अथब्रह्मचारिधर्माः तत्रसंध्यात्रयमग्निपरिचरणंभैक्षंचनित्यम् तत्राग्निकार्यं प्रातःसायंच सायमेवसकृद्वा
तत्रपलाशखदिराश्वत्थशमीसमिधःश्रेष्ठास्तदलाभेऽर्कवेतसाम् भवच्छब्दपूर्विकाभिक्षाविप्राणाम् साचविप्रगृहेष्वेव
आपदिशूद्रगृहेषुआमान्नंगृह्णीयत हव्ये श्राद्धभिन्नकव्येचाभ्यार्थितोभुञ्जीत अस्यब्रह्मयज्ञोपिनित्यः
सचोपाकरणात्पूर्वगायत्र्या कार्यः गुरूच्छिष्टंमध्वादिकंनिषिद्धमपितदन्यापरिहार्यरोगनिवृत्त्यर्थंभक्षणीयम्
निषिद्धान्यत्गुरूच्छिष्टंत्वनौषधमपिभक्ष्यम् एवंज्येष्ठभ्रातुःपितुश्चोच्छिष्टेषुज्ञेयम्
दिवास्वापोनेत्रेकज्जलमुपानच्छत्रंमञ्चादौशयनंचवर्ज्यम् ताम्बूलाभ्यञ्जनंचैवकांस्यपात्रेचभोजनम्
यतिश्चब्रह्मचारीचविधवाचविवर्जयेत् १ मधुसूतकान्नश्राद्धान्नादेर्निषेधाःपुनः
संस्कारप्रकरणोक्ताअनुसंधेयाःमेखलामाजिनंदण्डमुपवीतंचनित्यशः ।
कौपीनंकटिसूत्रंचब्रह्मचारीविधारयेत् १ मेखलोपवीतादौत्रुटितेजलेप्रास्यान्यद्धारयेत्
यज्ञोपवीतनाशेमनोज्योतिरित्यनेनव्रातपतिभिश्चेतिचतस्त्रआज्याहुतीर्जुहुयादित्युक्तम्
अस्यगुरुपरिचर्याप्रकारोऽन्यत्रज्ञेयः ॥