॥ शतानंद उवाच ॥
सर्वाभ्युदयकामोऽथ भूतानां हितकाम्यया ॥ तदा वै भगवान्ब्रह्मा दीपद्वयमकल्पयत् ॥१॥
पार्थयामास गोविंदं वरमेकमनामयम् ॥ यावत्कलियुगं तिष्ठेत्तावद्दीपोभिवर्धताम् ॥२॥
यदा विमानपतनं यदा दीपाविनाशनम् ॥ तदावतार संपूर्ण इति मे निश्र्चितो विधि ॥३॥
इति तस्मै वरं दत्वा ब्रह्माणमवदद्धरि ॥
श्रीनिवास उवाच ॥
श्रूयतां वचनं तात भुजमुधृत्य चोच्यते ॥४॥
उत्सवं कुरु मे पुण्यं ब्रह्मँल्लोकपितामह ॥ ध्वजारोहणमारभ्य रथांतं च सवाहनम् ॥५॥
नैवेद्यं बहुचित्रं च ब्राह्मणैर्वेदपारगै ॥ कर्त्तव्यं मम कल्याणं त्रिकाले भयभक्तित ॥६॥
तदेतद्वचनं श्रुत्वा पितु स च पितामह ॥ तोंडमानं समाहूय वचनं व्याहरत्तदा ॥७॥
ब्रह्मोवाच ॥ वाहनानि विचित्राणि कुरु शीघ्रं रमापते ॥ रथो दारुमयस्तात बहुचित्रविचित्रित ॥८॥
अंतद्रेण महीपाल कर्तव्यो विश्र्वकर्मणा ॥ छत्राणि चामरे पुण्ये व्यजनं राजसत्तम ॥९॥
इत्युत्त्क्वा विश्र्वकर्माणमाहूय नृपतेर्वशम् ॥ विधाता विदधे सोपि यथा राजानुशासनम् ॥१०॥
वाहनानि रथछत्रचामरव्यजनानि च ॥ कृतवान्क्षणमात्रेण प्रीतये मधुघातिन ॥११॥
उवाच वचनं देवो राजानं सपितामहम् ॥ सर्वदेशजनाकीर्णमुत्सवं चोत्तमं विदु ॥१२॥
आनयस्व नृपान्सर्वान्नानादेशगतानिति ॥ शासितो वासुदेवेन भृत्यान्स प्रेषयन्नृप ॥१३॥
अंगवंगकलिंगाद्या पौगंडा काशिकास्तत ॥ कांबोजा केलरद्वीपा विराटकुरुजांगला ॥१४॥
बर्बरा पांड्यदेशीयाश्र्चैद्या मत्स्या ससैंधवा ॥ आगतास्ते महीपाला सकुटुंबा सवाहना ॥१५॥
केचिद्यानगता केचिद्रजस्था केचिदश्र्वगा ॥ केचिच्च शिबिकारूढा केचित्पद्भ्य़ां समाययु ॥१६॥
छत्रै सचामरैर्दिव्यैर्मयूरशुकपिच्छकै ॥ आराधनं प्रकुर्वाणां विप्राणां चैव भोजनै ॥१७॥
ब्रह्मक्षत्रियविट्शूद्रा ये चान्ये नवजातिजा ॥ चंडालयवनांस्त्यक्वा सर्व एव समागता ॥१८॥
समागमे मार्गमध्ये संकीर्णजनमंडले ॥ अश्रंत केचिदायांति केविदन्नविवर्जिता ॥१९॥
केचित्क्षीरप्रपानाश्र्त्र केचिद्धारणपारणै ॥ सर्वेऽभवन्हरेर्भक्ता श्रीनिवासस्य भूमिप ॥२०॥
धनानि वस्त्राणि च भूषणानि कायान्सजीवानि सुखानि सर्वे ॥
श्रीवेंकटेशस्य पदार्पितानि चक्रुर्जना भागवता कलौ युगे ॥२१॥
तत्राहूय मुनीन्सर्वान्महीपालान्यथाक्रमम् ॥ कन्यामासं गते भानौद्वितीयायां जगत्पते ॥२२॥
ध्वजारोहणमाधाय सांकुरार्पणमेव च ॥ वैखानसमुनिश्रेष्ठै पूजा मंत्रै प्रकल्पिता ॥२३॥
नरयानं रत्नमयं निधाय पुरतो हरे ॥ वासुदेवं बभाषेऽथ ब्रह्मा लोकपितामह ॥२४॥
नरयानं समारुह्य कुरु चैत्यप्रदक्षिणम् ॥ एवमुक्त प्रत्युवाच श्रीनिवास पितामहम् ॥२५॥
श्रीनिवास उवाच ॥
भोपुत्र बालभावेऽसि शासितो वेदनिर्णय ॥ स चाद्य विस्मृतस्तात परीक्षा दीयतां मम ॥२६॥
स तद्वचनमाकर्ण्य किंचिच्चिन्तासमाकुल ॥ परीक्षां च ददौ विष्णोर्वेदानां वेदवित्तम ॥२७॥
स्खालित्यमभवत्किंचित्परीक्षायां विधेस्तदा ॥ ततोऽवबोधित सम्यग्वेधा वेदानुशासनम् ॥२८॥
निर्भमे क्षणमात्रेण श्रीनिवासात्मिका शुभा ॥ मूर्तीश्र्चतस्रो मंत्रैस्तु चतुर्वेदसमुद्भवे ॥२९॥
पृथङ्नामानि तासां वै चकार स महामति ॥ उत्सव श्रीनिवासाख्या तथा चैवोग्रनामिका ॥३०॥
सर्वाधिकसमाख्यान्या लेखकाख्या तदा परा ॥ मूलमूर्तिरभूत्तासां मूर्तिनां चतुरात्मनाम् ॥३१॥
स्वयं श्रीवेंकटाधीश सर्वात्मा जगदीश्र्वर ॥ देवानां कल्पयामास तत्तन्मूर्त्यभिमानिनाम् ॥३२॥
असंकीर्णानि कार्याणि तानि तानि विधिस्तत ॥ पंचानामपि देवानां तत्तन्मूर्त्यभिमानिनाम् ॥३३॥
चतुर्मुखेषु चतुरो मनस्येकं विधिस्तदा ॥ अनुसंधत्तदा तेन सर्वं कर्म महोत्सवे ॥३४॥
उत्सवे श्रीनिवासस्य यात्राकर्मणि दीक्षित ॥ तेन निर्वर्तयामास यात्राकर्मोत्सवं विधि ॥३५॥
नैवेद्यं बहुधा चित्रं चक्रे ब्रह्मोत्सवे शुभे ॥ गुडौदनं तिलान्नंच परमान्नं पय शृतम् ॥३६॥
मुद्रान्नं माषकान्नं च दध्योदनमत परम् ॥ षड्विधान्नं च सापूपं सपायससशर्करम् ॥३७॥
गुडापुपांस्तिलापूपान्माषापूपान्मनोहरान् ॥ मोदकांश्र्च शतच्छिप्रमुखान्कारयन्विधि ॥३८॥
अर्पयामास देवाय श्रीनिवासाय विष्णवे ॥ उत्सव श्रीनिवासस्य विधियात्रां मोहोत्सवे ॥३९॥
कारयामास वै वेधा ध्वजारोहणपूर्वकम् ॥ सायंकाले च पूर्वेद्युर्ध्वजारोहरणवासरात् ॥४०॥
अनंतगरुडाद्याश्र्च ब्रह्माद्याश्र्च तथामरा ॥ सर्वे चान्ये महर्ष्याद्या विष्वक्सेनपुरसरा ॥४१॥
वल्मीकादिभवां मृत्सनां पवित्रां नगराद्बहि ॥ खनितां विधिवन्मंत्रैर्हस्तिमस्तकरोपिताम् ॥४२॥
सर्वमंगलवाद्यैश्र्च सह सर्वपरिच्छदै ॥ ससंभ्रमं समानीय प्रादक्षिण्येन वीथिषु ॥४३॥
अंकुरार्पणमातेनु सहर्षपुलकांकुरा ॥ ततोऽपरेद्युरुषसि ध्वजारोहमहोत्सवम् ॥४४॥
अरभ्यावभृथांतं च पुष्पयागांतमेव च ॥ उत्सवं श्रीनिवासस्य चकार विधिवद्विधि ॥४५॥
तस्मिन्महोत्सवे विष्णोर्ध्वजारोहणवासरे ॥ प्रथमे प्रथमं यानं मनुष्यांदोलिकाभवम् ॥४६॥
द्वितीयं च तथा रात्रावभवच्छेषवाहनम् ॥ शेषे शयनशीलस्य शेषाचलनिवासिन ॥४७॥
सदा शेषप्रियस्यास्य श्रीनिवासस्य शाङिण ॥ द्वितीयादिवसे चाद्यं भूयोऽभूच्छेवाहनम् ॥४८॥
द्वितीयं च तथा रात्रावभवद्धंसवाहनम् ॥ तृतीये दिवसे चाद्यमभत्सिंहवाहनम् ॥४९॥
द्वितीयं च तथा रात्रौ मौक्तिकमंडपम् ॥ चतुर्थदिवसे यानमादिमं कल्पभूरुह ॥५०॥
द्वितीयमभवद्रात्रौ सर्वभूपालवाहनम् ॥ पंचमे दिवसे चाद्यं यानमांदोलिकाभवम् ॥५१॥
हरेरमृतसंदायि मोहिनीवेषधारिण ॥ द्वितीयं रजनौ यानं वेदवेद्यस्य वै हरे ॥५२॥
बभूवच स्वयं साक्षाच्छंदोमूर्ति खगेश्र्वर ॥ आद्यं यानं षष्ठदिने हनुमानभवद्धरे ॥५३॥
द्वितीयं मंगलगिरि सायंयानमभूद्धरे ॥ महिषीसंयुतस्यास्य वसंतोत्सवरागिण ॥५४॥
तृतीयं रजनौ यानमासीदैरावतो गज ॥ सप्तमेऽभूद्दिने यानमाद्यं भास्करमंडलम् ॥५५॥
द्वितीयं मंगलगिरि सायमासीद्रमापते ॥ रमणीयतमोद्यानविहारोत्सवरागिण ॥५६॥
कुसुमापचयव्यग्रमहिषीजनशालिन ॥ तृतीयं रजनौ यानमभवच्चंद्रमंडलम् ॥५७॥
अष्टमे दिवसे चाद्यमभवद्वाहनं हरे ॥ नानाविधैरलंकारैर्मंडित सुमहान्रथ ॥५८॥
द्वितीयं रजनौ यानमभूदूच्चैश्रवा हय ॥ नवमे दिवसे चाद्यं यानमांदोलिकाभवत् ॥५९॥
द्वितीयं मंगलगिरिर्यानमासीद्रमापते ॥ हारिद्रे पिंगलैश्र्चूर्णेरभिषिक्तस्य मंगलै ॥६०॥
समुद्युक्तस्यावभृथस्नानं मंगलिकोत्सवे ॥ स इत्थं मंगलैश्र्चूर्णै र्हारिर्देरभिषेचित ॥६१॥
सुंदरं मंगलगिरीं समारुह्य सतां गति ॥ चैत्यं प्रदक्षिणीकृत्य सह सर्वैर्महाजनै ॥६२॥
जपद्भिर्वैदिकान्मंत्रान्सहितश्र्च द्विजोत्तमै ॥ चकारावभृथस्नानं भगवानादिपूरुष ॥६३॥
स्वामिपुष्करिणीतीर्थे सर्वलोकैकपावने ॥ अवतारदिने तस्मिन्नक्षत्रे श्रवणे प्रगे ॥६४॥
तृतीयं मंगलगिरिर्यानं रात्रावभूत्तत ॥ ध्वजावरोहणाभिख्य उत्सवोऽभूत्तदा हरे ॥६५॥
ततोऽपरेद्युरभवत्पुष्पयागमहोत्सव ॥ देशांतरादागतानां सपर्यासीत्ततो नृणाम् ॥६६॥
देवा जग्मुस्वकं धाम राजानो राजसत्तम ॥ जग्मु स्वनगरं दिव्यं दृष्ट्वा देवमहोत्सवम् ॥६७॥
ब्रह्माजगाम स्वं लोकं नत्वा वेंकटवल्लभम् ॥ समाप्य चोत्सवं सर्वं स राजा तोंडमान्नृप ॥६८॥
वासुदेवं नमस्कृत्य चाज्ञामादाय मौलिना ॥ स्वपुरं प्राप्य धर्मात्मा कृत्वार्चा वेंकटेशितु ॥६९॥
संस्थाप्य पूजयामास स्वपुरे बिजमंदिरे ॥ राज्यं चकार धर्मात्मा सत्येन पृथिवीपति ॥७०॥
गोब्राह्मणहितार्थाय चातिथीनां हिताय च ॥ सद्धर्मनिरत शांतो जितमन्युज्रितेंद्रिय ॥७१॥
नित्यमाराधयन्कृष्णं बिलमार्गेण चागत ॥ इत्थं कुर्वति राजेंद्रे राजराजकुलोद्भवे ॥७२॥
कार्तिके मासि संप्राप्ते दैवयोगेन भूपते ॥ समाययौ द्विजश्रेष्ठ कूर्मो वासिष्ठगोत्रज ॥७३॥
पितृरस्थिसमागृह्य गंगास्नानसमुत्सुक ॥ अकस्माद्राजनगरं वित्तक्षत्रियसंकुलम् ॥७४॥
समंतत समाकर्ण्य तोंडमान्कीर्तिसंभ्रमम् ॥ राघवाख्यसुतेनैव महालक्ष्म्याख्यभार्यया ॥७५॥
पुराद्बहिर्विनिक्षिप्य भार्यां पुत्रं च स द्विज ॥ समासदद्राजगृहं राजदर्शनलालस ॥७६॥
सिंहासनगतं कांतं विद्वन्मंडलमंडितम् ॥ तमाशीर्भिर्विशेषेण संस्तुत्य पृथिवीपतिम् ॥७७॥
राजानमब्रवीद्विप्र कूर्मो वेदांतपारग ॥ कूर्म उवाच ॥ श्रुता बहुमुखात्कीर्तिस्तव भूप विशांपते ॥७८॥
तच्छ्रृत्वाद्य समीपं ते संप्राप्तोऽहं नृपोत्तम ॥ इति विप्रवच श्रुत्वा पुजयामास स द्विजम् ॥७९॥
तोंडमान उवाच ॥
किमागमनकार्य ते तन्ममाचक्ष्व भो द्विज ॥ इत्थमुक्तोऽब्रवीद्राजन्कूर्मो वेदविदां वर ॥८०॥
कूर्म उवाच ॥ मत्पिता प्रेततां प्राप्त कालेन पृथिवीपते ॥ तस्यास्थिनिचयं नीत्वा गंगामज्जनहेतवे ॥८१॥
काशीं गच्छामि राजेंद्र मनसा कृतनिश्र्चय ॥ दैवाच्चगर्भिणी जाता मम भार्या पतिव्रता ॥८२॥
पंचवर्षश्र्च मे पुत्रो न शक्तो गंतुमात्मना ॥ तस्मात्त्वया महाराज रक्षणीयौ च तावुभौ ॥८३॥
अशक्तोऽहं तया गंतुं गर्भिण्या तु द्विजप्रिय ॥ स्त्रीणां पत्युर्गुहे वासो नियतश्र्चोदितोन्यथा ॥८४॥
पित्रो समीपे वासस्तु तदभावे स्वसुर्गुहे ॥ अथवा मातुलगृहे त्वथवा राजमंदिरे ॥८५॥
षडेते पितर स्त्रीणामिति जानामि तत्स्थितिम् ॥ तस्मात्त्वं रक्ष राजेंद्र सुतं भार्यां च गर्भिणीम् ॥८६॥
इत्येवमुक्तो विप्रेण कूर्मसंज्ञेन तोंडमान् ॥ बाढमित्युक्तवान्राजंस्तस्य दत्वा धनं बहु ॥८७॥
तत्र संस्थाप्य तौ विप्रो बाष्पसंदिग्धलोचन ॥ अब्रवीत्स सुतं पत्नीं बाष्पपर्याकुलेक्षणाम् ॥८८॥
गच्छाम्यहं वरारोहे गंगाभगीरथीं प्रिये ॥ मा रुदस्त्वं वरारोहे पश्य पुत्रं भयाकुलम् ॥८९॥
इत्येवमुक्ता सा विप्रपत्नी भर्तारमब्रवीत् ॥ निजनाथस्य वदनं पश्यंती दुखभागिनी ॥९०॥
शीघ्रमागच्छ भो स्वामिन्कृत्वा गंगावगाहनम् ॥ पुत्रोऽपि ते महाप्राज्ञस्त्वामेवमनुमन्यते ॥९१॥
इत्थं वदंतीं स्वं भार्यां पश्यन्नालिंग्य चात्मजम् ॥ जगाम विप्रो राजेंद्र पश्यन्वै पृष्ठत पुन ॥९२॥
सा जगाम गृहं राज्ञ पश्यंती पतिमात्मन ॥ परिमृज्याक्षिजं तोयं सांत्वयित्वा सुतं तथा ॥९३॥
राजपत्नीं समासाद्य पुत्रेण सह संस्थिता ॥ गते विप्रे स राजर्षिस्तस्य भार्या च सुंदरीम् ॥९४॥
दृष्ट्वा चिंताकुलो भूत्वा मनसीत्थमाचिंतयत् ॥ त्रिविधा पुरुषा प्रोक्ता धियस्तेषां पृथग्विधा ॥९५॥
तस्मान्मयातियत्नेन स्थापनीया द्विजप्रिया ॥ इति संचिंत्य धर्मात्मा तोंडमान्राजसत्तम ॥९६॥
एकांते भवनं कृत्वा स्थापयामास तत्र ताम् ॥ अन्नं षण्मासपर्याप्तं सकृत्सोपस्करं ददौ ॥९७॥
तंडुलाद्यैश्र्व काष्टांतैरग्नितोयादिकं तथा ॥ तद्रृहं शृंखलैर्बध्वा स राजा तोंडमान्नृप ॥९८॥
दूतान्विधाय वै दूरे चार्धक्रोशायते निजे ॥ गृह एव क्वचित्कोणे निगूढां तां तदा न्यधात् ॥९९॥
धूर्तानांतु यथा सेयं न गच्छेद्रोचरं दृश्याम् ॥ ततो राज्ये समासक्तो राजा कार्यवशं गत ॥१००॥
राज्यभारेण राजेंद्र व्यस्मरद्ब्राह्मणप्रियाम् ॥ द्विवत्सरांते विप्रेंद्र कृत्वा गंगावगाहनम् ॥१०१॥
गयां गत्वा गयाश्राद्धं कृत्वा निजपितुस्तथा ॥ गंगाया विवधं चोढ्वा स्कंधदेशो द्विजोत्तम ॥२॥
तोंडमानपुरे प्राप्य प्रविवेश नृपालयम् ॥ राजानमब्रवीद्राजन्नाशीर्भिमिनंद्य च ॥३॥
दीघायुर्भव राजेंद्र पुत्रवान्ज्ञानवान्भव ॥ त्वत्प्रसादेन राजेंद्र कृतं गंगावगाहनम् ॥४॥
गंगावगाहनं राजन्कुरु तत्सलिलै शुभै ॥ एवमुक्त स राजर्षिर्विस्मृतां ब्राह्मणीं स्मरन् ॥५॥
स्तब्धो बभूव चाकस्माद्दंडाहत इवोरग ॥ पद्मव्यूहे षड्रथिकैर्द्रोणकर्णपुरोगमै ॥६॥
निरुंधानं सैंधवेन बालमर्जुननंदनम् ॥ निहतं पश्यतां राजन्पांडवानां महात्मनाम् ॥७॥
वासुदेवमुखाच्छ्रुत्वा चार्जुनस्य मनो यथा ॥ रामबाणेन विद्धस्य रावणस्य मनो यथा ॥८॥
तथैव तोंडमानस्य हृदयं पर्यकंपत ॥ धैर्येण मनस स्वास्थ्यं प्राप्तवान्स प्रजापति ॥९॥
तदाह भारतीं विप्र किंचिद्दुखसमन्वित ॥ राजानं राजशार्दूलं पप्रच्छ कुशलं तदा ॥१०॥
भार्यां मे गर्भिणी पूर्वं प्रसुता किं सुतं सुताम् ॥ न श्रूयते तयोर्वार्ता मम चित्तप्रतोषिणी ॥११॥
पुत्रो मे निर्गुणो राजन्सर्वदा क्रीडने रत ॥ तटाके पुष्करिण्यां वा कूपे वा विपुलांभसि ॥१२॥
तस्मान्मे मनसो दुखं सदा भावि विशांपते ॥ भार्या मे राजशार्दूल मम दर्शनकारणात् ॥१३॥
न चांगता वरारोहा कुतो मे भ्रमते मन ॥ सुतं भार्यां चिंतयामि दिवा नक्तं च गर्भिणीम् ॥१४॥
तस्यालापमिति श्रुत्वा राजा धैर्येण भारतीम् ॥ व्याहरत्तोंडमानोऽपि यथा धीरो ह्यवर्तत ॥१५॥
तोडमान उवाच ॥
भो भूसुरकुलोत्पन्न माभैषी पुत्रकारणात् क्षेमप्रसूता ते भार्या पुत्र्या पुत्रेण तिष्ठति ॥१६॥
बहवो योषितो विप्र मया दृष्टा इत पुरा ॥ न सुतो न च ते भार्या मम दृष्टिपथं गता ॥१७॥
अथ तद्वृत्तमखिलं श्रूयतां भुरुरोत्तम ॥ पूर्वदेवगुरोर्वार संप्राप्तस्तु गतेदिने ॥१८॥
तद्दिने वेंकटेशस्य प्रसक्तमभिषेनचम् ॥ तद्दर्शनार्थं मे कन्या ॥ सर्वा जग्मुर्महीसुर ॥१९॥
ताभि समेता ते भार्या पुत्रीपुत्रसमन्विता ॥ जगाम वेंकटं शैलं देवदर्शनकारणात् ॥२०॥
अद्य श्र्वो वा परश्र्वो वा सागमिष्यति तेंऽतिकम् ॥ इति तं सांत्वयित्वा स गूढं पुत्रमभाषत ॥२१॥
गच्छाद्य पुत्र भवनं विप्रपत्न्यास्तु शोभनम् ॥ छिंधिशृंखलमव्यग्र प्रविश्यांतर्गृहं पुन ॥२२॥
तां दृष्ट्वा पुत्रसहितां शीघ्रमानय भृसुरीम् ॥ स च गत्वातिवेगेन कृतवान् जनकेरितम् ॥२३॥
ददर्श तत्रास्थिमात्रं रुदन्गद्रदकंठवान् ॥ ध्रुवं नोवंशनालं तु छिन्नमूलं भविष्यति ॥२४॥
इति संचिंतयन्नेत्य पितरं वाक्यमब्रवीत् ॥ भोस्तात राजवंशस्य नाशकाल समागत ॥२५॥
यत सा ब्राह्मणी पूर्णगर्भा सहसुता मृता ॥ अस्थिभूता निजे गेहे तदन्नाद्यविचारणात् ॥२६॥
इत्युक्तो विप्रवर्याय पाकार्थं तंडुलादिकम् ॥ ददौ धैर्येण राजेंद्र स जगाम बिलांतिकम् ॥२७॥
तस्मिन्गते विप्रमुख्ये राजा शेषाचलं ययौ ॥ पुत्रेण सहितो राजा शरणार्थं रमापते ॥२८॥
पादद्वयं प्रपन्नस्तु रुदन्नासीन्महीपति ॥ रुदंतं च नृपं दृष्ट्वा श्रीनिवासस्तदाब्रवीत् ॥२९॥
श्रीभगवानुवाच ॥
अकाले च किमर्थं त्वमागतो नृपसत्तम ॥ राजराज किमर्थं ते रोदनं जायतेऽधुना ॥३०॥
धीरत्वं च धनुष्मत्त्वं प्रततं तव ॥ अद्य किं कारणं तात रोदने वद तन्मम ॥३१॥
इत्युक्त श्रीनिवासेन नाब्रवीत्स च किंचन ॥ विदित्वा हृदयं तस्य जगाद वचनं तत ॥३२॥
श्रीभगवानुवाच ॥
विदितं हृदयं राजन्नातुरस्य तवाधुना ॥ त्वया कृतामिदं पापं मयैवाचरितं नृप ॥३३॥
निवर्तस्व च पापात्मन्किं करोमि नृपात्मज ॥ अकार्य कर्म भूपाल त्वया कृतमरिंदम ॥३४॥
अहं पापो दुराचारो नित्यदुखसमन्वित ॥ काले कालमेष्यामि क्रूरं वा नरकं नृप ॥३५॥
आदातव्यं हि दौर्भाग्यं स्वभक्तस्य दुरात्मन ॥ दरिद्रत्वं तथा भक्तस्यैवं धर्माविदोविदु ॥३६॥
मयि ते भक्तिभावे च लोपे नैव त्वया कृत ॥ किं करोमि क्व गच्छामि क्रूरं पापं त्वया कृतम् ॥३७॥
तथापि तव सौहार्दात्करिष्ये जीवितान्मृतान् ॥ कलौ वेंकटनाथेन नृपस्यास्य विमोक्षणम् ॥३८॥
कृतं महापातकिन इति कीर्तिर्भाविष्यति ॥ पुत्रं प्रेषय भूपाल शापभीरुमरिंदम ॥३९॥
तेषां मृतानामानेतुं सर्वाण्यस्थीनि संप्रति ॥ इति श्रीवेंकटपतेर्वाक्य श्रुत्वा स चातुर ॥४०॥
प्रेषयामास पुत्रं तान्यस्थीन्यानेतुमात्मन ॥ स जगामातिवेगेन मृतांना भवनं नृप ॥४१॥
बद्धा तदस्थिनिचयं वस्त्रेणाच्छाद्य भूपते ॥ नरयाने विनिक्षिप्य चाच्छाद्य नृपनंदन ॥४२॥
तदा शेषगिरिं प्राप्य पितरं वाक्यमब्रवीत् ॥ तदस्थि मंडलं तात संप्राप्तं विद्धि भूपते ॥४३॥
श्रीनिवासाय शांताय तदानीतं वदाधुना ॥ स पुत्रवचनं श्रुत्वा श्रीनिवासमभाषत ॥४४॥
राजोवाच ॥
समानीत पुत्रकेण मृतास्थिनिचयो हरे ॥ यथा ते जीवितं कृष्ण प्रप्नुवंति तथा कुरु ॥४५॥
एवमुक्त श्रीनिवासस्तदस्थिनिचयं नृप ॥ कराभ्यां प्रतिगृह्याथ स्वोत्तरीये बबंध ह ॥४६॥
स्वामिपुष्करिणी यत्र तस्य पूर्वदिशि स्थितम् ॥ पाण्डुतीर्थं समासाद्य तस्य तीरमुपागत ॥४७॥
तत्र किंचिद्देवखातमासाद्य मधुसूदन ॥ तोंडमानं च तत्पुत्रं त्यक्त्वा तीर्थमुपागत ॥४८॥
आकंठजलमध्ये च निममज्ज जनार्दन ॥ अस्थीनि तत्र निक्षिप्य शिलायां तीर्थसन्निधौ ॥४९॥
प्रक्षाल्य विष्णु पस्पर्श स्वांजलिक्षिप्तवारिणा ॥ जीवनं सन्निपतितं तदास्थिनिचये तदा ॥५०॥
इति ते जीविता विष्णो पाणिस्पर्शप्रभावत ॥ ववृषु पुष्पवर्षाणि तत्तीर्थे वासवादय ॥५१॥
विस्मेरचित्ता सर्वेऽपि दृष्टतत्तीर्थवैभवा ॥ यदा तीर्थप्रभावेण जीविता मृतकाश्र्च ते ॥५२॥
तदा सर्वे सुरा राजन्ब्रह्मरुद्रेंद्रपूर्वका ॥ अस्थितीर्थमिति ख्यातं तस्य नाम दुदुर्मुदा ॥५३॥
येषामत्रास्थि निपतेन्नरके वसतामपि ॥ ते सर्वे स्वर्गमृच्छंतु सद्य इत्यपि तेऽवदन ॥५४॥
उज्जीवयन्त्सोथ मृतां सपुत्रां तां कूर्मभार्यां निजगर्भवासिताम् ॥
ददौ नृपायातिविमूढचेतसे दत्वाथ तं पार्थिवमाबभाषे ॥५५॥
श्रीभगवानुवाच ॥
कृतोपकारस्य कृता ह्युपक्रिया शताधिका ते नृपते मयाधुना ॥
तवाग्रजस्याप्ततया कृता मया ह्युपक्रियेयं धरणीपते तव ॥५६॥
इतपरं मौनमहं प्रपद्ये नात्यंतमेकांतिजनात्परेण ॥ केनापि कुर्वे सह वाग्विलासं साक्षात्कलावन्यमुखाद्धि भाषे ॥५७॥
गच्छ त्वदीयं पुरमद्य राजन्तस्मै द्विजायाखिललोकसाक्षिणीम् ॥
भार्यां सपुत्रामाति भक्तियुक्तां प्रदाय राज्यं त्वमकंटकं कुरु ॥५८॥
इत्युक्तो वासुदेवेन तत्पत्नीसहितो नृप ॥ गत्वा च नगरं पुत्रसहित कूर्ममब्रवीत् ॥५९॥
भूदेव तव भार्येयं सुपुत्री पुत्रसंयुता ॥ संप्राप्ता दैवयोगेन तां गृण्हीष्व द्विजोत्तम ॥६०॥
इत्युक्त्वा ससुतां पत्नीं स विप्राय न्यवेदयत् ॥ वृत्तांतमखिलं ज्ञात्वा पत्न्या राजमुखाद्द्विज ॥६१॥
राज्ञ समक्षं पप्रच्छ पत्नीं शिशुसुतान्विताम् ॥ क्वागतासि महाभद्रे यथावत्कथ्यतामिति ॥६२॥
महालक्ष्मीरुवाच ॥
किं वदिष्यामि हे स्वामिन्देवमायां दुरत्ययाम् ॥ तस्योदरे मया दृष्टो विचित्रो लोकविस्तर ॥६३॥
लोकालोकौ मया दृष्टौ दृष्टा ब्रह्ममुखा सुरा ॥ सात्विका राजसाश्र्चैव तमप्रकृतयस्तथा ॥६४॥
राघव उवाच ॥ ताताद्भुतं मया दृष्टं त्रिनेत्राणां गणस्तथा ॥
शिशुरुवाच ॥
सागरा सप्त मे तात दृष्टिमार्गमुपागता ॥६५॥
गृहागिर्यटवीवृक्षा देवदानवराक्षसा ॥ इत्युक्तो लज्जितोऽवादीत्पत्नीसुतशिशुन्द्विज ॥
धिङ्मे जन्म तपो घोरं धिग्वेदाध्ययनं तथा ॥६६॥
नारायणस्याखिललो कधाम्रां निवासभूतस्य चराचराणाम् ॥ दृष्टं भवद्भिर्जठरे विचित्रं भूगोलमुख्याखिललोकजालम् ॥६७॥
त्रिनेत्रमुख्यै सह चीर्णपूर्णपूण्यैरपीदं मनुजैर्न लभ्यम् ॥६८॥
इत्येवं संस्तुवन्स्वीयान्पत्नीसुतशिशून्द्विज ॥ राजानं चापि संस्तुत्य देशं गंतुं प्रचक्रमे ॥६९॥
राजोवाच ॥
अहो भाग्यमहो भाग्यं त्वत्पत्नीसुतयो शिशो ॥ यत्दृष्टं श्रीनिवासस्य जठरे सर्वमद्भतम् ॥७०॥
इत्युक्तो नृपवर्येण सहभार्य सुतान्वित ॥ जगाम विप्रमुख्योऽसौ रंगक्षेत्रं स्वमाश्रमम् ॥७१॥
श्रीनिवासप्रसादेन तोंडमान्भक्तिसंभ्रमात् ॥ सविप्र सहित पुत्रभार्याभ्यां भवनं ययौ ॥७२॥
विसृज्य विप्रं भूपालं सहकुटुंबं सपुत्रकम् ॥ दध्यौ चित्रं हरे कर्मनिग्रहं तस्य चात्मनि ॥७३॥
व्यचिंतयद्वेंकटनाथवैभवं तीर्थानुभावं द्विजदेवभक्ता ॥ करोमि किं वेंकटनाथतुष्टये दास्यामि किं तस्य हरे प्रसत्तये ॥७४॥
इति चिंतापरो भूत्वा विप्रान्वेदविदोऽब्रवीत् ॥७५॥
तोंडमान उवाच ॥
भूदेव देवतुष्ट्यर्थे क उपायो ह्यनामय ॥ कथं तुष्यति गोविंदो वद मे गुरुसत्तम ॥७६॥
राज्ञस्तु वचनं श्रुत्वा नृपमांगिरसो गुरु ॥ अब्रच्छ्रीनिवासस्य निग्रहाद्भीततमातुरम् ॥७७॥
गुरुरुवाच ॥
तदनुग्रहसिद्ध्य़र्थं तत्पूजां कुरु भो नृप ॥ सहस्रनामभिर्दिव्यै सहस्रैतस्तुलसीदलै ॥७८॥
तत्प्रीतिहेतुस्तुलसी तस्मात्वं पूजयाच्युतम् ॥ तेनापरोक्षमायाति तव वेंकटवल्लभ ॥७९॥
ततस्तद्वचनं श्रुत्वा तच्चकार तथा नृप ॥ तुलसीदलसाहस्रं स्वर्णत्नविनिर्मितम् ॥८०॥
वेंकटेशात्मकैर्नामसहस्रस्तैत्पदेऽर्पयन् ॥ क्रमेण मासत्रितयं पूजां तस्य च कार स ॥८१॥
एवं पूजां कृतवति भूपाले भूरिविक्रमे ॥ त्यक्तवान्न च वैमुख्यं नारायणगिरिश्र्वर ॥८२॥
तदा स राजा दुखेन सर्वज्ञ वाक्यमब्रवीत् ॥
तोंडमान उवाच ॥
भक्तानामपराधान्न गणयंति गुणाधिका ॥८३॥
क्षमस्व मम दौरात्म्यं भक्तस्य पुरुषोत्तम ॥ वरदाने वासुदेव भवान्छ्रेष्ठतमो मत ॥८४॥
दयां कुरु दयासिंधो भक्तोपरि भयापह ॥ इत्युक्तस्तोंडमानेन भगवान्वेंकटेश्र्वर ॥८५॥
तदाह भारतीं राजन्नाकाशपथमाश्रित ॥ भक्ताश्र्च बहव संति नास्तित्वत्सदृशो भुवि ॥८६॥
कर्म सुघोरं तु ब्रह्मस्त्रीपुत्रघातकम् ॥ प्रपित्स्यसि कथं पारं दुखाद्राजकुमारक ॥८७॥
तवाग्रजोपकारेण जीवितं तु मया कृतं ॥ एवमाकाशगां वाणीं श्रुतवान् राजसत्तम ॥८८॥
तदाह देवदेवेशं राजा मोहवशंगत ॥
राजोवाच ॥
कृतोपकारा पुरुषा न वदंति कृतं हरे ॥ को वदेद्धि कृतां सेवां मूढोऽपि गुण वर्जित॥
मां विना न हि ते भक्तस्रिषु लोकेषु विद्यते ॥८९॥
को वा पुराणपुरुष त्वय्येकांतरत सदा ॥ भक्तानामग्रणीश्र्चाहं दयालूनां त्वमग्रणी ॥९०॥
एवं गर्वोक्तिमाकर्ण्यं तृष्णीमासीद्रमापति ॥ ततो भूयोऽतिभक्तयायं पूजयामास माधवम् ॥९१॥
सौवर्णरत्नखचिततुलसीकुसुमव्रजै ॥ इत कदाचिदद्राक्षीत्तोंडमान्नृपसत्तम ॥९२॥
सौवर्णरत्नखचिततुल सीकुसुमोपरि ॥ संस्थितां मृन्मयीं श्यामां तुलसीकुसुमावलिम् ॥९३॥
तत कदाचिन्नृपतिर्निरस्तां च सुदूरहत ॥ सौवर्णरत्नखचिततुलसीकुसुमावलिम् ॥९४॥
ददर्श मृन्मयीं चैव सुलग्नां हरिपादयो ॥ श्यामां सुरुचिरामार्द्रां तुलसीकुसुमावलिम् ॥९५॥
दृष्ट्वैव श्रीपते स्वामिन्रिगहं चिंतयन्नृप ॥ मुक्तंकंठं रुदन्नूचे तोंडमान्भृशुदुखित ॥९६॥
भगवन्क्रूरपापं मामनाथं किमुपेक्षसे ॥ केन भक्ताग्रगण्येन स्वीकरोषि समर्पितम् ॥९७॥
मृन्मयीमेव संप्रीत्या तुलसीकुसुमावलिम् ॥ इत्येवमुक्तो भगवांस्तोंडमानेन वै हरि ॥९८॥
राजानं रमणीयांगं प्रत्यभाषत भूपते ॥
श्रीभगवानुवाच ॥
भक्ताश्र्च बहव संति त्रिगुणास्त्रिविधात्मका ॥९९॥
तेषां मध्ये दरिऽद्रोस्ति कुलालो भीमनामक ॥ अत्रैवोत्तरदिग्भागे राजन् योजनदूरत ॥२००॥
स कुलालोऽतिभक्यैव भित्तिकाबिलमध्यत ॥ दारुभूतं च मां शूद्र प्रत्यहं पूजयत्यसौ ॥१॥
स्वस्थ शांत स्वकृत्यं च प्रसमाप्य हरिप्रिय ॥ स्नावा विधिवदात्मज्ञो मृन्मयैस्तुलसी सुमै ॥२॥
तद्भत्त्या परितुष्टेन तदंगीक्रियते मया ॥ तत्र गत्वा प्रतिदिनं तं दृष्ट्वा तत्प्रियां तथा ॥३॥
राजन्बहुविधा संति मद्भक्ताश्र्च विरागिण ॥ यदुक्तं तु त्वया पूर्वमेकोऽहं भक्तिमानिति ॥
तद्वचस्त्वदहंकारमहोच्छ्रायविजृंभितम् ॥४॥
तदुक्तमाकर्ण्य विनम्रमस्तक संत्यज्य चैत्यं तदनु प्रजापति पद्भ्य़ां
जगामोज्झितराजगौरवस्तदास्य मार्गं प्रणमनमुहुर्मुहु ॥५॥
तं चक्रवर्तिनं दृष्ट्वा पद्यां धावंतमातुरम् ॥६॥
पृच्छंतं तस्य भवनं परितो घटकरिण ॥ प्राहुस्तं भगवद्भक्तं कुलालं मार्गवर्तिन ॥७॥
वसत्यत्रैव राजन्स कुलालो भीमनामक ॥ भक्तिर्यस्य हरौ, कृष्णसेवां नित्यं कराति य ॥८॥
एवमुक्त स लोकैश्र्च पथिकै ष्ठथिवीपति ॥ जगाम तस्य भवनं तोंडमान्राजसत्तम ॥९॥
तद्गृहाद्बहिरास्थाय स्तुतवांस्तद्गृहं नृप ॥ गृहतोरणमासाद्य पपात गतविभ्रम ॥१०॥
तत कुलालो भ्रमितो जनैर्विज्ञापितस्तत ॥ ददर्श राजशार्दूलं पतितं प्रांगणे तदा ॥११॥
किमिदं भो महत्कष्ठं राजासौ पतित कुत ॥ ममापराधो नास्त्यत्र तथापि यमदंडने ॥१२॥
शक्तौऽसौ राजशार्दूल सद्योऽहं तस्य कर्मणि ॥ नैवेद्यार्थ हरेस्तस्य घटानां शतकं मम ॥१३॥
कथितं तेन भूपेन तदद्य प्रददामि तान् ॥ एवं शूद्रे चोक्तवति राजा संज्ञामुपेयिवान् ॥१४॥
कोऽसौ भीमो हरेर्भक्त कुलाल कृष्णतोषण ॥ तत्पादयुगलं वंदे सततं साधुसंमतम् ॥१५॥
एवं वदति राजर्षी भगवान्भक्तवत्सल ॥ अर्विर्बभूव पुरत कुलालस्य महात्मन ॥१६॥
अविर्भृतं हरिं दृष्ट्वा कुलालो भक्तिसंयुत ॥ तुष्टाव हर्षपुष्टांग श्रीनिवासं निरामयम् ॥१७॥
त्वद्धाम वैकुंठपुरं महात्मंस्त्वद्वल्लभा सागरनंदना च ॥
त्वन्नाभिजातो हि पितामहोपि किं त्वा स्मरामीश कुलालजन्मा ॥१८॥
त्वत्पादसंभवा देवी साक्षाद्भागीरथी शुभा ॥ तव पुत्रीं वदतितां वतुर्वेदमयो विधि ॥१९॥
तवासनं सदा देवा वदंति फणिनं विभो ॥ सहस्रवदनं शेषं सुपर्णं वाहनं विदु ॥२०॥
नक्षत्रमाला तव दंतपंक्तिर्विद्युत्प्रकाशस्तवदेहकांति ॥ महीधरा मेरुहिमाद्रिमुख्यास्त्वदस्थिभूता पुरुषोत्तमाद्य ॥२१॥
तवाक्षिणी भानुविधू च विष्णो विराट्पदं त्वां शरणं प्रपद्ये ॥२२॥
एवं स्तुवति शूद्रे तं प्रसन्ना कमलालया ॥ जगद्धात्री जगादैवं पुरुषं परमेश्र्वरम् ॥२३॥
क्वायं कुलाल पुरुषोतमस्य कथं बभूव त्वयि भक्ति रीदृक् ॥
का जातिरस्य क्व च सद्रुणास्ते किमद्भुतं भो करुणांबुराशे ॥ इत्युक्तस्तु जगद्धात्र्या गरुडं प्रत्यभाषत ॥२४॥
भगवानुवाच ॥ तमानयातिवेगेन मत्समीपं कुलालजम् ॥ इत्युक्तो गरुडो वेगादनिनाय च शूद्रजम् ॥२५॥
इत एहीति संभाष्य समीपं परमात्मन ॥ स नत्वा शिरसा देवं प्रत्यभाषत माधवम् ॥२६॥
कुलाल उवाच ॥ मिर्थमागमो देव गृहं मे शूद्रजन्मन ॥ न चाहं विदुरो देव न चाहं शबरी प्रभो ॥२७॥
न चाहं गजराजेंद्रो नचोद्धवविभीषणौ ॥ किं देयमस्ति मद्रेहे त्वदर्थं पुरुषोत्तम ॥२८॥
वदत्येवं कुलाले तु तस्य पत्नी तमालिनी ॥ प्रसादयाथ गोविंदं द्रौपदीव जनार्दनम् ॥२९॥
तमालिनयुवाच ॥ अनाथनाथ गोविंद बुद्धिस्त्वय्येव वर्तते ॥ न जाने मंत्रमार्गं तु न जाने कर्मनिर्णयम् ॥३०॥
अशौचकु लजातानां कृतोवेद कुतस्तप ॥ भक्त्या मे परितुष्ट सनमद्भर्तुश्र्च विशेषत ॥३१॥
मया पाचितमन्नं च यावनालकुलोद्भवम् ॥ यथेष्टं भुंक्ष्व मद्दत्तं सहामोदरसादरम् ॥३२॥
इत्थमुक्तो जगद्योनिस्तया भक्त्या तमालया ॥ कमलामुखमालोक्य जहास जगदीश्र्वर ॥३३॥
सुप्रसन्नोऽथ भगवांस्तामुवाच तमालिनीम् ॥ अवश्यमन्नं भोक्ष्यं ते भक्त्या दत्तं तमालिनी ॥३४॥
इत्येवमुक्ता भगवान्भक्तवात्सल्यवारिधि ॥३५॥
रमासमेतो रमणीयविग्रह कुलालवर्येण कुलालजायया ॥ अभुंक्त दत्तं च तदन्नमुत्तमं भुत्त्क्वा तयोश्र्च प्रददौ पदं स्वकम् ॥३६॥
एतत्कौतुकमालोक्य ब्रह्मेशानपुरोगमा ॥ तुष्टुवुर्हृष्टमनस ॥ स्रष्टारं सर्वदेहिनाम् ॥ देवदुंदुभयो नेदु खात्पेतु पुष्पवृष्टय ॥३७॥
एतस्मिन्नेव समये विमानं प्राप्तमुत्तमम् ॥ विमानं प्राप्तमालोक्य श्रीनिवास सतां गति ॥३८॥
स्वकिरीटं ददौ शंखचक्रे च कौस्तुभम् ॥ पितांबरमलंकारं कुलालस्य महात्मन ॥३९॥
रमाया भूषणं तावत्तमालिन्याश्र्च संददौ ॥ दिव्यं विमानमारूढौ विष्णुना दत्तवैभवो ॥४०॥
कुलालदंपती भक्तौ दृश्यतस्तस्य भूपते ॥ जग्मतुर्विष्णुभवनं सायुज्यपदवीं गतौ ॥४१॥
कुलालपदवीं दृष्ट्वा तोंडमान्नृपसत्तम ॥ व्रीडित पुंडरीकाक्षं श्रीनिवासमभाषत ॥४२॥
मद्राश्ट्रगतशूद्रस्य सर्वदा पापकारिण ॥ सद्रतिस्तु त्वया दत्ता का गतिर्मम बांधव ॥४३॥
श्रीनिवास उवाच ॥
एतद्देहं परित्यज्य चान्यं देहमुपाश्रय ॥ तत्राराध्य हृषीकेशं गच्छ सारूप्यमुत्तमम् ॥४४॥
शतानंदउवाच ॥
इत्युक्तो नृपति सद्य स्नात्वा स्वामिसरोजलै ॥ कलेवरं परित्यज्य पुनर्देहांतरं गतम् ॥४५॥
तत्राराध्य हृषीकेशं श्रीनिवासं निरामयम् ॥ सारूप्यं गतवान्राजा स्वमिना पूर्वकल्पितम् ॥४६॥
एवं हरिस्तत्र चरित्रमद्भुतं कुर्वन्जगन्मातृसमन्वितो गिरौ ॥ आस्ते जगत्यां च सुरौघपूजितो ददद्यथेष्टं च मनोरथान्सताम् ॥४७॥
इत्येवं कथितं राजन्माहात्म्यं वेंकटेशितु ॥ य श़ृणोतीदमाख्यानं मनोरथफलप्रदम् ॥४८॥
इह लोके सुखं भुक्त्वा सोऽथ याति हरे पदम् ॥४९॥
इति श्रीभविष्योत्तरपुराणे श्रीवेंकटाचलमाहात्म्ये कुलालप्रशंसनं नाम पंचदशोऽध्याय ॥१५॥
॥ श्रीकृष्णार्पणमस्तु ॥