शत्रुके स्वरुपको हदयमें और उसकी प्रतिकृति ( मूर्ति या चित्रादि ) को दृष्टिमें रखकर ( तोप, बंदूक या ) सुवर्णके शरसे उसके हदयके मर्मस्थलका भेदन करे और खड्गको हाथमें लेकर दक्षिण दिशासे आरम्भ करके वृक्षके समीपकी चारों दिशाओंमें जाकर सब दिशाओंकी विजय करे और शत्रुको जीत लिया है, यह कहे । इसके बाद यथापूर्व नगरमें जाकर प्रवेशद्वारपर नीराजनादि कराकर निवास करे ।

शस्त्रादीनां पूजनविधिः - ततो राजा ' गणेशाय नमः ' इति नाममन्त्रेण आवाहनादिषोडशोपचारै; सम्पूज्य एवं मातृकादीनां पितृदेवादीनां च सम्यक् पूजन विधाय ततः ' छत्राय नमः ' इत्यादिमन्त्रेण गन्धादिभिः सम्पूज्य -

यथाम्बुदश्छादयति शिवायेमां वसुन्धराम् ।

तथा छादय राजानं विजयारोग्यवृद्धये ॥

- इति पठेत् । एवं चामरादीनामपि पूजनं कुर्यात् । तेषां प्रार्थनामन्त्रात् एवं पठेत् ।

चामरमन्त्रः -

शशाङ्ककरसंकाश क्षीरडिण्डीरपाण्डुर ।

प्रोत्सारयाशु दुरितं चामरामरदुर्लभ ॥

खड्गमन्त्रः -

असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।

श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ॥

इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।

नक्षत्रं कृत्तिक ते तु गुरुर्देवो महेश्वरः ॥

हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।

पिता पितामहो देवस्त्वं मां पालय सर्वदा ॥

नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्रः कृशोदरः ।

भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥

इयं येन धृता क्षोणी हतश्च महिषासुरः ।

तीक्ष्णधाराय शुद्धाय तस्मै खडगाय ते नमः ॥

कटारमन्त्रः -

रक्षाङ्गनि गजान् रक्ष रक्ष वाजिधनानि च ।

मम देहं सदा रक्ष कट्टारक नमोऽस्तु ते ॥

छुरिकामन्त्रः -

सर्वायुधानां प्रथमं निर्मितासि पिनाकिना ।

शूलायुधाद् विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥

चण्डिकायाः प्रदत्तासि चासि देवानां प्रतिपादिता ॥

सर्वसत्त्वाङ्गभूतासि सर्वाशुभनिबर्हिणी ।

छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ॥

कवचमन्त्रः -

शर्मप्रसरत्वं समरे वर्म सर्वायशो नुद ।

रक्ष मां रक्षणीयोऽहं तापनेय नमोऽस्तु ते ॥

चर्ममन्त्रः -

चण्डिकायाः प्रदत्तं त्वं सर्वदुष्टनिबर्हणम् ।

त्वया निस्तारिता देवाः सुप्रतिष्ठं पितामहैः ॥

अतस्त्वीय बलं सर्वं विन्यस्तं देवसत्तमैः ।

तस्मादायोधने रक्ष शत्रून् नाशय सर्वदा ॥

चापमन्त्रः - सर्वायुधमहामात्र सर्वदेवारिसूदन ।

चाप मां समरे रक्ष साकं शरवरैरिह ॥

धृतः कृष्णेन रक्षार्थं संहाराय हरेण च ।

त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्यहम् ॥

शक्तिमन्त्रः - शक्तिस्त्वं सर्वदेवानी गुहस्य च विशेषताः ।

शक्तिरुपेण देवि त्वं रक्षी कुरु नमोऽस्तु ते ॥

कुन्तमन्त्रः - प्रास पातय शत्रूंस्त्वमनया नाकमायया ।

गृहाण जीवितं तेषां मम सैन्यं च रक्षय ॥

अग्नियन्त्रमन्त्रः -

अग्निशस्र नमस्तेऽस्तु दूरतः शत्रुनाशन ।

शत्रून् दह हि शीघ्नं त्वं शिवं मे कुरु सर्वदा ॥

पाशमन्त्रः -

पाश त्वं नागरुपोऽसि विषपूर्णो विषोद्भवः ।

शत्रवो हि त्वया बद्धा नागपाश नमोऽस्तु ते ॥

परशुमन्त्रः -

परशो त्वं महातीक्ष्ण सर्वदेवारिसूदन ।

देवीहस्तस्थितो नित्यं शत्रुक्षय नमोऽस्तु ते ॥

ध्वजमन्त्रः -

शक्रकेतो महावीर्य सुपर्णस्त्वयुपाश्रितः ।

पत्रिराज नमस्तेऽस्यु तथा नारायाणध्वज ॥

काश्यपेयारुणभ्रातर्नागारे विष्णुवाहन ।

अप्रमेय दुराधर्ष रणे देवारिसूदन ॥

गरुत्मन् मारुतगतिस्त्वयि संनिहितो यतः ।

साश्वचर्मायुधान् योधान् रक्ष त्वं च रिपून् दह ॥

पताकामन्त्रः -

हुतभुग् वसवो रुद्रा वायुः सोमो महर्षयः ।

नागकिन्नरगन्धर्वयक्षभूतगणग्रहाः ॥

प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ।

शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ॥

प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ॥

यानि प्रयुक्तान्यरिभिरायुधानि समन्ततः ॥

पतन्तूपरि शत्रूणां हतानि तव तेजसा ।

कालनेमिवधे यद्वद् यद्वत् त्रिपुरघातने ॥

शोभितासि तथैवाद्य शोभयस्मांश्च संस्मर ।

नीलां श्वेतामिमां दृष्टा नश्यन्त्वाशु नृपारयः ॥

व्याधिभिर्विविधैधेरिः शस्त्रैश्च युधि निर्जिताः ।

सद्यः स्वस्था भवन्त्वस्मात्त्वद्वातेनापमार्जिताः ॥

पूतना रेवती नाम्रा कालरात्रिश्च या स्मृता ।

दहत्वाशु रिपून् सर्वान् पताके त्वं मर्याचित ॥

कनकदण्डमन्त्रः

प्रोत्त्सारणाय दुष्टांना साधुसंरक्षाय च ।

ब्रह्मणा निर्मिताश्चासि व्यवहारप्रसिद्धये ॥

यशो देहि सुखं जयदो जयदो भव भूपतेः ।

ताडयस्व रिपून् सर्वान हेमदण्ड नमोऽस्तु ते ।

दुन्दुभिणमन्त्रः -

दुन्दुभे त्वं सपत्वानां घो ओ हदयकर्षणः ।

तथास्तु तव शब्द हर्षोऽस्माकं मुदावह ॥

यथा जीमुलब्धेन स्त्रीणां त्रासोऽभिजायते ॥

तथैव तव शब्देन त्रयन्वसमदद्विषो भव ॥

सिंहासनमन्त्रः -

विजयो जयदो जेता रिहुन्ता शुभङ्करः ।

दुःखहा धर्मदः शान्तः सर्वारिष्टिविनाशनः । एते सिंहासनेती त्वं वेदैर्मन्तैश्च गीयसे ॥

त्वयि स्थीतः शिवः शान्तास्त्वीय शक्रः सुरेश्वरः ।

त्वयि स्थितो हरिदेंवत्सदर्थ तप्यते तपः ॥

नमस्ते सर्वतोभद्र भद्रदो भव भूपतेः ।

त्रैलोक्यजयसर्वस्व सिंहासन नमोऽस्तु ते ॥

अश्वपूजनम् -

तद्दक्षिणकर्णे जपेत् ।

कुलाभिजनजात्या च लक्षणैर्व्यञ्जनोत्तमैः ।

भर्तारमभिरक्ष त्वं शिवं तव भवेदिति ॥

कशाघातमधिष्ठानं क्षमस्व तुरगोत्तम ।

ततोऽश्वाय भक्ष्यं दत्वा -

अश्वराज पुरोधास्तु विष्णुस्ते पुरतः स्थितः ।

वरुणः पाशहस्तस्त्वां पृष्ठतः परिक्षतु ॥

वैवस्वतकुबेरौ च पार्श्वयोरभिरक्षताम् ।

चन्द्रादित्यौ पृष्ठवंशे उदरं पृथिवीधरः ॥

रक्षन्तु वक्त्रं गन्धर्वा बलमिन्द्रो ददातु ते ।

हविः शेषमिति प्राश्यं विजयार्थं महीपतेः ॥

आचमनं दत्त्वा स्तुतिं पठेत् -

गन्धर्वकुलजातस्त्वं मा भूयाः कुलदूषकः ।

ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥

प्रभावाच्च हुताशस्य वर्धय त्वं तुरङ्ग माम् ।

तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥

रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।

सुरासुरैर्मथ्यमानक्षीरोदादमृतादिभिः ।

जात उच्चैःश्रवा पूर्वं तेन जातोऽसि तत् स्मर ।

यां गतिं ब्रह्महा गच्छेन्मातृहा पितृहा तथा ॥

भूमिमहानृतवादी च क्षत्रियश्च पराड्मुखः ॥

सूर्याचन्द्रमसौ वायुर्यावत् पश्यति दुष्कृतम् ।

व्रजाश्व तां गतिं क्षिप्रं तच्च पापं भवेत् तव ॥

विकृतिं यदि गच्छेथा युद्धाध्वनि तुरङ्गम ।

विजित्य समरे शत्रून् सह भर्त्रा सुखी भव ॥

शिविकामन्त्नः -

महेन्द्रनिर्मिते दिव्ये देवराजादिसेविते ।

शिविके रक्ष मां नित्यं सदा त्वं संनिधौ भव ॥

निर्मित्तासि कुबेरेण या त्वं निद्रासुखार्थिना ।

शिविके पाहि मां नित्यं शान्तिं देहि नमोऽस्तु ते ॥

रथमन्त्नः -

शस्त्रास्त्रधारणार्थाय निर्मितो विश्वकर्मणा ।

रथनेमिखनैघोरै रिपोर्हदयकम्पनः ॥

गजमन्त्रः -

कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।

सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ॥

तेषां पुत्राश्च पौत्राश्च वनान्यष्टौ समाश्रिताः ।

मन्दो भद्रो मृगश्चैव राजा संकीर्ण एव च ॥

वने वने प्रसूतास्ते स्मर योनिं महागज ।

पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्रुणाः ॥

भर्तरिं रक्ष नागेन्द्र स्वामी च प्रतिपाल्याताम् ।

अवाप्रुहि जयं युद्धे गमने स्वस्तितो व्रज ॥

श्रीस्ते सोमाद् बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ।

स्थैर्य मेरेर्जयं रुद्राद् यशो देवात् पुरन्दरात् ॥

युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवर्तैः ।

अश्विनौ सह गन्धर्वेः पान्तु त्वां सर्वतः सदा ॥

इति राजचिह्नादिपूजनविधिः ।

N/A

References : N/A
Last Updated : January 21, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP