संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
षंढान्धबधिरमूकपंगुकुब्जवामनादयःसंस्कार्याः

धर्मसिंधु - षंढान्धबधिरमूकपंगुकुब्जवामनादयःसंस्कार्याः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


षंढान्धबधिरमूकपंगुकुब्जवामनादयःसंस्कार्याः मत्तोन्मत्तौनसंस्कार्यवित्येके

पातित्यंतुनास्तिकर्मानधिकारात् तदपत्यंसंस्कार्यम् ब्राह्मण्यांब्राह्मणादुत्पन्नोब्राह्मणएवेतिश्रुतेः

अन्येतुमत्तोन्मत्तावपिसंस्कार्यावित्याहुः अत्रहोममाचार्यः करोति

उपनयनंचाचार्यसमीपनयनमग्निसमीपनयनंवागायत्रीवाचनंवाविकलांगविषयेप्रधानम्

एतत्त्रयान्यतममात्रंविकलांगे संपाद्यम् अन्यदंगंयथासंभवंकार्यम् मूकबधिरादेःसावित्रीवाचनासंभवेस्पृष्ट्वासावित्रीजपः

कार्यः संस्कारमन्त्रावासःपरिधानमंत्राश्चाचार्येणवाच्याः केचित्तूष्णींवासःपरिधानादिकमित्याहुः

एवंविवाहेपि कन्यास्वीकरणादन्यत्सर्वंविप्रेणकारयेदित्यादिवचनात् इतिविकलांगोपनयनादिविचारः ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP