तृतीयः पुनरुपनयननिमित्तप्रकारः एकंवेदमधीत्यवेदान्तराध्ययनचिकीर्षायांप्रतिवेदंपुनरुपनयनमित्येके
अन्यवेदिनामृग्वेदाध्ययनार्थमुपनयनमित्यपरे अन्येतुएकेनैवोपनयनेनवेदत्रयाध्ययनाधिकारः
अथर्ववेदाध्ययनार्थंद्वितीयमुपनयनमित्याहुः
तेनऋगादिवेदत्रयाध्यायिनोमुण्डमाण्डुक्याद्याथर्वणोपनिषदोविनापुनःसंस्कारंपठन्तितेचिन्त्याः
युगपदनेकवेदारम्भे नोपनयनावृत्त्यपेक्षेतिसकृदुपनीत्यायुगपत्सकलवेदारम्भःसिद्ध्यतीतिपरे
तत्रएकवेदाध्ययनानन्तरंयद्वेदाध्ययनचिकीर्षाद्वेदेतिकर्तव्यताकंपुनरुपनयनम्
तत्रवपनंब्रह्मौदनंमेधाजननंदीक्षाचकृता परिदानान्ताक्रियाभवति
अनध्यायादिकेद्वितीयेपुनरुपनयननिमित्तेसर्वमाविकृतंयथोक्तकालेउपनयनम् ॥