संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथानध्यायाः

धर्मसिंधु - अथानध्यायाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथानध्यायाः तेचनित्यानैमित्तिकाश्चप्रायेणमौञ्जीप्रकरणेउक्ताः ततोन्येपि उभयविधानध्यायाबहवोनिबन्धेषूक्तास्तेऽत्रनप्रपच्यन्ते

कलिकालेस्मिस्तावदनध्यायपालनस्य दुर्मेधसामशक्यत्वात् तथाचहेमाद्रौस्मृतिः चतुर्दश्यष्टमीपर्वप्रतिपत्स्वेवसर्वदा ।

दुर्मेधसामनध्यायास्त्वंतरागमनेषुच १

इति अतःकालौप्रतिपदद्वयमष्टमीद्वयंचतुर्दशीद्वयंपूर्णिमादर्शोऽयनसंक्रान्तिरित्येतावतएवानध्ययांस्त्यक्त्वावेदशास्त्रादिकमध्येतव्यम्

पुंसांप्रायोल्पप्रज्ञत्वात् शिष्टाचारोप्येमेव

पूर्वदिनेसायंपरत्रप्रातश्चत्रिमुहूर्तानध्यायतिथिसत्त्वेउदयेस्तमयेवापीत्यनेनदिनद्वयेऽनध्यायप्राप्तौवचनान्तरम्

केचिदाहुःक्वचिद्देशेयावत्तद्दिननाडिकाः ।

तावदेवत्वनध्यायोनतन्मिश्रेदिनान्तरे १ इति इदमप्यल्पप्रज्ञविषयम् चतुर्थीसप्तम्यादौप्रदोषनिर्णयउक्तः प्रदोषेषुन

स्मरेन्नचकीर्तयेदित्युक्तेरितरानध्यायतोदोषाधिक्यम् अनध्यायस्तुनाङ्गेषुनेतिहासपुराणयोः ।

नधर्मशास्त्रेष्वन्येषुपर्वण्येताविवर्जयेत् १ नित्येजपेचकाम्येक्रतौपारायणेपिच । नानध्यायोस्तिवेदानांग्रहणेग्राहणेस्मृतः २ ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP