शतानंद उवाच ॥
वासवे तु गते राजन्वासुदेवोऽवदत्सुरान् ॥
श्रीभगवानुवाच ॥
आकाशराजस्य सुतास्ति या सुरा इच्छामि कर्तुं किल तत्करग्रहम् ॥ अंगीकृतं चेद्भवदीयमंडलैरंगिकरोम्यद्य तु राजकन्यकाम् ॥१॥
वासुदेववचः श्रुत्वा वासुदेवात्मजादिकाः ॥ वाक्यमाहुर्महाराज वासुदेवपरायणाः ॥२॥
ब्रह्मादिदेवा ऊचुः ॥ वयं तु दासभावेन तिष्ठामः पुरुषोत्तम ॥ त्वत्प्रसादाद्वयं सर्वे पश्यामोऽत्र महोत्सवम् ॥३॥
शंकर उवाच ॥
विनोदवचनं कृष्ण भाषसे प्राकृतो यथा ॥ मनसस्ते प्रशस्तं चेत् क्रियतामिति चाब्रवीत् ॥४॥
शंकरस्य वचः श्रुत्वा प्रशशंस हसन्हरिः ॥ ततश्चतुर्मुखः प्राह शेषाचलपति प्रति ॥५॥
ब्रह्मोवाच ॥
सर्वज्ञस्त्वं दयासार सत्यस्कल्पवानसि ॥ अष्टवर्गं ततः कार्यं विवाहात्पूर्वमेव हि ॥६॥
तस्मादाज्ञां देहि मम पुण्याहे पुरुषोत्तम ॥ स पुत्रवचनं श्रुत्वा वसिष्ठं मुनिमानयत् ॥७॥
वसिष्ठं च महाभागं पौरोहित्ये न्ययोजयेत् ॥ स यजुः शाखैर्महामंत्रैः कर्तव्यं स्वस्तिवाचनम् ॥८॥
सर्वैषामपि देवानां यजमानो भवानिति ॥ देवानां च ऋषीणां च मानने शंकरं न्यधात् ॥९॥
देवाव्हाने कुमारं तु प्रत्युत्थाने च मन्मथम् ॥ दत्वा तेषां वीटिकां तु कृष्णवर्त्मानमाव्हयत् ॥१०॥
गृहाण वीटिकां चात्र पाकार्थं हव्यवाहन ॥ ऋषीणां सर्वदेवानां तव पाकस्तु संमतः ॥११॥
तस्मात्पाकं कुरुष्व त्वं स्वधास्वाहासमन्वितः ॥ इति शिष्टो यज्ञमूर्तिस्तथास्त्वित्यब्रवीद्धरिम् ॥१२॥
ततः स प्राह वरुणं जलार्थं सर्वदेहिनाम् ॥ दुष्टानां दंडने राजन् शिष्टानां परिपालने ॥१३॥
यमं संकल्पयामास सुगंधे वायुमादिशत् ॥ धनदाने ब्राह्मणार्थे वस्त्रालंकारदापने ॥१४॥
कुबेरं योजयामास भगवान्नृपसत्तम ॥ प्रदीपधारणे राजन्निशाकरमयोजयत् ॥१५॥
वसून्संदेशयामास भांडानां शुद्धिकारणात् ग्रहांश्च द्रोणपात्रेषु न्ययोजयदरिंदम ॥१६॥
एवं संशासिताः सर्वे पुराणपुरुषेण च ॥ आज्ञामादाय नितरां सर्वे स्वस्थाः स्वकर्मसु ॥१७॥
ततो वाक्यमुवाचेदं ब्रह्मा लोकपितामहः ॥ ब्रह्मोवाच ॥ मज्जनं कुरु गोविंद मंगलं मधुसूदन ॥१८॥
पुण्याहपूर्वकर्माणि स्वेष्टदेव प्रपूजनम् ॥ कुलदेवप्रतिष्ठां च सांगं कुरु रमापते ॥१९॥
स पुत्रवचनं श्रुत्वा सस्मारजगदीश्वरः ॥ रमां राजीवनयना करवीरपुरालयाम् ॥२०॥
नित्यावियोगिनी राजन्नरवन्नरसत्तमः ॥ रुरोद लोकरीत्यैव भगवाँल्लौकिकीतनुः ॥२१॥
न शोभते सभा दिव्या तया विरहिता सुत ॥ भवानहं महाप्राज्ञ देवाश्च सपरिग्रहाः ॥२२॥
न शोभते यथाकाशे तारास्तारापति विना ॥ अपादपं यथारण्यमषक्षाश्च विहंगमाः ॥२३॥
अफलाश्च यथा वृक्षा अधनाः सुह्रदो यथा ॥ तथा वयं महालक्ष्म्या रहिता कमलासन ॥२४॥
वासुदेववचः श्रुत्वा वासुदेवमभाषत ॥ शंकरः पृथिवीषाल समुत्तिष्ठन्महाभुजः ॥२५॥
शंकर उवाच ॥ किमर्थं रोदनं तात किं ते कार्थं बिडंम्बनम् ॥ असंगस्याप्रमेयस्य चाक्रूरवरदस्य च ॥२६॥
अक्लेशस्य देवेश किमर्थं रोदनं वृथा ॥ स च तद्वचनं श्रुत्वा नीलकंठमभाषत ॥२७॥
श्रीभगवानुवाच ॥
त्वं न जानासि भो शंभो बालभावेन पौत्रक ॥ यदा ब्रह्मावसाने च न किंचिदवशिष्यते ॥२८॥
तदा क्षीरोदके शंभो निरालंबे निराश्रये ॥ सा मे शय्यासखी भूत्वा क्रीडते हितकारिणी ॥२९॥
एतादृशी विना शंभो मम सौख्यं कथं भवेत् ॥ वदत्येवं जगन्नाथे वेधा वाक्यमभाषत ॥३०॥
ब्रह्मोवाच ॥
नोक्तं त्वयेदं गोविन्द पूर्वमेव जनार्दन ॥ अद्य मां कमलानाथ रमाव्हाने नियोजय ॥३१॥
सोऽपि पुत्रवचः श्रुत्वा द्युमनिं शीघ्रमाव्हयत् ॥ षण्मुखेन महाराज सोऽपि तत्र समागतः ॥३२॥
ननाम भक्त्या स्तुत्वाथ प्रांजलिः स्मुखस्थितः ॥ भास्करं भक्तिनम्रांगं भगवानाह ह्रद्गतम् ॥३३॥
श्रीभगवानुवाच ॥ सृगालवासुदेवस्य नगरं गच्छ भानुमन् ॥ तत्रास्ते जगतां माता तामानय मम प्रियाम् ॥३४॥
भारती वासुदेवस्य श्रुत्वा पौत्रो दिवाकरः ॥ विनयेन समायुक्तः शिरसाऽऽनम्य चावदत् ॥३५॥
भानुरुवाच ॥
कथं तां लोकजनीयानयिष्ये तवांतिकम् ॥ तन्ममाचक्ष्व गोविन्द कथं मां विश्वसेद्रमा ॥३६॥
श्रीभगवानुवाच ॥
अस्ति तस्यास्त्वयि स्नेहः सदा लोकमहोदये ॥ त्वदागमनसंह्रष्ठा समायाति ममांतिकम् ॥३७॥
उपायं प्रबदिष्यामि तदागमनकर्मणि ॥ अश्रुं मुंचन्नपमृजंस्तद्वारनिकटे स्थितः ॥३८॥
त्वां तु दृष्ट्वा जगन्माता सांत्वयिष्यति भानुमन् ॥ एवं वदति वाक्यं त्वां किंचिदुःखसमाकुला ॥३९॥
शासनं ते ह्रतं केन दह्रण्यां कथ्यतामिति ॥ त्वं समाचक्ष्व तां देवीमित्थमत्यंतदुःखितः ॥४०॥
न शासनं ह्रतं मेऽद्य मातः केनापि भूतले ॥ शयनं तु कृतं तेन तव भर्ताद्य भूतले ॥४१॥
येन वैशासनं दत्तं मातर्मे कृपर्यदृशम् ॥ निश्चेतनोऽद्य पतितो भर्ता जीवति वा न वा ॥४२॥
भर्ता तव जगनाथस्त्वशक्तोऽद्य विभाति मे ॥ कदा द्रक्ष्यामि देवीं तामित्यास्ते प्रलपन्निति ॥४३॥
सा त्वद्वचनमाकर्ण्य समायाति न संशयः ॥ उपायं तु ततः श्रुत्वा किंचिद्धास्यमुखान्वितः ॥४४॥
बभाषे भक्तिनम्रांगो भयभक्तिसमन्वितः ॥ सर्वज्ञा सर्वलोकेषु विश्रुता कमलालया ॥४५॥
जानाति ह्रद्गतं कृष्ण कथं मां विश्वसेद्विभो ॥ अरोगस्य च रोगं हि कथं वक्ष्यामि ते हरे ॥४६॥
स भानोर्वचनं श्रुत्वा भानुमाह मनोगतम् ॥ श्रीभगवानुवाच ॥ मन्मायया मोहिता सा भविष्यति न संशयः ॥४७॥
इत्युक्तः प्रणिपत्याथ वासुदेवरथे स्थितः ॥ करवीरपुरं गत्वा यथोक्तं तत्तथाकरोत् ॥४८॥
सा तद्वचनमाकर्ण्य यथादेशं तदा रमा ॥ रथमारुह्य खेदेन भानुवाक्यादरेण सा ॥४९॥
संप्राप्ता वायुवेगेन रवियुक्ता रमापतिम् ॥तदागमनवार्ता च श्रुत्वा तस्मिन्क्षणे हरिः ॥५०॥
जगाम दर्शनापेक्षी ह्यशक्त इव संमुखम् ॥ तादृशीमाकृतिं प्राप्य तदद्भुतगिवाकरोत् ॥५१॥
देवानां पूर्वदेवानां मुनीनामूध्वरेतसाम् ॥ भुजे भुजंगभूषस्य वामं संस्थाप्य वै भुजम् ॥५२॥
तथा परं ब्रह्मकंठे निधायागाद्भुजं स्वभू ॥ एवं भूतं श्रीनिवासं ददर्श कमलालया ॥५३॥
रथादुत्तीर्य वेगेन किंचिद्धास्यमुस्वांबुजा ॥ चंपकं पुष्पनिचयं विकीर्य पदपंकजे ॥५४॥
समालिंग्यातिभक्त्यैव मुहूर्तद्वयमास्थिता ॥ रमालिंगनमात्रेण पुष्टांगो विष्टरश्रवाः ॥५५॥
कुशलं परिपप्रच्छ तस्याः सापि हरेस्तथा ॥ पितरौ सर्वलोकानां रमानारायणावुभौ ॥५६॥
संप्राप्तौ स्वस्थतां राजन्सर्वदेवनमस्कृतौ ॥ श्रीरमोवाच ॥ मां मोहयति गोविंद तव माया दुरत्यया ॥५७॥
भानुमामंत्र्य गोविंद कर्म चित्र्म त्वया कृतम् ॥ त्वन्मायामोहिताः सर्वे ब्रह्मेशानादयः सुराः ॥५८॥
वदादेशं वासुदेव मसाद्याव्हानकारणम् ॥ स रमावचनं श्रुत्वा साध्वीमाह रमापतिः ॥५९॥
श्रीनिवास उवाच ॥
त्वया रामावतारे तु कथितं स्मर भामिनि ॥ वेदवत्या विवाहस्य संप्राप्तः काल एषवै ॥६०॥
त्वत्सन्निधौ कर्तुकामो विवाहं च कलौ युगे ॥ वदत्येवं ह्रषीकेशे साऽस्मरत्पूर्विका गिरम् ॥६१॥
श्रीरमोवाच ॥
तामंगीकुरु गोविंद विवाहे विधिपूर्वकम् ॥ इति मे वचनं कृष्ण सफलं कुरु वत्सल ॥६२॥
इत्युक्त्वा श्रीनिवासं सा ननाम च मुदान्विता ॥ हरिस्तु लोकजननीमानंदयदुदारधीः ॥६३॥
स रमागिरमाकर्ण्य परिपूर्णमनोरथः ॥ परमानंदसंपूर्ण उरगाद्रौ व्यराजत ॥६४॥
संतोषसंसूचकसर्वगात्र आनंदबाष्पेण समृद्धनेत्रः ॥ ब्रह्मेशशक्रस्तुतसच्चरित्रस्तदा बभौ वेंकटशैलमित्रः ॥६५॥
इति श्रीभविष्योत्तरपुराणे श्रीवेंकटाचलमहात्म्ये श्रीनिवासस्य लक्ष्मीसमागमयोगो नाम एकादशोऽध्यायः ॥११॥
श्रीवेंकटेशार्पणमस्तु ॥