वेंकटेश्वर माहात्म्य - नवमोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


शतानंद उवाच ॥

भोजनांते स्मरन्बाला देवान्स्वकुलपूजितान् ॥ आदौ नारायणं ध्यात्वा पश्चाल्लक्ष्मी पितामहम् ॥१॥

ससतीमुमाकांतमुमामिंद्रमतः परम् ॥ शचिमग्नियमाद्यांश्च सदारान्दिक्पतीनथ ॥२॥

कुबेरमग्निं वायुं च वरुणं वासुकिं तथा ॥ देवर्षीन्पितरो राजन् गंधर्वान्राजसत्तमान् ॥३॥

काशीशं विश्वनाथं च बिंदुमाधवमेव च ॥ विष्णुपादं प्रयागं च गोदातीरनिवासिनम् ॥४॥

नारसिंहं जगन्नाथं पांडुरंगं महाबलम् ॥ पंपाध्यक्षं विरूपाक्षं श्रीशैलं पुण्यकाननम् ॥५॥

श्रीवेंकटगिरीशं च कालहस्तीश्वरं हरम् ॥ घटिकाचलसंस्थानं वृद्धाचलनिवासिनम् ॥६॥

वरदं सर्वलोकेशं श्रीरंग श्वेतरुपिणम् ॥ कुंभकोणालयं कृष्णं शार्ङ्गपाणिं महीपते ॥७॥

सेतुं रामकृतं राजन् पद्मनाभमनंतरम् ॥ सुब्रह्मण्यं कुमाराख्य मधुसूदनशंकरम् ॥८॥

चंद्रेश्वरं च गोकर्णं तथा हरिहरं नृप ॥ गंगां गोदावरी कृष्नां तुगभद्रा मलापहाम् ॥९॥

कावेरी कपिला क्षीरां सुवर्णमुखरी तथा ॥ मुकांबिका भैरव च कालभैरवमेव च ॥१०॥

कामाक्षी च विशालाक्षी कमलाक्षी वरप्रदाम् ॥ रमे कोल्हापुराध्यक्षे पाहि मां परदेशगाम् ॥११॥

सस्मार भक्तिभावेन चोवाच मधुरं वचः ॥ शृणु मत्तः सविस्तारं शपे गुल्मं सुपुत्रकम् ॥१२॥

भर्तारं बदरीवासं मातरं पितरं गुरुम् ॥ स्वात्मानं तु शपे राज्ञि सत्यमित्यवधारय ॥१३॥

सत्यं वदामि सुश्रोणि तांबूलं देहि मेंगने ॥ एलालवंगकर्पूरजातिपत्रं सपूगकम् ॥

नागवल्लीदलैर्युक्तं देहि मे मंदगामिनि ॥१४॥

धरण्युवाच ॥ सत्यं वद महाप्राज्ञे सर्वदुःखप्रशांतये ॥१५॥

त्रिराशिं मौक्तिकानां तु शूर्पपूर्णमिदं शुभम् ॥

इति तस्याः वचः श्रुत्वा तुष्टो भागीरथीपिता ॥१६॥

हस्ते धृत्वा वरा यष्टि प्रियायाः प्रीतिकारिणीम् ॥ वदामि शृणु भद्राणि दुहितुस्तेऽगशोषणम् ॥१७॥

आगतं पुरुषेणापि मन्मथाकृतिना शुभे ॥ सविस्तराद्रजपुत्रि प्रवदामि निबोध तत् ॥१८॥

इतः पूर्वदिने कंचित्पुरुषं तुरगारुहम् ॥ दृष्ट्‌वा मोहवशं याता कामज्वरसुपीडिता ॥

दुहिता ते भवद्राज्ञि ततोस्या अंगशोषणम् ॥१९॥

तच्छांत्यर्थं वरारोहे दातव्या पुरुषाय सा ॥ धरण्युवाच ॥ क्वास्ते किरातरूपी स दुहितुर्मैगशोषकः ॥

वद अतन्नाम किं भद्रे वरं दास्ये तवेप्सितम् ॥२०॥

इति पृष्टा धर्मदेवी धरणी वाक्यमब्रवीत् ॥ धर्मदेव्युवाच ॥ वैकुंठस्थो हरिः साक्षाद्वर्तते वेंकटाचले ॥२१॥

श्रीनिवासेतिविख्यातो विद्यावान्धनवान्बली ॥ पुत्र्या तव वरारोहे हतो यस्य हयोत्तमः ॥२२॥

आरामद्वारनिकटे पतित पृच्छ तत्सखीः ॥ गौरवं राजापुत्र्यास्तु क्षमितं पुरुषेण तत् ॥२३॥

सत्यं विद्धि वंचो मेऽद्य दत्ता चेत्सुखमेष्यति ॥ अदत्वा दुःखमाप्नोति न मे वाणी वृथा भवेत् ॥२४॥

अद्यैव दिनमात्रेण मरिष्यति न संशयः ॥ अमंगलवचः श्रुत्वा किंचिद्‌दुःखसमाकुला ॥२५॥

ऊचे वदसि कल्याणि दुःखहेतुर्वचो मम ॥ इति तस्या वचः श्रुत्वा पुनराह पुलिंदजा ॥२६॥

धर्मदेव्युवाच ॥ नासत्यं वचनं देवि मयोक्तं पूर्वमेव तत् ॥ भीता तद्वचनाद्राज्ञी रुदती वाक्यमब्रवीत् ॥२७॥

धरण्युवाच ॥ अयाचिता मया कन्या कथं देया भविष्यति ॥ इति चिन्तापरां राज्ञी धर्मदेवी वचोऽब्रवीत् ॥२८॥

धर्मदेव्युवाच ॥ अद्यैव घटिकांते तु आगमिष्यति का च न ॥ अबला बहुवृद्धा च धर्मार्थकुशला भुवि ॥ मद्वाक्ये विश्वसंती त्वं राजानं परिबोधय ॥२९॥

तोंडमानं च ते भर्तुर्भ्रातरं ससुह्रद्गणं ॥ संबोध्य साधुमार्गं तु समाश्रय नृपप्रिये ॥३०॥

सन्निधौ मम संकल्पं कुरु कन्यानिमित्तकम् ॥धरण्युवाच ॥ येन केनाप्युपायेन जीवितास्यात्सुता मम सुतां तस्यैव दास्यामि गिरिगव्हरवासिनः ॥३१॥

धर्मदेव्युवाच ॥ एवं चेत्ते सुता राज्ञि जीविष्यति न संशयः ॥ पतिर्मे वर्तते यत्र देवि तत्र व्रजाम्यहम् ॥३२॥

इत्युक्तासौ जगामाशु निजधाम व्रजांगना ॥ सापि तां बाढमित्युक्त्वा निर्जगाम पुराद्बहिः ॥३३॥

कक्षे बध्बा सुतं राजन् स्वर्णशूर्पं सगुल्मकम् ॥ जगामोत्तरमभ्येत्य पुलिंदा मिथिलेश्वर ॥३४॥

पुलिंदिन्या गताया तु धरणी बाष्पलोचना ॥ पुत्रीनिकेतनं प्राप्य रुदंती भृशदुःखिता ॥३५॥

किं ते मनोगतं पुत्रि न वदष्यसि किंच माम् ॥ न च मातृसमंमित्रं पुत्रीणां विद्यते शुभे ॥३६॥

किं च कार्यमकार्यं च तन्ममाचक्ष्व भामिनी ॥ पूरयामि मनस्थं ते किं वृथा देहशोषणम् ॥३७॥

अभाग्याऽहं महाराज्ञि विषपानं करोमि च ॥ सा च दुःखपरा दीना रुदती दुःखिताऽभवत् ॥३८॥

दुःखितां जननीं दृष्ट्‌वा मंदमाह मनोगतम् ॥ पद्मावत्युवाच ॥ किं वदिष्यामि हे मातः सूतिकादुःखमागताम् ॥३९॥

अथवा पुत्रलाभं वा प्रवदामि निगूढनम् ॥ नाकृत्यं तादृशं किंचिज्जातं क्वापि तु मे वरे ॥४०॥

कांक्षा संप्रति तामद्य वक्तुं शक्नोमि न स्वयम् ॥ तथापि तत्प्रवक्ष्यामि मातृत्वाच्छृणु भामिनि ॥४१॥

त्वयाज्ञप्ता गता मातः पुष्पारामं सखीयुता ॥ तत्र कश्चित्पुमान्प्राप्तः पुराणपुरुषोत्तमः ॥४२॥

मातः स्मरामि तद्वक्रं पुंडरीकनिभेक्षणम् ॥ तं विना नहि जिवामि सत्यमित्यवधारय ॥४३॥

चरितं तस्य कृष्णस्य जानंति विबुधादयः ॥ पापालयाश्च मनुजाः प्रभावं न हरेः परम् ॥४४॥

सत्यं सर्वोत्तमः साक्षात्स एव पुरुषोत्तमः ॥ दक्षिणं पाणिमाश्रित्य राजते चक्रमुत्तमम् ॥४५॥

तथोत्तरे शंखवरो राजते हंसराजवत् ॥ यत्कंठे कौस्तुभं रत्नं कर्णे मकरकुंडले ॥४६॥

यस्य चक्रप्रभावेण दग्धा वाराणसी पुरी ॥ यस्य शार्ङ्गध्वनि श्रुत्वा विद्रवंत्यसुरादयः ॥४७॥

तद्भक्तलक्षणं वक्ष्ये शृणु मातः सविस्तरम् ॥ वेदशास्त्रपरा ये च ये च धर्मव्रते पराः ॥४८॥

वेदोक्तं कर्म कुर्वंति तान्भक्तान्विद्वि वैष्णवान् ॥ शंखचक्रांकिता ये च ऊर्ध्वपुड्रधराश्च ये ॥४९॥

नासत्यं वदते ये तु पितृमातृमतेस्थिताः ॥ तद्भक्तलक्षणं चैतत्तं विना कोऽनुजीवति ॥५०॥

तनयावचनं श्रुत्वा सानन्दा वाक्यबम्रवीत् ॥ धरण्युवाच ॥ सत्यं वद वरारोहे भ्रमो वा ज्वरकारणम् ॥५१॥

पद्मावत्युवाच ॥ सत्यं वदामि हे मातर्दृष्ट एव महाप्रभुः ॥ तद्दर्शनधिया मेऽद्य जायते देहशोषणम् ॥

शतानंदउवाच ॥ सांत्वयित्वा सुतां भद्रां भर्तुर्भवनमभ्यगात् ॥५२॥

पाकार्थं परमानंदभरिता भाग्यसंपदा ॥ पुत्र्यंगशोषसंक्षुब्धं कृच्छ्रसंतापसंयुतम् ॥५३॥

अवदत्स्वपतिं प्राप्य पुत्रीकायविशोषणे ॥ कारणं धर्मदेव्युक्तमथ तच्छांतिकारणं ॥५४॥

सर्वं संबोधयामास पुत्र्या ह्रद्गतामादरात् ॥ एतस्मिनेव समये कन्याश्च बकुलान्विताः ॥५५॥

अभिषिच्य जगन्नाथं शंकरं ब्राह्मणैः सह ॥ संभारान्शिरसा धृत्वा ब्राह्मणैः सपुरोहितैः ॥५६॥

राजधानी समासाद्य अंतर्भवनमभ्युयुः ॥ समागतान् द्विजान्सर्वान् संपूज्य विधिपूर्वकम् ॥५७॥

गंधपुष्पाक्षताद्यैश्च वस्त्रालंकारदक्षिणैः ॥ विप्राशिषोक्तमंत्रेश्च सुतां संकार्जयत्तदा ॥५८॥

स्वयं भुक्त्वा महाराजा ब्राह्मणानामथाज्ञया सापि भुक्त्वा महाराज धरणी बहिरागता ॥५९॥

ददर्श तां महाराज बकुलां नवरूपिणीं ॥ धर्मदेवीवचः स्मृत्वा तत्समीमुपागता ॥

पप्रच्छ तास्तदा कन्या एतद्‌वृत्तांतकोविदाः ॥६०॥

धरण्युवाच ॥ पृच्छतां कन्यका अस्याः किमागमनकारणं ॥ कैषा कस्मादुपायाता पूज्यैषा प्रतिभाति मे ॥६१॥

तदाज्ञाकारिका काचिद्वाक्यमाह महीपते ॥ कन्यकोवाच ॥ वासः पन्नगशैलेंद्रे स्वामी मे वेंकटेश्वरः ॥६२॥

कार्यमस्तीति कथितं तया बकुलमालया ॥ वयं प्राप्ता महाभागे त्वत्समीपं महामते ॥६३॥

पृच्छतां तां च वृत्तांतं तदागमनजं सखे ॥ एवमुक्ताथ कल्याणि प्रतिनंद्याह भारतीम् ॥६४॥

धरण्युवाच ॥ तिष्ठ भद्रे वरारोहे रत्नपीठे सुनिर्मले ॥ इत्युक्ता सा तया बाला रत्नपीथे निवेशिता ॥६५॥

मेने कृतार्थमात्मानं साफल्यं जन्मनो नृप ॥ उवाच नृपभार्याऽथ धरणी देवमातरम् ॥६६॥

धरण्युवाच ॥ स्वागतं ते महाभागे मम पुण्यस्य कारणम् ॥ मन्ये कृतार्थमात्मानं सफलं साधुसंगमात् ॥६७॥

निर्देशितव्यं यत्कर्म तदद्य विदधीमहि ॥ किमर्थमागमो मातः किं कार्यं वदतामिति ॥ बभाषे बकुला भार्यां राज्ञस्तस्य महात्मनः ॥६८॥

बकुलोवाच ॥ कन्यापेक्षा मुख्यकार्यं पुनः कार्यशतेन किम् ॥ मुख्यकार्यं ततः श्रुत्वा वरारोहामथाब्रवीत् ॥६९॥

धरण्युवाच ॥ सम्यगुक्तं त्वया देवि वरापेक्षाऽपि वर्तते ॥ को वा वरः कश्च देशो गोत्रं नक्षत्रकं च किम् ॥

जननी तस्य का बाला जनकश्च महामतेः ॥७०॥

किं कुलं च किमाचारो जातिर्वा तस्य का वद ॥ कुलाचारकथां श्रुत्वा बकुला वाक्यमब्रवीत् ॥७१॥

बकुलोवाच ॥ शृणु राज्ञि सविस्तारं गोत्रनक्षत्रबंधुताम् ॥ देवकी जननी तस्य जनकः शूरनंदनः ॥७२॥

निशाकरकुलं तस्य नाम्ना कृष्ण इति स्मृतः ॥ वसिष्ठगोत्रे चोत्पन्नो नक्षत्रं श्रवणं तथा ॥७३॥

आवासो वेंकटगिरिर्विद्यावान्धनवान्बली ॥ बहुलाचारसंपन्नः पंचविंशतिवार्षिकः ॥७४॥

पाणिग्रहणकालोयं दत्ता चेत्सुखमेष्यसि ॥ किमत्र बहुनोक्तेन दर्शनात्ते सुखं भवेत् ॥७५॥

तदृत्तमखिलं श्रुत्वा तामाहानंदनिर्भरा ॥ धरण्युवाच ॥ शंका जाता वरारोहे मम ते वचनाच्छुभे ॥७६॥

सभाग्थश्च कुलीनश्च बुद्धिमांश्च युवा वलि ॥ वाग्मीत्युक्ताऽसि चैतावद्विवाहो न कृतः कुतः ॥

सा तद्ववचनमाकर्ण्य मनसीत्थमचिंतयत् ॥७७॥

धैर्येण वचनं प्राह धरणीं राजवल्लभाम् ॥ बकुलोवाच ॥ कृतं वैवाहिकं देवी बाल्ये भागीरथीपितुः ॥७८॥

तत्रापत्यमनालोक्य द्वितीयं कर्तुंमुद्यतः ॥ न दोषमितरं विद्धि श्रीनिवासे निरामये ॥७९॥

तद्‌वृत्तमखिलं श्रुत्वा संपूज्य बकुलां नृप ॥ सा पुत्रं संदिदेशाऽथ नृपाव्हाने नृपोत्तम ॥८०॥

सुपुत्रवचनं श्रुत्वा हर्षादंतःपुरं ययौ ॥ एकांते राजशार्दूलमिदं वचनमब्रवीत् ॥८१॥

धरण्युवाच ॥ कन्थाथमागता राजन्बकुला वेंकटाचलात् ॥ सुतं संप्रेषयित्वाथ पुरोहितमिहानय ॥८२॥

वरस्याप विचार्याशु कुलाविद्याबलादिकम् ॥ गोत्रं ऋक्षाद्यानुकूल्यं ब्राह्मणैर्वेदपारगैः ॥ विचार्य वरवध्वोश्च योनिनाडी सुसंगतिम् ॥८३॥

सर्वं सम्यक्‌ समालोच्य कन्यादानं कुरुप्रभो ॥ कन्यार्थमागता साध्वी दुहितुर्विदितं मनः ॥८४॥

तमेवेच्छति त्वत्पुत्री वेंकटाद्रिनिवासिनं ॥ धर्मदेवींवचः सत्यं शुभंशीघ्रं विधीयताम् ॥८५॥

इतिपत्न्या वचः श्रुत्वा परमानंद निर्भरः ॥ आकाशराजोवाच ॥ बकुलागमनेऽस्माकं शिवं भद्रे समागतम् ॥८६॥

अहो मंगलमस्माकं संप्राप्तं पूर्वपुण्यतः ॥ अभवन्पितरः सर्वे कृतार्थाः मुक्तिभागिनः ॥८७॥

तद्वाक्यामृतपानेन रोमहर्षस्तु जायेत ॥ कदा पश्यामि कल्याणं वधूवरसमागमम् ॥८८॥

सभर्तृकां राजपुत्रीं स्वर्णसिंहासने स्थितां ॥ कदा पश्यामि नेत्राभ्यां बंधुमंडल मध्यगाम् ॥८९॥

इत्युक्त्वा भवनं चागाद्राअज दुहितृवत्सलः ॥ राजा पद्मावती प्राह सांत्वयन्वचसाऽऽदरात् ॥९०॥

राजोवाच ॥ भद्रे दुःखं मनस्थं ते त्यज शीघ्रमितः परं ॥ ह्रदये तव कल्याणि यत्कांक्षा वर्तते वद ॥९१॥

तदद्याहं करिष्यामि कार्या विचारणा ॥ जनकस्य वचः श्रुत्वा जननी वाक्यमब्रवीत् ॥९२॥

पद्मावत्युवाच ॥ मातस्ते कथितं सर्वं वृत्तांतं जनकस्य मे ॥ समाचक्ष्वाद्य संकोचान्न वक्तुमहमुत्सहे ॥९३॥

पुत्रीगिरिं विदित्वा सा भर्तारं वाक्यमब्रवीत ॥ धरण्युवाच ॥ साधयस्व महाराज विवाहं विधिपूर्वकं ॥९४॥

विलंबो नैवकर्तव्यः शुभस्यार्थं शुभानन ॥ राजोवाच ॥ तस्मै दास्यामि कृष्णाय श्रीनिवासाय भामिनी ॥९५॥

समाश्वास्य सुतां राजा पुत्रमिंद्रनिकेतनं ॥ प्रेषयामास राजेंद्र गुर्वागमनकांक्षया ॥९६॥

विलिख्य पत्रिकां राजा पुत्रीकल्याणसूचिकाम् ॥ संप्रेषयामास तदा स्वपुत्रेण वियन्नृपः ॥

स गत्वातित्वरेणैव चंद्राशत्वाच्च भूमिप ॥९७॥

वंदयित्वाऽऽनंदपूर्णं गुरुमिंद्रस्य भूपते ॥ प्रतिष्ठाप्य वरं पत्रं पुरतः पुरुषर्षभः ॥९८॥

राजपुत्रं सपत्रं च दृष्ट्‌वांगिरसनंदनः ॥ करद्वयेन तामाशु गृहीत्वाऽऽनंदनिर्भरः ॥९९॥

स पपाठ महाराज पत्निकां शुभसूचिकाम् ॥ तत्क्षणादागमद्राजन्राजानं स पुरोहितः ॥१००॥

प्राप्तं पुरोहितं दृष्ट्‌वा कृत्वार्चा विधिपूर्विकाम् ॥ कालोचितं वाचयित्वा वंदमान उवाच सः ॥ राजोवाच ॥

तवाज्ञया करिष्यामि विवाहं दुहितुर्मम ॥१॥

श्रीनिवासस्य संबंधो विदितस्य प्रशस्यते ॥ कन्यार्थमागता साध्वी विदिते गोत्रनामनी ॥२॥

तथापि तव वाक्येन विवाहं कर्तुमुत्सहे ॥ स राज्ञो वचनं श्रुत्वा राजानं प्रत्यभाषत ॥३॥

गुरुरुवाच ॥ सफलं वृक्षमाश्रित्य जीवंति बहवो भुवि ॥ तथा वयं च जीवामस्तव भाग्यावलंबिनः ॥४॥

अहं कदाचिदेवात्र समागच्छामि भूतलम् ॥ न जानामि ततः सम्यक्छुक आश्रितवान्सदा ॥५॥

स जानाति महाराज स्थितिमेतस्य शाङ्‌र्गिणः अत्नैवोत्तरदिग्भागे पंचक्रोशमिते नृप ॥६॥

शुकोऽस्ति व्यासतनयः श्रीनिवासपरायणः ॥ तमाव्हय महाराज शीघ्रेण पृथिवीपते ॥७॥

स वक्षस्यात्मनः सौख्यं वृत्तांतं तस्य चादितः ॥८॥

एवमुक्तोऽथ गुरुणा भ्रातरं ब्राह्मणप्रियम् ॥ संदिदेश महाराजा शुकाश्रममरिंदमः ॥९॥

स गत्वा वायुवेगेन रथेनादित्यवर्चसा ॥ ध्यानयोगादुत्थितं तं दृष्ट्‌वा शुकमुवाच ह ॥११०॥

तोंडमान उवाच ॥ शृणु तापसशार्दूल वचनं राजभाषितम् ॥ पद्मावती विवाहार्हा संपन्ना गुरुपूजिता ॥११॥

श्रीनिवासाय तां कन्यां प्रदातुं कांक्षते नृपः युक्तायुक्तविचितायै गुरुमाहूतवानपि ॥१२॥

तदर्थमेव चाद्य त्वां समाव्हयति भूमिपः ॥ युक्तायुक्ते विचिंत्याथ लिखितुं शुभपत्निकाम् ॥१३॥

अवकाशं न कृत्वाद्य गच्छतां नगरं प्रति ॥ एवमुक्तो महीदेवो महीपालेन भूमिप ॥१४॥

ससंभ्रमात्समुत्थाय व्यब्रमद्विभ्रमन्निव ॥ भिंदन्कमंडलु राजन् छिंदन्कृष्णमृगत्वचम् ॥१५॥

विच्छिद्य मणिमालाश्च स ननर्त महामुनिः ॥ मुहूर्तमित्थं राजेंद्र तद्‌बुद्धि रवंशगता ॥

उवाच पश्चाद्राजानं कार्ष्णद्वैपायनिर्मुनिः ॥१६॥

श्रीशुक उवच ॥ साधूदितं वाक्यमुदारविक्रम त्वया हरे हरेर्वैकटशैलवासिनः ॥

कन्याप्रदानं पुरुषार्थसाधनं समस्तलोकस्य पवित्रतारकम् ॥१७॥

आकाराजधिशणा श्रीनिवासकृपाबलात् ॥ महादानपरा इत्थं भूयास्ता च दिने दिने ॥१८॥

इत्याशिषा प्रशस्याथ पद्मतीर्थेऽवणाह्य च ॥ कृत्वा माध्यान्हिकीं संध्यां त्यक्त्वा जीर्णोपबर्हणम् ॥१९॥

स नवानि कुशाग्राणि निकृत्य मुनिसत्तमः ॥ किरीटं बंधयित्वा तैरुत्तमांगनिबंधनम् ॥१२०॥

कवचं कल्पयामास कुशाग्रैः कुसुमैस्तदा ॥ तुलसीमणिमालाभिः कंठकर्णविभूषितः ॥२१॥

मृगत्वग्भिः पादलंबैः कंचुकैः समलंकृतः ॥ ज्ञानाश्वमधिरूढस्तु स जगाम नृपालयम् ॥२२॥

तमायांतं मुनि दृष्ट्‌वा चतुरंग बलान्वितः ॥ पुरोहितं पुरस्कृत्य कुशमूलफलोदकैः ॥२३॥

अभियातस्तदा राजा संतोषं प्राप सापुरी ॥ यानादुत्तीर्य राजेंद्रः साष्टांग प्रणिपत्य तम् ॥ गजमारोप्य नगरी सपुरोहित मानयत् ॥२४॥

निकेतनांतर्भवने निवेश्य निधिं मुनीनां प्रवरं स राजा ॥ संपूजयामास विधानवित्तमो विद्यागुरुं ज्ञानगुरुंच नत्वा ॥२५॥

तापसं परिपप्रच्छ कन्यार्थं धिषणाग्रतः ॥ राजोवाच ॥ पद्मावती प्रदास्यामि निश्चितेयं मतिर्मम ॥

श्रीनिवासाय कृष्णाय भवद्‌भ्यामनुमोदितः ॥ २६॥

स तद्वचनमाकर्ण्य राजानं राजसत्तमम् ॥ शुकोऽब्रवीद्निरं पुत्री कारणात्करुणान्वितः ॥२७॥

श्रीशुक उवाच ॥ मा कुरुष्व महाराज संदेहं दानकर्मणि ॥ धन्योऽसि त्वं महीपाल कुलं पावनतां गतम् ॥२८॥

पितरस्तु दिवं प्राप्ता नात्र कार्या विचारणा ॥ किं त्वया चरितं पुण्यं पूर्व जन्मनि भूमिप॥२९॥

भगवानरविंदाक्षः श्रीनिवासः सतां गतिः ॥ जामातृत्वं समापन्नास्तस्मान्नास्ति तवाधिकः ॥१३०॥

विलंबो नैव कर्तव्यः शुभं शीघ्रं विधीयताम् ॥ वयं धन्याः कृतार्थाः स्मस्तवसंगेन भूमिप ॥३१॥

वयं तु तपसाऽऽराध्य कंदमूलफलाशनाः ॥ सर्वसंगं परित्यज्य न पश्यामोऽत्र तं विभुम् ॥३२॥

संगतेस्तव पश्यामः श्रीनिवासं श्रियायुतम् ॥ संगतिस्तव भद्रा नोऽभवेज्जन्मनिजन्मनि ॥३३॥

एवं तमुक्त्वा राजर्षि तूष्णीमास स तापसः ॥ शुक्रवाक्यं ततः श्रुत्वा स राजाऽऽनंदनिर्भरः ॥३४॥

वैयासिकेर्वचः श्रुत्वा प्रशशंस प्रजापतिः ॥ मन्ये कृतार्थमात्मानं व्यासपुत्र नमोऽस्तुते ॥३५॥

ग्रहाणांच गतिस्तात तयोर्योगो विचिंत्यताम् ॥ रुक्षयोगं पश्य विप्र बलाबलम् ॥३६॥

इति राज्ञो वचः श्रुत्वा सुराचार्यः ससंभ्रमम् ॥ छायाशास्त्रविधानज्ञो बकुलां वाक्यमब्रवीत् ॥३७॥

बृहस्पतिरुवाच ॥ गोत्रं श्रीवेंकटस्य तन्ममाचक्ष्व भामिनि ॥ नक्षत्रं च वरारोहे कथ्यतामिति चाब्रवीत् ॥

सा तस्य वचनं श्रुत्वा किंचित्कोपान्विताऽब्रवीत् ॥३८॥

बकुलोवाच ॥ ब्राह्मणाः सत्यसंपन्नाः कलौ मिथ्याप्रवादिनः ॥ जानंतोऽपि महाराज न वदंति हिताहितम् ॥३९॥

श्रीशुक उवाच ॥ अविश्वास्श्च विप्रेषु क्षत्रियाणां वरानने ॥ धर्मोऽप्यधर्मतामेति ह्यधर्मो धर्मतां गतः ॥१४०॥

तस्मात्त्व्या महाभागे कथनीयं हिताहितम् ॥ बकुलोवाचं नक्षत्र श्रवणं तस्य गोत्रं वासिष्ठसंज्ञकम् ॥४१॥

ऊचुः पुरातना मत्स्यकूर्मकृष्णादिरूपिणः ॥ राजोवाच ॥ गोत्रमत्रेर्महाभागं नक्षत्रं मृगशीर्षकम् ॥४२॥

सीतासत्यादिरूपायाः पद्मावत्या विदुर्बुधाः ॥ उभयोर्वचनं श्रुत्वा गुरुर्योगं विचिंत्य सः ॥ हर्षोद्रिक्तमना भूत्वा सत्यमाह महामतिः ॥४३॥

गुरुरुवाच ॥ नाडीकूटं विशेषेण सूत्रकूट विशेषतः ॥ योनिकूटं चानुकूलं ग्रहाश्च शुभदर्शनाः ॥४४॥

सर्वं विचार्य भूपालः स्वार्यभावं समाश्रितः ॥ संमंत्र्य बंधुमित्राद्यैः कन्यादानं कुरु प्रभो ॥४५॥

एवं गुरुवचः प्रभो श्रुत्वा विचार्याशु विचक्षणः ॥ भक्त्या परमया राजा स्वार्यभावं समाश्रितः ॥४६॥

ज्ञातिबांधवसंबधिसुत्दृन्मित्रजनैर्युतः ॥ मंत्रं चकार राजेंद्र कन्यादाननिमित्तकम् ॥४७॥

ते सर्वे बंधुवर्गाश्च राजानं प्रत्यपूजयन् ॥ सभा च कारयामास रत्नसिंहासने स्थितः ॥४८॥

वाचयित्वाऽथ पुण्याहं कन्यानिश्चयकारणात् ॥ भुजमुद्‌धृत्य राजेंद्र सभामध्ये वचोऽब्रवीत् ॥४९॥

राजोवाच ॥ पद्मावतीं प्रदास्यामि श्रीनिवासाय शार्ङ्‌गिणे ॥ यूयं बंधुगणाश्यात्र दयां कुरुत मां प्रति ॥१५०॥

प्रतिज्ञामकरोदित्थं कन्यार्थे वेंकटेशितुः ॥ स चोवाच महाराजा गुरुं गुरुजनप्रियः ॥५१॥

राजोवाच ॥ किं कार्यं वद विपेंद्र संकल्पानंतर मया ॥ राजानमब्रवीद्राजन्नंगिरा देवतागुरुः ॥५२॥

बृहस्पतिरुवाच ॥ विलिख्य पत्रिकां राजन् श्रीनिवासाय विष्णवे ॥ विप्रं प्रेषय राजेंद्र तस्यागमन्कारणात् ॥५३॥

स्वगुरोर्वाक्यमाकर्ण्य राजा गुरुमभाषत ॥ राजोवाच ॥ किं लेख्यं प्राकृतैर्विद्वन्नप्राकृतशरीरिणः ॥ तथापि लेखनीयं यत्तद्‌ब्रूहि गुरुसत्तम ॥५४॥

आकाशराजावचनं श्रुत्वा गीष्पतिरादरात् ॥ लेख्यांश बोधयामास राज्ञस्तस्य महात्मनः ॥५५॥

गुरुपदिष्टमार्गेण विलिलेख स पत्रिकाम् ॥ अप्राकृताय नित्याय सच्चिदानंदमूर्तये ॥५६॥

स्वतंत्रायाद्वितीयायानंतरूपाय शार्ङ्‌गिणे ॥ भक्तप्रियाय भक्त्यैकवेद्योपादेयरूपिणे ॥५७॥

देवाधिदेवपूज्याय ब्रह्मपूज्याय विष्णवै ॥ श्रीनिवासाय कृष्णाय वेंकटाचलवासिने ॥५८॥

सांगैः सर्वैश्च वेदाद्यै रागमै सपुराणकैः ॥ अवेदितानंतगुणकर्मणे श्रीधराय ते ॥५९॥

आशीर्वादं करिष्यामि बंधुत्वाते सुरोत्तम ॥ त्वत्पादपद्मसंवीक्षकाम आकाशनामकः ॥१६०॥

त्वदाश्रयं समाकांक्षँल्लेखयाम्यद्य माधव व स्त्रीपुत्रभ्रातृभिः साकं सर्वे कुशलिनो वयम् ॥६१॥

त्वदनुग्रहात्रेण वसामोऽत्र हरेः पुरे ॥ सर्षेषां भवतां क्षेमं पत्रद्वारा निबोधय ॥६२॥

चैत्रशुक्लत्रयोदश्यामेतत्पत्रं विलिख्यते ॥ कन्यां पद्मावतीं तुभ्यं दास्यामीति मतिर्मम ॥६३॥

तामंगीकुरु गोविंद विवाहविधिपूर्वकम् ॥ शुको वेत्ति गुरुर्वेत्ति ह्रदयं मम सर्वतः ॥६४॥

मा कुरुष्वात्रसंदेहं कन्यार्थं पुरुषोत्तम ॥ वैशाखशुक्लदशमीभृगुवारे शुभे दिने ॥६५॥

बंधुभिः सह संप्राप्य मामुद्‌धृत्य गणैः सह ॥ हर्षेण पाणिग्रहणं कर्तव्यं मे मनोगतम् ॥६६॥

अधिकं लेखनीयं ते किमस्ति पुरुषोत्तम ॥ शुको वदति यत्सत्यं तत्सर्वं कुरु केशव ॥६७॥

इत्याशिषः सन्तु महानुभाव ते समस्तकल्याणगुणार्णव प्रभो ॥ नित्याय सत्याय सुखस्वरूपिणे समस्तलोकप्रभवे महात्मने ॥६८॥

इत्थं लिखित्वा वरपत्रिकां शुभामाकाशाराजो जगदीशसन्निधिम् ॥ संप्रेषयामास शुक्रं महान्तं सपुत्रमित्रः सहबांधवानुगः ॥६९॥

क्रोशमात्रपागम्य शुकं वचनमब्रवीत् ॥ राजोवाच ॥ येन केन प्रकारेण तस्य चित्तं वशीकुरु ॥१७०॥

अयुतं स्वर्णलक्षं वा कोटिम वार्बुदमेव वा ॥ दास्यामि द्रव्यनिचयं नात्र कार्या विचारणा ॥ एवमुक्तो महीदेवो गतः शेषाचलं प्रति ॥७१॥

मध्यं गते भानुमतो महात्मा समागतस्तत्र शुकस्य शिष्यः ॥ हरेर्जनन्यानुगतो विरागि तद्दर्शनाल्हादगताध्वशेषः ॥७२॥

अम्बामवीक्ष्य चायांती वेङ्कटाद्रिशिखामणिः ॥७३॥

माता च नागता कस्मादिति चिंतापरो हरिः ॥ एतस्मिन्नेव काले तु कृष्णद्वैपायनात्मजम् ॥७४॥

ददर्श स शिरः पाणिं कृतकार्यविनिश्चयम् ॥ शुकं प्राह विभक्त्यैव चासनादुत्थितो हरिः ॥७५॥

श्रीनिवास उवाच ॥ कार्यं मदीयं विप्रेन्द्र पक्वं वापक्वमेव वा ॥७६॥

श्रीशुक उवाच ॥ कार्यं तव कृपासिन्धो पक्वमेव न संशयः ॥ शुभं वाक्यामिति श्रुत्वा दण्डवत्प्रणतं भुवि ॥७७॥

समालिंग्य शुकं कृष्णो भक्त्या हर्षवशं गतः ॥ अतिचित्रचरित्रात्मा शुकमाह महीषते ॥७८॥

श्रीनिवास उवाच ॥ वदन्ति लोका अनृतान्सहस्त्रान्विवाहकामा नरजन्मनो ये ॥ ये यान्ति मद्धाम किमत्र वाच्यं जगत्कुतुम्बस्य विवाहकामाः ॥७९॥

नरो बिभर्ति स्वसुतं स्वभार्यां स्वजनं गृहम् ॥ ब्रह्माण्डं भवनं विद्वन्ब्रह्मा मे नाभिसंभवः ॥८०॥

या लक्ष्मीर्मम कल्याणी ये चान्ये मम चौरसाः ॥ चतुनवतिलक्षाणि जीवाः सन्ति ह्यसंख्यकाः ॥८१॥

एतेषां रक्षणे बद्धदीक्षोऽहं मुनिसत्तम ॥८२॥

महाकुटुम्बयुक्तस्य मम कल्याणकारणात् यन्मिथ्या भाषितं स्वामिंस्त्वयाद्य मुनिसत्तम्‍ ॥८३॥

त्वत्कृतस्योपकारस्य प्रतिदातुं न विद्यते ॥ तथापि तव दास्यामि शरीरालिङ्‌गनं मुने ॥८४॥

मव्छरीराद्वरिष्ठुं तु न विजानामि ते शुभम् ॥ एवमुक्त्त्वांगसंगं च तस्यादात्पुरुषोत्तमः ॥८५॥

त्वत्पुण्यस्यावधिर्नास्ति मत्संगस्तव पुण्यजः ॥ यथा त्वया कृतं कर्म तथा पूर्वं कषीश्वरः ॥८६॥

सीतानिमित्तं यः कर्म कृतवान्मारुतात्मजः ॥ तस्मै प्रादां महीदेव संतुष्टः सहभोजनम् ॥८७॥

सत्यलोकाधिपत्यं च सीता वार्तावलंबिने ॥ तस्माद्वरिष्ठं ते कर्म मुने तापसपुंगव ॥८८॥

एवमुक्त्वा सुभद्राणि वाक्यानि विविधानि च ॥ ततः प्रोवाच भगवान्कक्षेकिं भाति भानुवत् ॥८९॥

श्रीशुक उवाच ॥ राजाराजेन लिखिता पत्रिका पुरुषोत्तम ॥१९०॥

प्रोक्तं ते च महाभाग पूर्वमेवाऽस्य कारणम् ॥ इत्युक्तः सन् रमाकांतः पत्रिकां शिरसा दधौ ॥९१॥

श्रीनिवास उवाच ॥ कुशली वर्तते राजा भार्या तस्य पतिव्रता ॥ भ्राता तस्य महाभागः पुत्रस्तस्य विशांपते ॥९२॥

श्रीशुक उवाच ॥ सर्वं तु कुशलं तस्य भगवन्भूतभावन ॥९३॥

एवमुक्तः पपाठाथ पत्रिकां पुरुषोत्तमः ॥ पठन्ह्रष्टमना भूत्वा वाचमूचे रमापतिः ॥९४॥

श्रीनिवास उवाच ॥ पत्रिका लिख्यते विप्र मयऽऽकाशनृपाय च ॥ त्वद्वचमनुसृत्यैव राज्ञः प्रीतिविधायका ॥९५॥

ततः स पुत्रं पुरुहूतमित्रं स्वयं लिलेखाथ महार्थसंयुतम् ॥ अत्यंतसंह्रष्टमनः प्रसूचकं कृष्णावतारे प्रति रुक्मिणीमिव ॥९६॥

राजाधिराजपूज्याय सुधर्मतनयाय च ॥ नमो नमोऽतिभक्त्यैव कृत्वेयं पत्रिकाऽधुना ॥९७॥

लिख्यते श्रीनिवासेन शुभविज्ञाप्तिगर्भिणी ॥ श्रीमद्राजाधिराजेन्द्र किरीटाघृष्टपादुका ॥९८॥

अस्मद्बंधुवरेण्याढ्य गुणपूर्णसमृद्धिमन् ॥ सुधर्मतनयाकाश नाम्नाऽऽशासु सुकीर्तिमन् ॥९९॥

नमो नमोस्तु ते राजञ्छ्रीनिवासस्य शार्ङ्‍गिणः ॥ श्रीनिवासेन बालेन विज्ञप्तिः क्रियते त्वियम् ॥२००॥

भवद्भिर्लिखितं दृष्ट्‌वा संतोषो ह्यभवन्मम ॥ वैशाखशुद्धदशमीभृगुवारे महोत्सवे ॥१॥

अंगीकरोमि राजेंद्र कन्यां तव विशांपते ॥ यथा पुरा सागरो मे कन्यादानसुकीर्तिमान् ॥२॥

तथा दत्वा तु मे कन्यां भवेस्त्वं बहुकीर्तिमान् ॥ यथा वै सागरान्पूर्वान्कपिलेन निपातितान् ॥३॥

भगीरथो महाराजो गंगामादाय वै पुरा ॥ उद्‌धृत्य कीर्तिमापेदे तथा त्वं राजसत्तम ॥४॥

दत्वा मे सुभगां कन्यां तव पूर्वोत्तरं कुलम् ॥ उद्‌धृत्य बहुला कीर्ति लभस्वेतरदुर्लभाम् ॥५॥

लिखितव्यं विशेषेण किम तेऽस्ति नृपसत्तम् ॥ विशेषज्ञोऽसि धर्मात्मा वेत्ति सर्वं शुको मुनिः ॥६॥

इति विज्ञापनं ज्ञेय मम प्रणतिपूर्वकम् ॥७॥

इत्थं लिखित्वा वरपत्रिकां शुभां शेषाद्रिनाथो मुनिना शुकेन ॥ संप्रेषयामास सुरेंद्रपूज्यं पुरं नृपेंद्रस्य वियन्नृपस्य ॥८॥

श्रीनिवास उवाच ॥अविदित्वा कुलं गोत्रं नाम संस्थानमंदिरम् ॥९॥

कथं दास्यति राजेंद्रः कन्यां मन महीसुर ॥ श्रीशुक उवाच ॥ न कुलं नच गोत्रं ते न जन्म मरणे हरे ॥२१०॥

न जरा न च वृद्धिश्च न च स्थानं न चाश्रयः ॥ विडंबमात्रं गोविंद कुरुषे पुरुषोत्तम् ॥११॥

न ते ऽ पेक्ष्यं कुलं गोत्रं विदितस्य जगत्पतेः ॥ मम वाक्याद्वियद्राजः कन्यां ते संप्रदास्यति ॥१२॥

मम वाक्याज्जगन्नाथ दयां कृत्वा बियन्नृपे ॥ इय्म च कन्या गोविंद स्वीकार्या कृपया त्वया ॥१३॥

इति स्तुत्वा शुकस्तीव्रं विसृष्टो हरिणा पुनः ॥ हरिसंदर्शन्नाल्लब्धहर्षो राजपुरं ययौ ॥१४॥

गते तु मुनिशार्दूले भगवान भक्तवत्सलः ॥ मातरं संददर्शाथ मार्गश्रांतां वयोगताम् ॥१५॥

बकुलां प्रणिपत्याथ माधवो वाक्यमब्रवीत् ॥१६॥

श्रीनिवास उवाच ॥ अंबकालविलंबस्ते किमर्थं कमलानने ॥ का तत्र वार्ता नगरे तन्ममाचक्ष्व भामिनी ॥१७॥

बकुलोवाच ॥ साधिता बहुयत्नेन कन्या ते पुरुषात्तमे ॥ दैवमेव परं मन्ये पौरुषं नैव कारणम् ॥१८॥

नारायणाश्रमात्कृष्ण धर्मदेवी समागता ॥ दैवयोगेन सा भद्रा संप्राप्ता राजमंदिरम् ॥१९॥

उवाच तां भवद्दानयोग्यां कन्यां रमापते ॥ कन्यापि त्वदृतान्यं सा नैवाकांक्षति लौकिकम् ॥२०॥

तयोर्वाक्यं समाकर्ण्य दातुं ते सोऽन्वमन्यत ॥ इमां दास्यामहे पूत्रीं सा वेंकटाद्रिनिवासिने ॥२१॥

इत्थं संकल्पयामास सभामध्ये मुदा नृपः ॥ त्वयैव जातमेतद्धि न दैवं भवतः परम् ॥२२॥

इति मातृवचःश्रुत्वा किंचिद्धास्यमुखो हरिः ॥ मातरं प्रतिनंद्याथ चितयन्वाक्यमब्रवीत् ॥२३॥

इति श्रीमद्भविष्योत्तरपुराणे श्रीवेंकटाचलमाहात्म्ये पद्मावतीपरिणयनिश्चयो नाम नवमोऽध्यायः ॥९॥

श्रीवेंकटेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP