शतानंद उवाच ॥
तस्योपरि बरा दिव्या स्वामिपुष्करणी शुभा ॥ मच्छकच्छपसर्पाढ्या जलकुक्कुटभूषिता ॥१॥
शिंशुमारगणाकीर्णा मंडूकैश्चाप्यलंकृता । तीरजैर्वृक्षसंघैश्च चुंबितांबरकानना ॥२॥
गंगादिसर्वतीर्थानां जन्मभूमिर्विराजते । तस्यां ये स्नान्ति मनुजास्ते धन्याः पुण्यभाजनाः ॥३॥
धनुर्मासि सिते पक्षे द्वादश्यामरुणोदये ॥ कांक्षंति देवताः सर्वा मज्जनं तज्जले शुभे ॥४॥
किमत्र मनुजानां च स्नानकालोवधारितः ॥ तत्र श्राद्धादिकर्माणि पितृणां प्रीतये द्विजाः ॥५॥
तेषां पितृगणास्तुष्टा नृत्यंति हरिमंदिरे ॥ जन्मना किमनेनैव दैवेन भवतामहो ॥६॥
स्नानदानेन तत्तीर्थे मनुजा भाग्यशालिनः ॥ शंखो नाम नृपः कश्चित्स्नानमात्रेण नाकगः ॥७॥
पुरा नारायणो नाम ब्राह्मणोंगिरसः सुतः ॥ स्वामिपुष्करिणी तीर्थमहिम्ना स्नानजेन हि ॥८॥
वरं लब्ध्वा हरिं दृष्ट्वा जगाम हरिमंदिरम् ॥ रामोऽपि तत्र स्नानेन नीतां सीतामवाप च ॥९॥
एवं तीर्थवरा तत्र स्वामिपुष्करणी शुभा ॥ तस्याः पश्चिमदिग्भागे वराहवदनो हरिः ॥१०॥
धरामालिंग्य वल्मीक आस्ते पिप्पलराजिते ॥ त्रिकोटितीर्थजातानं जन्मस्थानं स भूधरः ॥११॥
एनं गिरिवरं प्राप्य भगवान्वेंकटाचलम् ॥ वैकुंठादधिकं मत्वा विचचार इतस्ततः ॥१२॥
न प्राप किंचिदास्थानं गूहनार्थ रमापतिः ॥ इत्थं विचार्यमाणे तु खामिपुष्करणीतटे ॥१३॥
दक्षिणे विमलं दिव्यं वल्मीकं दृष्टवान्मुदा ॥ तिंतिणीवृक्षमूलस्थं भगवाञ्जगदीश्वरः ॥१४॥
इदमेव वरं स्थानं तत्र लीनोऽभवदद्धरिः ॥ एवं देवे स्थिते तत्र विगत वत्सरायुतम् ॥१५॥
अतीते द्वापरे चैव अष्टाविंशतिमे कलौ ॥ अतीते वत्सरे कश्चित्चोलराजो नृपोत्तमः ॥१६॥
अवतारं समापन्नो नागकन्योदरे तथा ॥ पाल्यमाने नृपे तस्मिन् भूखंडं बहुपुण्यदम् ॥१७॥
बहुक्षीरप्रदा गावः पुत्रा वै पितृवत्सलाः ॥ काले वर्षति पर्जन्यः सस्या वै बहुधान्यदाः ॥१८॥
नार्यः पतिव्रताः सर्वा पुरुषा नियतस्त्रियः ॥ विप्रास्तेन कृते राज्ये यजनानंदतत्पराः ॥१९॥
तस्मिन्काले विधिः साक्षद्धेनुरूपी समागतः ॥ चोलराजगृहं प्राप्य द्रव्यमूल्यात्सवत्सका ॥२०॥
ब्रह्मा धेनुः शिवो वत्सो गोपाली कमलालया ॥ पश्यंती पतिमार्गं तु चोलराजानमभ्यगात् ॥२१॥
विक्रीत्वा गां महालक्ष्मीर्जगम निजधाम च ॥ बहुक्षीरप्रदां तां स पुत्रार्थमकरोत्तदा ॥२२॥
ततो धेनुसहस्त्रेण साक श्रीवेंकटाचलम् ॥ सा गौर्गच्छति नित्यं वै रमानाथं विचिन्वती ॥२३॥
तत्र तत्र समाजिब्रन्भूधरेन्द्रे वृषाकपिम् ॥ विचिनोति स्म सर्वत्र धेनुरूपी विधिस्तदा ॥२४॥
ततः कालेन महता स्वामिपुष्करीणीतटे ॥ वल्मीकस्थं हरि ज्ञात्वा तुतोष मनसा विधिः ॥२५॥
समासिंचच्च वल्मीकं समंतात्क्षीरधारया ॥ तदा प्रभृति नित्यं तु राजधेनुगणैःसह ॥२६॥
तत्र गत्वातिभक्त्यैव वल्मीके क्षीरसेचनम् ॥ जगन्नाथस्य प्रीत्यर्थं धेनुरूपी पितामहः ॥२७॥
करोति सततं गेहे नैव क्षीरं ददाति सा ॥ एवं काले गते तस्मिन् चोलराजसती स्वयम् ॥२८॥
धेनुपालं समाहूय इदं वचनमब्रवीत् ॥ गवां पालकं दुर्बुद्धे पयोऽस्याः किं करोषि रे ॥२९॥
त्वं किं भुंक्ष्येऽथवा वत्सो भुंक्ते वा वद भो ऋतं ॥ इति राज्ञीवचः श्रुत्वा गोपालो भयविव्हलः ॥३०॥
उवाच वचनं मंदं राजभार्यां सगद्गदम् ॥ गोपाल उवाच ॥ न जानेऽहं च तत्कर्मं न मया पिबते पयः ॥३१॥
स्वयं पिबति वा धेनुर्वत्सो वेति न विद्महे ॥ सत्यं वचनमेतद्धि विचारं कुरुतामिति ॥३२॥
इति गोपवचः श्रुत्वा सा सती विव्हलेक्षणा ॥ ताडयामास तं गोपं रज्जुमिश्चर्मनिर्मितैः ॥३३॥
ततः परदिने प्राप्ते ताडितो राजभार्यया ॥ कंठाघ्रिबद्धरज्जु तां त्यक्त्वा तत्पृष्ठतो ययौ ॥३४॥
धेनुःशेषाचलं तत्र वाल्मीके हरिमंदिरे ॥ अभिषेकं चकाराशु स्वपयोधरधारकैः ॥३५॥
तां दृष्ट्वा धेनुपः कोपात्कुठारं हस्तमात्रकम् ॥ उध्दृत्य तरसा गां च वधोद्योगं समाचरेत् ॥३६॥
तदा वल्मीकगः स्वामी वात्सल्यं दर्शयन् हरिः ॥ स्वभक्तहननं लोके आत्मार्थं यः पुमांश्चरेत् ॥३७॥
स एव नरकं भुंक्ते यावदाचंद्रतारकम् ॥ मदर्थं च कुठारेण हनिष्यति च गां खलः ॥३८॥
इति मत्वा रमाकांतः श्रीनिवासो निरामयः ॥ एकेन तुलसीमात्रदलेनापि नरोत्तमः ॥३९॥
पूजयेद्भक्तिभावेन तं रक्षामीति मत्पणः ॥ इत्थं विचार्य गोविंदसत्प्रहारं प्रगृह्य च ॥४०॥
स्वयं दधार तद्घातं मौलौ स्वे च जगत्पतिः ॥ कुठारेणातितीक्ष्णेन ताडितो वेंकटेश्वरः ॥४१॥
शिरःस्फोटनमापन्नः कुठारेणासिधारिणा ॥ सप्ततालप्रमाणेन रक्तस्फूर्तिभूत्तदा ॥४२॥
एवं कोलाहलं दृष्ट्वा गोपालो मरणं ययौ ॥ हते गोपालके सा गौरवरुह्य गिरेस्तदा ॥४३॥
राजानं समनुप्राप्य वाक्यहीनातिदुःखिता ॥ लुंठनं परिचक्रेऽथ राज्ञो वै शूभमंदिरे ॥४४॥
तां दृष्ट्वा विव्हलांगा च लुंठती मृतवत्सका ॥ किमर्थं लुंठतीत्येव त्यक्त्वा गोसंतति मुहुः ॥४५॥
गवा सार्धं गच्छ चार संमेलय गवां गणम् ॥ इति राज्ञा समाज्ञप्तः चारस्तत्पृष्ठतो ययौ ॥४६॥
आरुह्य वेंकटगिरिं वल्मीकाग्रमुपश्रितः ॥ पतितं धेनुपं दृष्टवा वल्मीकाग्रात्समुत्थिताम् ॥४७॥
रक्तवृष्टिं घोरतरां सप्ततालप्रमाणकाम् ॥ संवीक्ष्य नृपचारोऽथ जगाम नृपमंदिरम् ॥४८॥
उवाच तत्प्रभावं च वल्मीकाग्रात्समुत्थितां ॥ रक्तवृष्टिं ततः श्रुत्वा राजा विस्मितमानसः ॥४९॥
आरुह्य नरयानंच शीघ्रेणागाद्वृषाचलम् ॥ किमिंदं भो महत्कष्टं केन पापेन वै कृतम् ॥५०॥
धेनुपालस्य मरणं वाल्मीकं रक्तपूरितं ॥ गवां वार्ता च कथनं किमिदं वेंकटाचले ॥ इति राज्ञो वचः श्रुत्वा वल्मीकस्थो जगत्पतिः ॥५१॥
उद्भिद्य वल्मीकमंनतवीर्यो ह्यनंतशैलेंद्रतलं समाश्रितः ॥ श्रीस्वामितीर्थस्य च दक्षिणे शुभे वल्मीकसंस्थो भगवानुवाच ॥५२॥
स गद्गदोत्कंठसमाकुलाननः संदिग्धनेत्रोद्भववारिपूरितः ॥ चोलं नृपेंद्र बहुकष्टया गिरा सशंखचक्रप्रतिमाम समाश्रितः ॥५३॥
श्रीभगवानुवाच ॥पापिष्ठोऽसि दुराचार राज्यैश्वर्यमदोद्धत ॥ अनाथं भुक्तिहीनं मां दरिद्रं वनचारिणम् ॥५४॥
मातापितृविहीनं च भार्याबंधुविवर्जितम् ॥ सौभ्रातृहीनं कुटिलं कुठारेणासिधारिणा ॥५५॥
अताड्यं तु नृपश्रेष्ठ तद्दुःखमतुलं ह्यभूत् ॥ शिसे भिन्नं धेनुपेन दयाहीनेन दुर्मते ॥५६॥
इत्युक्त्वा भगवान्देवः शशाप नृपपुंगवम् ॥ पिशाचो भव दुर्बुद्धे मद्दुःखादानकर्मणा ॥५७॥
इत्थं शप्तो नृपश्रेष्ठः पपात भुवि मूर्छिथ ॥ मुहूर्ताते समुत्थाय प्रोवाच जगदीश्वरम् ॥५८॥
इति श्रीमद्भविष्योत्तरपुराणे श्रीवेंकटेशमहात्म्ये अवतारप्रशंसनं तृतीयोऽध्यायः ॥३॥
श्रीवेंकटेशार्पणमस्तु ॥