राजोवाच ॥
किमर्थ शप्तवान्देव अपराधविवर्जितम् ॥ अविचार्य जगन्नाथ किं मया चरितं पुरा ॥१॥
न जानेऽहं किंचिदपि तव दुःखकरं हरे ॥ हा दुःखतुलं प्राप्तं कथमत्र जगत्पते ॥२॥
इति तेन समाज्ञप्तः श्रीनिवासोऽदिदुःखितः ॥ उवाच वचनं मंदं राजानं शापमूर्च्छितम् ॥३॥
श्रीनिवास उवाच ॥ पापिष्ठोऽहं दुराचार अविचार्य नृपोत्तम ॥ अज्ञानेनातिदुःखेन वृथा शापो मयार्पितः ॥४॥
मच्छापो नानृतो भूयादिति वेदविदो विदुः ॥ भक्तवात्सल्यदोषेण दुःखितोऽस्म भृशं नृप ॥५॥
यावत्कलियुगं तिष्ठेत्तावद्दुःखी भव प्रभो ॥ उभौ दुःखसमापन्नौ सत्यसंकल्पदोषतः ॥६॥
भविष्यति नृपश्रेष्ठः आकाश इति नामवान् ॥ सोऽपि दास्यति मे कन्यां नाम्ना पद्मावती शुभाम् ॥७॥
कन्याप्रदानकाले तु ददाति वरदक्षिणाम् ॥ किरीटं शतभारं तु रत्नवज्रसमाकुलम् ॥८॥
शुक्रवारे तु सायान्हे किरीटं धारयाम्यहं ॥ किरीटधारणे काले नेत्रे मे जलपूरिते ॥९॥
घटिका षड्कमात्रं ते सुखं तत्र भविष्यति ॥ इति कालावधं कृत्वा राज्ञः स्वस्य च माधवः ॥
सुखस्य कालं संसूच्य स्वावतारप्रयोजनम् ॥१०॥
इति संभाष्य राजानं तत्रास्ते भगवान्हरिः ॥ क्षतशांति समाकांक्षन्वैद्यशास्त्रविशारदम् ॥११॥
गुरुं सुरपतीनां च सस्मार जगदीश्वरः ॥ आगतं स्वर्गुरुं दृष्ट्वा औषधं वद मे दुतम् ॥१२॥
इति तेन समाज्ञप्तो जीवो जीववतां वरः ॥ गुरुरुवाच ॥ क्षीरमौदुंबरं देव तथा कार्पासमर्कजम् ॥१३॥
संमिलित्वा रमाकांत तत्क्षतोपरि धार्यताम् ॥ इत्येवं गुरुणाज्ञप्तस्तच्चकार यथातथम् ॥१४॥
एवं कुर्वन्नमाथस्तत्रास्ते भगवान् हरिः ॥ कौसल्या कीटकगृहं तित्रिंणी दशदिग्रथः ॥१५॥
गिरिरूपोऽनुजः साक्षादयोध्याभूदधित्यका ॥ इत्थं रामावतारेण ह्यवतारमचीक्लृपन् ॥१६॥
वल्मीको देवकी साक्षाद्वसुदेवोऽथ तिंत्रीणी ॥ बलभद्रः शेषशैलो मथुरा भुदधित्यका ॥१७॥
स्वामिपुष्करणी नाम यमुना च विराजते ॥ यादवाश्च मृगाः सर्वे खगा वै गोपिकादयः ॥१८॥
एवं श्रीकृष्णरूपेण क्रीडते वेंकटाचल ॥ अरायकाणे विकटे गिरि गच्छ सदान्वये ॥१९॥
एवं वेदमयः साक्षाद्निरींद्रः पन्नगाचलः ॥ स्वदेहच्छन्नवल्मीको वैंकुंठादधिकोह्यभूत् ॥२०॥
सुवर्णमुखरी नाम नदी सा विरजा नदी ॥ वैकुंठो वेंकटगिरिर्वासुदेवो रमापतिः ॥२१॥
मुक्तब्रह्मा पक्षिगणा मुक्तरुद्रा मृगोत्तमाः ॥ सनत्कुमारप्रमुखा वानराद्या द्विजोत्तमाः ॥२२॥
मानुषं देहमासाद्य यः पुमान्वेंकटाचलम् ॥ गंतुमिच्छति धर्मिष्ठस्तेन सर्वमनुष्ठितम् ॥
प्रीतो भवेद्रमानाथः सर्वदेवनमस्कृतः ॥२३॥
श्रीवेंकटाद्रेर्महिमानमुत्तमं जानंति न ब्रह्मशिवेंद्रपूर्वकाः ॥ किमल्पवीर्या मनुजाः सृतिस्था जानंति विष्णोः स्थलमद्भुतं च ॥२४॥
इति श्रीमद्भविष्योत्तरपुराणे श्रीवेंकटेशमाहात्म्ये पर्वतवर्णनं नाम चतुर्थोऽध्यायः ॥४॥
श्रीवेंकटेशार्पणमस्तु ॥