अथसमावर्तनकालःतत्रोपनयनोक्तकालेसमावर्तनमितिबहवोज्योतिर्ग्रन्थाः तेनानध्यायेप्रदोषदिनेभौमशनिवारयोः
पौषाषाढयोर्दक्षिणायने चनभवति मार्गशीर्षेविवाहप्रसक्तौदक्षिणायनेऽपिभवति अन्यथा
अनाश्रमीनतिष्ठेतदिनमेकमपिद्विजः इतिनिषेधातिक्रमापत्तेः अन्येतु
मौञ्जयुक्तकालोपादानेमूलाभावातरिक्तात्रयपूर्णिमामावास्याष्टमीप्रतिपद्भिन्नतिथिषु
शुक्लेन्त्यत्रिकभिन्नकृष्णेचगुरुशुक्रास्तादिदिनक्षयभद्राव्यतीपातादिदोषशून्येशुभवारेसमावर्तनंकार्यम्
नात्रप्रदोषसोपपदादितिथिवर्जनमावश्यकमित्याहुः
पुष्यपुनर्वसुमृगरेवतीहस्तानुराधोत्तरात्रयरोहिणीश्रवणविशाखाचित्राःश्रेष्ठाःएतदलाभेमौञ्जयुक्तभानि क्वचिद्भौमशनिवारौसिन्धावुक्तौ ॥