प्रागुपनयनात्कामचारकामवादकामभक्षाः तेन मूत्रपुरीषोत्सर्गादावाचमनाद्याचारोनास्ति
लघुपातकहेतुलशुनपर्युषितोच्छिष्टादिभक्षणेदोषाभावः एवमपेयआनेअनृतावाच्यभाषणेपि
महादोषहेतुमांसान्त्यजरजस्वलादिस्पृष्टान्नभक्षणे मद्यादिपानं चदोषोस्त्येव रजस्वलादिसंस्पर्शे स्नानमेवकुमारके ।
शिशोरभ्युक्षणंप्रोक्तंबालस्याचमनंस्मृतम् । तत्रप्रागन्नप्राशनाच्छिशुसंज्ञा ततऊर्ध्वंप्राक् चौलात् त्रिवर्षाद्वाबालसंज्ञा
तत आमौञ्जीबन्धनात्कुमारसंज्ञा अत्राचमनमितित्रिरुदकपानमेव नतुओष्ठमार्जनादिकल्पइतिज्ञेयम् नचापुपनीतोवेदमुच्चारयेत्
पित्रोरन्त्यक्रियायांत्वनुपनीतेनापिमन्त्रोच्चारःकार्यःसचद्वित्रिवर्षयोः कृतचूडस्यैव त्रिवर्षोर्ध्वत्वकृतचूडस्यापि
एतच्चौरसपुत्रविषयम् पित्रोरनुपनीतोपिविदध्यादौरसः सुतः । और्ध्वदेहिकमन्येतुसंस्कृताःश्राद्धकारकाः १
इतिस्कान्दात बालानामपथ्यंपित्रादिभिर्निवारणयम् तस्मात्सर्वप्रयत्नेनबालानग्रेतुभोजयेत् ।
बालानांक्रीडनदानेस्वर्गसुखम् तेषां भोज्यप्रदानेगोदानफलम् ॥