श्रीसूत उवाच ॥
शयनं प्राप पर्यंके श्रीनिवास वृषाकपिः ॥तदा गता च सा देवी सेवार्थं बकुला शुभा ॥१॥
षड्विधान्नं समादाय सूपापूरपरसान्वितम् ॥ रमापतेस्तु बकुला भक्तिभावेन संयुता ॥२॥
शयानं श्रीनिवासं च वल्मीकस्थानमाश्रितं व श्व्संतं दीर्घनिश्वानं रुदंतं नेत्रबिंदुभिः ॥३॥
अभाषमाणं श्रीखांतं बभाषे बकुला शुभा ॥ बकुलोवाच ॥ उत्तिष्ठोत्तिष्ठ गोविंद किं शेष पुरुषोत्तम ॥४॥
न कदाचिद्दिवा स्वापो न कृतं रोदनं हरे ॥ किमर्थं दुःखमेतत्ते आर्तवदृश्यसे कुतः ॥५॥
मनोगतं वा किम देव तद्वदस्व यथार्थतः ॥ परमान्नं कृतं देवं भोक्तुमागच्छ माधव ॥६॥
बकुलावचनं शृत्वा नोवाच वचनं हरिः ॥ हरिं दृष्ट्वा हिरण्यांगी पुनर्वाक्यमुवाच सा ॥७॥
किं दृष्टं विपिने कृष्ण किमर्थं दुःखमुल्बणम् ॥ आर्तिहिनोऽपि त्वं देव आर्तवद् दृश्यसे कुतः ॥८॥
मनोगतं वदादेशं गौरवं मयि मा कृथाः ॥ गौरवं बलरामस्य देवकीवसुदेवयोः ॥९॥
दुःखं भवति त्वां दृष्ट्वा ह्यभुक्तं भूतभावन ॥ सर्वलोकार्तिसंहर्तः पुण्यमूर्ते नमोस्तुते ॥१०॥
का दृष्टा भुवि कन्या वा गांधर्वी वासुरोत्तम ॥ कस्याः संगं समापेक्ष्य चित्तवैकल्यमद्य ते ॥११॥
का च पुण्यवती बाला बालं भक्तवशं हरिम् ॥ मोहयामास कामार्ता न जानामि जगद्गुरो ॥१२॥
वद गोविंद ते कार्यं क्षणमात्रात्करोम्यहम् ॥ मृगं दृष्ट्वा भयं प्राप्तं चौरं वा क्रूररूपिणम् ॥१३॥
पिशाचभूतप्रेतान्वा न जानामि रमापते ॥ मंत्रं वा यंत्रपूगान्वा मूलिकाद्यौषधान्यपि ॥१४॥
कारयित्वा यथाशास्त्रं तत्त्सर्वं मोचयाम्यहम् ॥ इत्युक्तेऽपि हरौ तूष्णीं स्थिते बकुलमालिका ॥१५॥
आनीतं तत्र निक्षिप्य तत्समीपमुपागता ॥ पादसंहननं कृत्वा शयानस्य जगत्पतेः ॥१६॥
सांत्वयन्त्या तया भक्त्या स्विन्नं देहं समंततः ॥ आपादमौलिपर्यंतं कराभ्यां परिमृज्य च ॥१७॥
बोधितोऽपि रमाकांतो नोवाच वचनं यदा ॥ तदा सा बकुला खेदादुबाच वचनं हरिम् ॥१८॥
पृथक्कृत्वा छान्नवस्त्रं हस्तेन परिमूज्य च ॥ देव देव जगन्नाथ पुराणपुरुषोत्तम् ॥१९॥
मनोगतं करिष्यामि नात्र कार्या विचारणा ॥ सत्यं वद मनस्थं ते मा लजां मा भयं कृथाः ॥२०॥
पूरयाम्यविलंबेन यावन्मे वर्तते बलम् ॥ इति तद्वचनं श्रुत्वा हरिरुष्णं समुच्छ्वसन् ॥ उवाच चातिदुःखेन् मंदंमंदं मनोगतम् ॥२१॥
श्रीनिवास उवाच ॥ नामोहयन्मां गान्धवी नर्षिपुत्री न राक्षसि ॥ न पिशाचा भूतगणाः प्रेता वा मे भयावहाः ॥२२॥
मृगाश्चारण्यकाश्चोरा न क्रूग मे कदाचन व मन्नामस्मरणादेते विद्रवंति दिशो दश ॥२३॥
ततस्तेभ्यो भयं नेह मृत्युमृत्योर्ममानघे ॥ मया दृष्टा वरा कन्या नाम्ना पद्मावती शुभा ॥२४॥
तां दृष्ट्वा मे मनो भ्रांतं काममोहवशं गतम् ॥ सुरूपां सुंदरी सुभ्रूं नीलालकविराजिताम् ॥२५॥
पूर्णैदुसदृशी श्यामां नीलमाणिक्यविग्रहाम् ॥ साक्षाद्रमासमाकन्या घटयाशु वरानने ॥२६॥
जन्मजन्मार्जितेनैव पुण्येनैषा हि लभ्यते ॥ मत्पुण्यं पक्वतः प्राप्तः दर्शनेन सुलोचने ॥२७॥
मानवं देहमसाद्य तां कन्या कः पुमांस्त्यजेत् ॥ विना जडमति लोके अन्नपानविवर्जितम् ॥२८॥
किमनित्येन देहेन कार्यहीनेन मे सखे ॥ घटयाशु वरांगी तां आकाशनृपनंदिनीम् ॥२९॥
तां विना न हि जीवामि सत्यमित्यवघारय ॥ ताडितोऽहं शिलावपैर्हताश्वोऽपि वरानने ॥३०॥
मज्जीवनं तदर्थाय जनितं वेंकटाचले ॥ यतोऽभूदवतारोऽत्र पद्मावत्यर्थमेव मे ॥३१॥
पुत्रो मे वैरमापन्नः किं कृतं पूर्वजन्मनि ॥ दृष्टिहीने विधिना निर्मिता कन्यका वरा ॥३२॥
अनायासेन मे भूयादिति मे निश्चित मतिः ॥ किं दृष्टं ब्रह्मणा पूर्वं मत्पापं घोरदर्शनम् ॥३३॥
यत्पापमनुसृत्येव घटन नाकरोद्विधिः ॥ मद्भागस्थो विधिस्तवं हि साहाय्यं कुरु मेंऽगने ॥३४॥
न करिष्यसि चेद्बाले तदा मे मरणं ध्रुवम् ॥ मरणे जीवनोपायं ये कुर्वंति नरोत्तमाः ॥३५॥
ते दिवं यांति यानेन पुण्यमार्गेण कन्यके ॥ इत्थं धर्मार्थमासाद्य धर्ममार्गमुपाश्रय ॥३६॥
किमुक्तेन विशेषेण सधयास्याश्च संगमम् ॥ त्वं मे माता पिता देवी भ्राता मातुल एव च ॥३७॥
त्वं प्रल्हादस्त्वमक्रुरस्त्वं ध्रुवस्त्वं गजेश्वरः ॥ त्वमुद्धवो मे भक्तश्च त्वं किरीटी बलिस्तथा ॥३८॥
अजामिलो द्रौपदी च भक्तो मे त्वं विभीषणः ॥ एते प्राणसमा भक्ता अन्येभक्ताश्च ये च ते ॥३९॥
सर्वे त्वमेव बकुले एतत्कार्यं समाचर ॥ त्वां दृष्ट्वा मे मनोहर्षं गच्छति स्म निरंतरं ॥४०॥
मद्दुःखव्यपनोदाय निर्मिता हरिणांगना ॥ गवां कोटिसहस्त्राणां हयानामयुतं तथा ॥४१॥
सुवर्णतिलदानानां समं मांगल्यबंधनम् ॥ कन्या दृष्ट्वाऽतिसंतोषं लभते नात्र संशयः ॥ इति तेन समाज्ञप्ता बकुला वाक्यमब्रवीत् ॥४२॥
बकुलोवाच ॥ कुत्रास्ते जगदाधार त्वया याऽत्र निरीक्षिता ॥ तन्मार्गं वद गोविंद गच्छामि करुणानिधे ॥४३॥
का सा पूर्वं किमर्थं च कन्यका जनिता भुवि ॥ तद्वृत्तमखिलं ब्रूहि सत्येन मम केशव ॥४४॥
तयाऽऽज्ञप्तो विरिंचीशविनतांघ्रिसरोरुहः ॥ उवाच वचनं मंदं बकुलां धरणीसखीम् ॥४५॥
श्रीनिवास उवाच ॥ शृणु बाले पुरा वृतं पद्मावत्या जनिं शुभाम् ॥ त्रेतायां रामरूपेण अवतारमुपागतः ॥४६॥
पितृमातृवचः श्रुत्वा दंडकारण्यमागतः ॥ लक्ष्मणेन सहभ्रात्रा सीतया भार्यंया शुभे ॥४७॥
पुरा तु रावणो नाम राक्षसो लोककंटकः ॥ लोकभर्तुः सती ह्रत्वा लंकां गंतुमवर्तत ॥ लक्ष्मनोप्यग्रजं द्रष्टुं सीतया प्रेरितो वने ॥४८॥
तत्कालमालक्ष्य स राक्षसेंद्रो विमानमारोपयितुं हि सीताम् ॥ प्रावर्वतैषा च तदा रुराव हा राम हा लक्ष्मण राघवेति ॥४९॥
तदार्तरावेण तदा वनौकसौ विचक्रुशुस्तत्र वनांतरस्थिताः ॥ तद्बाक्यमाकर्ण्य हविर्भुजोऽपि पाताललोकादपतद्धरातलम् ॥५०॥
समायांतं दुराधर्षमाकर्षतं च जानकीम् ॥ संभाष्य रावणं क्रूरं पातालदुपगम्य च ॥५१॥
रावणेन सुपापेन सहितः सीतया सह ॥ रावणं बोधयामास नानावाक्यगणैः सह ॥५२॥
इयं जनकपुत्री न विप्रपत्नी नरेश्वर ॥ राघवस्त्वद्भयाद्दक्षो जानकी मम सन्निधौ ॥५३॥
संस्थाप्य विपिने रामः संचरन्सह लक्ष्मणः ॥ शिष्योऽसि परमोऽदार मम कल्याण रावण ॥
प्रियोऽसि मा गमो विप्रपत्न्यां सीताभ्रमो वृथा ॥ इति प्रतारयन्रक्षच्छद्मना जनकात्मजाम् ॥५४॥
इत्थं स्वलोकमादाय तां संपूजयितुं द्रुतम् ॥ स्वाहायां सन्निवेश्याथ नाम्ना वेदवती शुभाम् ॥५५॥
सीताकृतिं ततः कृत्वा मायया मेषवाहनः ॥ प्रदर्शन्नुवाचाथ रावणं प्रीणयन्निव ॥
इमां सीता समादाय गच्छ शीघ्रं निशाचर ॥ हरावग्नो विशेषेण भक्तिर्वै रावणस्य च ॥५६॥
तस्मादग्निवचः श्रुत्वा जानकी मनसा स्मरन् ॥ अज्ञानान्मन्यमानोऽसो रावणो मोहदर्पितः ॥५७॥
लंका गत्वाऽशोकवने शिंशपावृक्षमूलतः ॥ स्थाप्य सीताकृतिं क्रुरो विष्ण्वाविष्टा स राक्षसः ॥५८॥
कृतकृत्यं तदात्मानं अने वै कालचोदितः ॥ रामो गत्वा तु तं हत्वा रावणं सगणं खलं ॥
सीता प्राप्य जगन्नाथस्त्वयोध्यां पर्यपद्यत ॥५९॥
तां तु लोकपवादेन सीतामग्नौ प्रवेश्य च ॥ सीताद्वंद्वं तदा दृष्ट्वा उवाच निजभामिनीम् ॥६०॥
का सा देवी तव समा तव रूपसमन्विता ॥ न जानेऽहं वरांगी तां तव बिंबनिभां शुभाम् ॥६१॥
राघेवणैव मुक्ता सा जानकी वाक्यमब्रवीत् ॥ जानक्युवाच ॥ मदृदुःख हि तया भुक्तं निर्निमितं दयाजुषा ॥६२॥
नाम्ना वेदवती चेयं स्वाहायाः सन्निधौ स्थिता तामंगीकुरु गोविंद विवाहविधिपूर्वकम् ॥६३॥
इति सीतावचः श्रुत्वा रामो वचनमब्रवीत् ॥ श्रीराम उवाच ॥ एकपत्नीव्रतं मेऽद्य कृतं जानासि भामिनी ॥६४॥
द्वापरेंगीकरोमीति बहूनां वरदो यतः ॥ तव वाक्यं करिष्यामि अष्टाविंशतिमे कलौ ॥६५॥
तावदेषा ब्रह्मलोके ब्रह्मणा पूजिता भवेत् ॥ श्रुत्वा दाशरथेर्वाक्यं जगाम भवनं विधेः ॥६६॥
कारणं पद्मवत्यास्तु भणितं तव सुव्रते ॥ न मे वाक्यमसद्भूयादिति वेदविदो विदुः ॥६७॥
शृत्वा तज्जननं कर्म बकुलाऽऽनंदनिर्भरा ॥ कौतूहलसमाविष्टा श्रीनिवासमभाषत ॥६८॥
बकुलोवाच ॥ गच्छामि राजेंद्रसभा सभासदैः संपूर्णसर्वार्थविशारदैर्युताम् ॥
आकाशराजस्य पुरी सुरोत्तमैः संस्तूयमानां च रमाविगूहिताम् ॥
इत्येवमुक्तो भगवाञ्जगद्गुरुः संप्रेषयिष्यन् बकुलां स्वकारणात् ॥६९॥
दिव्यां तुरंगीमास्थाय निर्मितां देवमायया ॥ मार्गं विज्ञातुकामा तमाप्रष्टुं बकुलांऽवदत ॥७०॥
बकुलोवाच ॥ मार्गं वद रमानाथ गच्छामि नृपपुंगवम् ॥ श्रीनिवास उवाच ॥ अस्मादेव वरान्मार्गादवरुह्य गिरेस्तटात् ॥७१॥
पर्वताधःप्रदेशे च कपिलापूजितः शिवः ॥ तत्रास्ते तीर्थराजोऽसौ कपिलेश्वरसन्निधौ ॥७२॥
तत्र स्नात्वा यथायोग्यं मदर्थ्म तीर्थपुंगवे ॥ कपिलेश्वरमासाद्य याच्यतां वरयव्ययम् ॥७३॥
श्रीनिवासो दयासार वदते नमनं तव ॥ कल्याणं कुरु मे देव शिवशंकर ते नमः ॥
ततः शुक्रं समासाद्य दंडवत्पतनं कृतम् ॥७४॥
श्रीनिवासेन बालेन सदा कल्याणकांक्षिणा ॥ प्रेषिताऽहं तदर्थं वै कुरु मेऽभीप्सितं प्रियम् ॥७५॥
एवमुक्त्वा शुक्रं देवि ततः पद्मतटं गता ॥ तत्रासाते कृष्णरामौ तौ नत्वा भक्तिभावतः ॥७६॥
पद्मतीर्थसमुद्भूतैः कमलैः कमलानने ॥ पूजां कुरु मदर्थं तु भ्रातृभूतौ हि मे मतौ ॥७७॥
सुवर्णमुखरी तीर्त्वा तत्र गच्छ यथासुखम् ॥ उचितं कुरु कल्याणि कन्यार्थं कमलानने ॥७८॥
आज्ञप्ता देवदेवेन बकुला लोकभर्तृणा ॥ जगाम शनकैः शेषशैलादुत्तीर्य चांगना ॥७९॥
यथोक्तं श्रीनिवासेन तच्चकार तदाबला ॥ हयमारुह्य बकुला सुवर्णमुखरी तदा ॥८०॥
तीर्त्वाऽगस्त्याश्रमं प्राप्य सखीस्तया व्यलोकयत् ॥ शिवालये शिवं द्रष्टुं गतास्ताः शिवमंदिरम् ॥८१॥
तत्र दृष्ट्वा वगः कन्याः का यूयमिति चाब्रवीत् ॥ तया संभाषिता बालाः ऊचुरेनां यथार्थतः ॥८२॥
कन्या ऊचुः ॥ वयमाकाशराजस्य सन्निधानगताः सदा ॥ इतः पूर्वदिने कश्चित्पुरुषं तुरगस्थितम् ॥८३॥
पद्मावत्याः समीपे च संप्राप्तं मन्मथाकृतिम् ॥ दृष्टवत्यो वयं सर्वाः किराताकृतिशोभनम् ॥८४॥
दृष्ट्वा पद्मावती भीत्या ज्वरतापविमूर्च्छिता ॥ तत्तापस्योपशान्त्यर्थं वयं राजाज्ञया त्विह ॥८५॥
अगस्त्येशाभिषेकार्थं वसामोद्य समागताः ॥ इदानी कन्यकारूपां त्वां तु वीक्ष्यामहे वियम् ॥ इति तद्वचनं श्रुत्वा बकुला वाक्यमब्रवीत् ॥८६॥
बकुलोवाच ॥ कोऽसो किरातरूपी च भवद्बिः संगतः कुतः ॥ वदध्वं कन्यकाः सर्वास्तद्वृत्तमखिलं मम ॥८७॥
कन्यका ऊचुः ॥ सहिताः पद्मावत्या च कदाचिद्वनमागताः ॥ पुष्पावचयनं कर्तुमारब्धास्तद्वनांतरे ॥८८॥
तत्र कश्चित्पुमान्प्राप्तो विचित्रतुरगारुहः ॥ अस्माभिः कथितं तेनाप्यवाच्यवचनं रुषा ॥ तच्छुत्वा तनया राज्ञो रुष्टा वचनमब्रवीत् ॥८९॥
तयोः कलहमापन्नं कदने ताडितो हयः ॥ निपपात तदाऽश्वस्तु शिलाभिर्हतचेतनः ॥९०॥
स घोटं संपरित्यज्य जगामोत्तरदिङ्मुखः ॥ गते किराते कमलोद्भवाऽबला मूर्च्छामुपागम्य पपात भूमौ ॥९१॥
कन्यां ततस्तामुपवेश्य याने वयं स्वकं राजपुरं गताः स्म ॥ तामागतां यानगतां सुतां नृषो चिम्तामुपागम्य रुरोद दीनः ॥९२॥
अंके निधायात्मसुतां प्रपश्यन्मुखं मुदा हीनमभाष्यमाणाम् ॥ किं वाऽभवन्मे दुहितुर्दुरासदा बिभीषिका विश्वविनाशका च ॥९३॥
तस्या विनाशं स हि जानते गुरुस्तमाव्हयत्तत्र सुतेन शीघ्रम् ॥ तद्वाक्यमाकर्ण्य गुरुर्धरातलं शीघ्रं प्रपन्नो निजमंदिरं च ॥९४॥
प्राप्तं गुरुं प्राणमिवागतं नृपः प्रायेण पुण्यं परिपक्वमागतम् ॥ दत्वाऽऽसनं रत्नमयं समर्च्य सुसाधनैः सार्घ्यसुपुष्पभोजनैः ॥९५॥
कृत्वातिथ्यं विप्रवरं बभाषे सुतानिमित्तं गगनाभिधो नृपः ॥ तद्वाक्यमाकर्ण्य गुरुः सुतां गुरुः प्रशांतयन्वाक्यमुवाच भूमिपम् ॥९६॥
बृहस्पतिरुवाच ॥ दुहितुस्तेऽद्य संकष्टनिमित्तं शृणु भूमिप ॥ पुष्पार्थं तु गता बाला भीता पुरुषदर्शनात् ॥ तस्माच्छांति प्रवक्ष्यामि अभिषेकं शिवस्य च ॥९७॥
अगस्त्येशस्य वै राजन् रुद्रैकादशभिस्तदा ॥ एवमुक्तोऽथ गुरुणा राजाप्यस्मान्समादिशत् ॥९८॥
संपाद्य सर्वसंभारान्यूयं विप्रैः समन्विताः ॥ मत्पुत्री ज्वरतापेन शयाना निजमंदिरे ॥९९॥
तच्छांत्यर्थं वयं प्राप्ता अभिषेकार्थमंगने ॥ धिषणेन समाज्ञप्ता द्विजवर्याः समागताः ॥१००॥
तेषां संगात्समायाताः कैलासपतिमंदिरम् ॥ श्रुत्वा तद्वचनं देवी बकुलाऽऽनंदनिर्भरा ॥१॥
अहो धिगात्मानुभवस्य विष्णोः प्रभां न जानेऽद्य पुराणपुंसः ॥ कृष्णं मुकुंदं तनयेति मत्वा वृथा शरीरं पुनरागतं मम ॥२॥
कन्या ऊचुः ॥ त्वं कुत्र गच्छसे बाले किमर्थं त्वमिहागता ॥ वदादेशं वरांगि त्वमिति ताभिः सुभाषिता ॥३॥
बकुलोवाच ॥ शृण्वंतु कन्यकाः सर्वाः मद्वाक्यमविचारतः ॥ अहं श्रीवेंकटेशस्य दासीभूतास्मि सांप्रतम् ॥४॥
धरण्या राजभार्यायाः समीपे कार्यमस्ति मे ॥ नारायणपुरं दिव्यमभेद्यं परदेशिभिः ॥५॥
भवतां संगमात्रेण करिष्येन्तःप्रवेशनं ॥ इत्थमुत्वा च सा बाला कन्याभिश्चापतत्पुरम् ॥६॥
एवं गतायां तस्यां तु न विश्वासमगाद्धरिः ॥ एकपुत्रो ह्यपुत्रस्तु एकनेत्रो ह्यनेत्रवान् ॥७॥
स्त्रीभिश्च यत्कृतं कार्यं न तदर्थफलप्रदं ॥ इति संचिंत्य गोविन्दो मायावी कामरूपवान् ॥८॥
स्वयं श्रीवेंकटाधीशो वनितांरूपमाश्रितः ॥ पुलिंदो वेषधारी स चक्रे तद्वेषभूषणम् ॥९॥
चीरवस्त्रं ततो वध्वा छिद्रकंचुकरंजितः ॥ ब्रह्माणं च शिशुं कृत्वा यष्टिं कृत्वा महेश्वरम् ॥ ब्रह्माण्डं जगदाधारं त्रैगुण्यं गुल्ममेव च ॥११०॥
विकीर्य केशपुंखानि तथा पंचशतायुषा ॥ गुंजामणिविभूषांगा शंखबद्धसुहारिका ॥११॥
वेणुगुल्मं स्वशिरसि नवधान्यप्रपूरितम् ॥ लंबोदरी लंबकर्णा लंबितात्मपयोधरा ॥१२॥
अदंता शुष्कवदना सा बाला धर्मदेवता ॥ ब्रह्माणं नाभिसंभूतं सप्तमासात्मकं शिशुम् ॥१३॥
रुदंत शुष्कवदनं कृशांगं दीर्घबाहुकम् ॥ शिशुं बध्वा चीरवस्त्रे नृत्यंती जगदीश्वरी ॥१४॥
यष्टिं धृत्वा करे चागात्सा बाला धर्मदेवता ॥ नारायणपुरं प्राप्ता नारदाब्जजवंदिता ॥१५॥
पुरी समागत्य च गर्जयंती सुतान्पतीन्बंधुगणान्ददामि ॥ श्रुत्वा वचस्तद्गदितं पुरस्त्रिय ऊचुस्तदा तां नृपवल्लभा प्रति ॥१६॥
ग्रामिका ऊचुः ॥ धर्मदेवी समायाता नरनारायणाश्रमात् ॥ वृद्धा सा वर्तते ह्येषा मितभाषीव दृश्यते ॥१७॥
मनोगतं वदामीति वदति स्म पुनः पुनः ॥ तामानय महाभागे या बाला धर्मदेवता ॥१८॥
ताभिः समाभाषितचित्तवृत्तिरुवाच वाक्यं स्वसखीगणेभ्यः ॥ तामाव्ययत्तत्र सखीभिरादरात्सं प्राप्तबाग्याहमिति स्मंरति ॥१९॥
आज्ञप्ता धरणीदेव्या आगतास्ता वरांगनाः ॥ ऊचुस्तामग्रगास्सर्वा तां बालां धर्मदेवताम् ॥
याहि मंगलदे देवी राजभार्यांतिकं त्वरात् ॥१२०॥
सा श्रुत्वा वचनं तासां मंदमाह मनस्विनी ॥ धर्मदेव्युवाच ॥ अहं दरिद्रा कुटिला सा बाला भाग्यसंयुता ॥२१॥
आव्हानं च विनोदार्थं हास्यार्थं हसितानना ॥ मद्वस्त्रं मत्सुतं पश्य मदाभरणमंडलम् ॥२२॥
नवधान्यसमाकीरं गुंजामणिविभूषितं ॥ अन्नहीनं शिशुं मां च दृष्ट्वा हास्यार्थमेव च ॥२३॥
नागमिष्ये विशालाक्ष्यः किं कार्यं राजमंदिरे ॥ धर्मदेवीवचः श्रुत्वा जग्मुस्ता धरणीं प्रति ॥२४॥
तथोक्तं चाक्दन्बाला धरणी साऽपि तां ययौ ॥ धरण्युवाच ॥ याहि भद्रे महाभागे साक्षात्त्वं धर्मदेवता ॥२५॥
दैवयोगादागताऽसि मम कल्याणवर्धिनि ॥ भाषिता राजपत्न्या सा सत्यमाह धरां प्रति ॥ धर्मदेव्ययुवाच ॥
मया हि गदितं वाक्यमसत्यं चेन्मनस्विनि ॥२६॥
पुरान्निष्कास्य मां देवि छेदनं करयोः कुरु ॥ कठिणं मम वाक्यं तु ह्यसत्ये हस्तछेदनम् ॥२७॥
नरनारायणः श्रीमान् भर्ता मे राजवल्लभे ॥ तदीर्यजातुपुत्रस्तु प्रजापतिमिमं विदुः ॥२८॥
तेनाज्ञप्तातिवेगेन संप्राप्ता तव मंदिरं ॥ भूतभव्यभविष्यं च वदामि जगदीश्वरि ॥२९॥
इत्युक्ता धर्मदेव्या सा राजपत्नी पतिव्रता ॥ सांत्वयित्वा महाराज्ञी धरणी धर्मदेवताम् ॥१३०॥
संप्राप्य भवनं राज्ञे धर्मदेव्या धरा सती ॥ रत्नासने समारोप्य तां बालां धर्मदेवताम् ॥३१॥
सुस्थिरा वचनं प्राह मंदं मंदं मुदान्विता ॥ धर्मदेव्युवाच ॥ मज्जनं कुरु कल्याणि शुभ्रवस्त्रा सुकुंचका ॥३२॥
गुरुदेवनमस्कारं कुरु देवि हरिप्रियम् ॥ एवमुक्ताऽथ कल्याणि तथा चक्रे यथोदिता ॥३३॥
तस्याश्चाभिमुखी भूत्वा पश्चाद्वाक्यमुवाच सा ॥ धरण्युवाच ॥ किं कार्यं वद भद्रेऽहं करोमि तव शासनात् ॥३४॥
पुलिंदोवाच ॥ वायनं देहि कल्याणि देवानां मम पूर्विणाम् ॥ स्वर्णशूपं समापूर्य मुक्तातंदुलपूर्वकैः ॥३५॥
निक्षिप्य बहू भक्त्यैव धर्मदेविऽवचोऽब्रवीत् ॥ सत्यं वद महाप्राज्ञे मम दुःखं प्रणोदय ॥ धरणीवाक्यमाकर्ण्य धर्मदेवी वचोऽब्रवीत् ॥३६॥
धर्मदेव्युवाच ॥ सत्यं वदामि धर्मज्ञे शिशोरन्नं प्रयच्छ मे ॥ अहःकृतं रात्रिकृतं सुपक्वं रससंयुतम् ॥३७॥
श्रुत्वा तद्वचनं रम्यं पुत्रेणानीय भामिनी ॥ क्षीरान्नं स्वर्णपात्रस्थमर्भकस्य ददौ नृप ॥३८॥
तं दृष्ट्वा स्वर्णपात्रस्थं मानुषान्नं न भुक्तवान् ॥ रुरोद स शिशुस्तया धर्मदेव्याश्च भूमिप ॥३९॥
रुदंतमात्मजं दृष्ट्वा विनिंद्य प्रत्यताड्य च ॥ दरिद्रोऽसि दुराचार कंदमूलफलाशन ॥१४०॥
कथन्नु भोक्ष्यसे मृष्टं क्षीरान्नं राजनिर्मितम् ॥ कदापि रोदनं मातः किं करिष्यामि भूमिपे ॥४१॥
इति तं भर्त्संयित्वऽथ स्वयं भूक्त्वान्नमुत्तमम् ॥ ममोदरगतं चान्नं पुत्रस्य हितकारणम् ॥४२॥
इत्युक्त्वा भोजनं चक्रे धर्मदेवी नृपोत्तम् ॥ क्षीरान्नं भोजनं कृत्वा स्वस्थचित्ताभवत्तदा ॥४३॥
सत्यं वदामि सुश्रोणि तांबूलं देहि मेंऽगने ॥ इत्युक्ता धरणी देवी धर्मदेव्या पुलिंदया ॥४४॥
एलालवंगकर्पूरनागवल्लिदलैर्युतम् ॥ तांबूलमर्पयामास पुलिंदायै पतिव्रता ॥४५॥
सा पूर्वाभिमुखी भूत्वा पुत्रमंके निधाय च ॥ पुरतो गुल्ममास्थाय पादावास्तीर्य संस्थिता ॥४६॥
एवं रूपं गत कृष्णं श्रीनिवासं सुरोत्तमाः ॥ द्रष्टुकामास्समायाता वैखरीं प्राकृतोचिताम् ॥४७॥
सदाराश्च स पुत्राश्च सविमानगणास्तथा ॥ अन्योयं भारतीं प्रोचुः संभ्रमात्कौतुकान्विताः ॥४८॥
किं तया सुकृतं राज्ञा कृतं पूर्वं ययाधुना ॥ लक्ष्मीसहायो भगवान् क्रीडते प्राकृतो यथा ॥४९॥
एवं हरिश्चित्रचरित्रकर्म गायंति कंजोभ्द्रवशंभुशक्राः ॥ कलौ युगे पापकृतां नराणामुद्धारणार्थं जगदीशचेष्टा ॥१५०॥
इति श्रीमद्भविष्योत्तरपुराणे श्रीवेंकटेशमहात्म्ये श्रीनिवासस्य पुलिंदीनीरूपवर्णनं नाम अष्टमोध्यायः ॥८॥
श्रीवेंकटेशार्पणमस्तु ॥