संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
गोत्राणांप्रवराणां

धर्मसिंधु - गोत्राणांप्रवराणां

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गोत्राणांप्रवराणांचगणनाप्रोच्यतेधुना । संक्षेपात्सुखबोधायभगवत्प्रतीयेपिच १ सप्तभृगवः । सप्तदशाङ्गिरसः ।

चत्वारोऽत्रयः । दशविश्वामित्राः । त्रयःकश्यपाः । चत्वारोवसिष्ठाः । चत्वारोगस्तयः ।

इत्येकोनपञ्चाशद्गणास्तथापिसर्वग्रन्थमतसंग्रहेणाधिकास्तत्रतत्रवक्ष्यन्ते तत्रसप्तभृगुगणाः ।

वत्साः बिदाः एतौ जामदग्न्यौ आर्ष्टिषेणाः यस्काः मित्रयुवः वैन्याः शुनकाएतेचपञ्चकेवलभृगवःएवंसप्त ।

तत्र वत्साः मार्कण्डेयाः माण्डूकेयाःइत्यादयः शतद्वयाधिकावत्सगोत्रभेदा एतेषांपञ्चप्रवराः

भार्गवच्यावनाप्नवानौर्वजामदग्नयेतिभार्गवौर्च जामदग्न्येति त्रयोवार्भागवच्यावनाप्नवानेतित्रयोवाबिदाः

शैलाः अवटाःइत्यादयोविंशत्यधिकाबिदाः तेषांपञ्चप्रवराः भार्गवच्यावनाप्नवानौर्ववैदेति । भार्गवौर्वजामदग्रयेतिवा ।

आर्ष्टिषेणाः नैऋतयः याम्यायणाः इत्यादयोविंशत्यधिकाआर्ष्टिषेणाः एषांभार्गवच्यावनाप्नवानार्ष्टिषेणानूपेतिपञ्च

भार्ववार्ष्टिषेणानूपेतित्रयोवा एतेषांत्रयाणांवत्सबिदार्ष्टिपेणानांपरस्परमविवाहः द्वित्रिप्रवरसाम्यात

आद्ययोर्जामदग्नयत्वेनसगोत्रत्वाच्च यद्यपित्रिप्रवरार्ष्टिषेणानावत्सबिदैःसहनद्विप्रवरसाभ्यंनापिसगोत्रत्वं

जामदग्न्यत्वाभावात तथापिपञ्चप्रवरपक्षगतमपित्रिप्रवरसाम्यंविवाहबाधकम् एवमग्रेपिज्ञेयम् वात्स्यानांभार्गवच्यावनाप्नवानेतित्रयः ।

वत्सपुरोधसोर्भार्गवच्यावनाप्नवानवत्सपौरोधसेतिपञ्च । बैजमथितयोर्भार्गवच्यावनाप्नवानबैजमथितेति पञ्च ॥

एते त्रयः क्वचित् एतेषां परस्परं पूरोक्तैश्चत्रिभिर्नविवाहः त्रिप्रवरसाम्यात यस्काः मौनाः

मूकाः इत्यादयस्त्रिपञ्चाशदधिकायस्का एषां भार्गववैतहव्यसवेतसेतित्रयः ।

मित्रयुवः रौष्ट्यायनाः सापिण्डिनाः इत्यादयस्त्रिंशदधिकामित्रयुवः तेषांभार्गववाध्र्यश्वदैवोदासेतित्रयः

भार्गवच्यावनदैवोदासेतिवा वाध्र्यश्वेत्येकोवा । वैन्याः पार्थाः बाष्कलाः श्येताइत्येतेवैन्याः एषांभार्गववैन्यपार्थेतित्रयः ।

शुनका गार्त्समदाः यज्ञपतयः इत्यादयःसप्तदशाधिकाः शुनकाः एषांशौनकेत्येकः । गार्त्समदेतिवा ।

भार्गवगार्त्समदेति द्वौवा । भार्गवशौनहोत्रगार्त्समदेतित्रयोवा ।

यस्कादीनांचतुर्णांस्वस्वगणंहित्वापरस्परंपूर्वैर्जामदग्न्यवत्सादिभिश्चसहविवाहोभवति

एकप्रवरसाम्येपिद्वित्रिप्रवरसाम्याभावात भृगुगणेषुएकप्रवरसाम्यस्यदूषकत्वाभावात

अजामदग्न्यत्वेनासगोत्रत्वातमित्रयुवांपाक्षिकद्विप्रवरसाम्यातत्रिप्रवरैर्वत्सादिभिःसहनविवाहइतिकेचित

तत्प्रवरपक्षग्राहिणामविवाहः पक्षान्तरग्राहिणांमित्रयूनांविवाहएवेत्यन्ये क्वचिदधिकंगणद्वयमुक्तम

वेदविश्वज्योतिषांभार्गववेदवैश्वज्योतिषेतित्रयः शाठरमाठराणांभार्गवशाठरमाठरेतित्रयः

अनयोः परस्परं पूर्वैश्चसर्वैर्विवाहः इतिभृगुगणाः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP