॥ श्रीजनक उवाच ॥
मरुत्प्राहाहिराजानं भगवानागमिष्यति ॥ इति त्वयोदितं पूर्वं तन्ममाचक्ष्व विस्तरात् ॥१॥
कथं नारायणः प्राप्तः कस्माद्वा कारणान्मुने ॥ तत्रागत्य कृतं कर्म तन्ममाचक्ष्व भृसुर ॥२॥
कथं वैकुंठलोकं तु त्यक्तवान्पुरुषोत्तमः ॥ चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥३॥
वराहरूपिणो विष्णोर्माहात्म्यं वद विस्तरात् ॥ आकाशराजचरितं भ्रातुस्तस्य महात्मनः ॥४॥
यस्य पुत्री रमादेवी जामाता च जगत्पति ॥ देवानां च ऋषीणां च देवस्त्रीणां समागमः ॥५॥
शतानंद उवाच ॥ पुरा तु ऋषय सर्वे कश्यपाद्या मुनीश्वराः ॥ सुमखं जान्हवीतीरे संतोषाच्चकिरे द्विजाः ॥६॥
तस्मिन्काले मुनिश्रेष्ठो नारदो मुनिसत्तमः ॥ उवाच वचनं विप्रान्किमर्थं यज्ञमुत्तमम् ॥७॥
को भुङ्ते यज्ञसुफलं को वाऽध्वर्युश्च देवता ॥ कृतं यज्ञफलं कस्य चार्प्यते मुनिपुंगवाः ॥८॥
इति नारदवाक्यं तु श्रुत्वा ते मुनिपुंगवाः ॥ संशयार्थं समापन्नाः कथमत्र विचार्यताम् ॥९॥
संमिलित्वा तदा सर्वे भृगुं ब्रह्मविदां वरं ॥ तम्चुर्भक्तिनम्रांगाः कृतांजलिपुटा स्थिताः॥१०॥
गच्छ शीघ्रं महाबुद्धे परं वेत्तु सुरोत्तमम् ॥ इति तेषां वचः श्रुत्वा भृगुः जजमंदिरम् ॥११॥
तत्र दृष्ट्वा महाबाहुं साक्षाद्ब्रह्माणमग्रजम् ॥ चतुर्मुखमुदारांगं सरस्वत्यानुसेवितम् ॥१२॥
चतुरास्यसमुद्भूतवेदघोषविराजितम् ॥ दिक्पालगणै सार्धं किरीटमुकुटोज्वलम् ॥१३॥
स्तुवंतं जगदीशानं नारायणमनामयम् ॥ तं नत्वा भक्तिभावेन महादीप्त्या विराजितम् ॥१४॥
पातयामास कायं स्वं पुरतः कंजजन्मनः ॥ पतितंस भृगुं दृष्ट्वा नोवाच वचनं विधिः ॥१५॥
तं मत्वा किंचिदज्ञानमिश्रितं स ऋषिर्ययौ ॥ अलब्ध्वा स्वात्मनः कार्यं कैलासं स ऋषिर्ययौ ॥१६॥
कैलासगिरिमासाद्य तत्र दृष्ट्वा त्रिलोचनम् ॥ कामुकं पार्वतीसार्धं क्रीडतं निजमंदिरे ॥१७॥
तस्मिन्काले तमायांतं नाजानात्कामुको हरः ॥ आगतं सा मुनिं दृष्ट्वा पार्वती लज्जयाऽवदत् ॥१८॥
त्यजं शीघ्रं महाबाहो आगतो मुनिपुंगवः ॥ इति तस्या वचः श्रुत्वा क्रोधताम्रविलोचनः ॥१९॥
हंतुमभ्यद्रवच्छीघ्रं ऋषिः शापान्निराकरोत् ॥ शशाष स ऋषिश्शंभु लोकैस्त्वं नैव पूज्यसे ॥२०॥
त्वच्छिश्नपूजनेनैव लोके ख्याति गमिष्यसि ॥ इत्युक्त्वा स स ऋषिश्चागाद्वैकुंठं हरिमंदिरंम् ॥२१॥
प्राकारगोपुरद्वारनवतोरणभूषितम् ॥ चतुर्दिक्षु चतुर्द्वारपालकैरुपशोभितम् ॥२२॥
तत्र शय्यागृहे दिव्ये शेषमंचकशायिनम् ॥ लक्ष्म्या समेतं देवेशं ददर्श स भृगुस्तदा ॥२३॥
तताडोरसि गोविंदं भृगु पादतलेन तम् ॥ ताड्यमानो हरिः साक्षादुत्थाय विनयान्वितः ॥२४॥
पपात परया भक्त्या ऋषिपादसरोरुहे ॥ आलिलिंगेऽथ भक्त्यैव चोवाच ऋषिपुंगवम् ॥२५॥
श्रीभगवानुवाच ॥ किमर्थं त्वं श्रेष्ठं मच्छरीरं कठोरकम् ॥ अमृतं त्वराजयुक्तम्भेद्यं देवदानवैः ॥२६॥
वज्रादृढतरं विद्धि मच्छरीरं द्विजोत्तम् ॥ किमर्थं ताडितं विप्र कोमलांघ्रितलेन तत् ॥२७॥
पादौ ते कोमलौ दिव्यौ मच्छरीरसमागतम् ॥ कियद्दुःखं समापन्नो न जानामि द्विजोत्तम् ॥२८॥
इत्युक्त्वा द्विजपादौ तौ प्रक्षाल्योष्णोदकेन वै ॥ दधार शिरसा तोयं विप्रपादोद्गतं शिवम् ॥२९॥
सगृहं सकुटुंबं च सर्वलोकं विडंबनम् ॥ विबुघा दर्शनेनैव पुनंति च जगत्त्रयम् ॥३०॥
इत्युक्तो देवदेवेन ऋषिश्चागाद्धरातलम् ॥ ऋषीणामग्रजातीनां सभायां स ऋषिस्तदा ॥३१॥
बोधयामास तान्सर्वान्स तु सर्वोत्तमः स्वयम् ॥ इत्येवं चक्रिरे यज्ञम्र्पणं जगदीशतुः ॥३२॥
हरिः सर्वोत्तमः साक्षाद्मादेवी तदंतरम् ॥ विधिर्वायुस्तदंते च तदंते शर्वपूर्वकाः ॥३३॥
एवं तरतमा ज्ञेयाः सुरदैत्यनरेषु च ॥ इत्येवं बोधिता विप्रा भृगुणा तत्त्ववेदिना ॥
हरि निश्चित्य सर्वेशं चक्रुस्तस्म् मखार्पणम् ॥ ततस्तु भगवान्देव एकंति निजमंदिरे ॥३४॥
रमासार्धं यदा तिष्ठंस्तदोवाच रमा हरिम् ॥ श्रीरमोवाच ॥ गच्छामि देवदेवेश त्यक्त्वा त्वां जगदीश्वर ॥३५॥
ताडितोऽसि जगन्नाथ ऋषिणाऽवरजन्मना ॥ मदालिंगस्थले देव पादेनैव जगत्पते ॥३६॥
करवीरपुरं दिव्यं गच्छामि गरुडध्वज ॥ इति प्रेम्णा च कलहं कृत्वा तु हरिणा सह ॥
रमा जगाम् तत्क्षेत्रं करवीरपुरं प्रति ॥३७॥
यदा गता महालक्ष्मीस्तदा नारायणो हरिः ॥ अष्टाविंशतिमे प्राप्ते द्वापरांते कलौ युगे ॥३८॥
यस्मिन्देशे यदा प्रेमकलहोऽस्याः प्रशाम्यति ॥ कर्मणा येन च यथा तत्तथा च करोम्यहम् ॥३९॥
इति संकल्प्य गोविंदो लीलामानुषविग्रहः ॥ मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् ॥४०॥
गंगाया दक्षिणे देशे योजनानां शतत्रये ॥ सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥४१॥
शुक्रस्य वरदा पुण्या अगस्त्यमुनिपूजिता ॥ तस्या एवोत्तरे तीरे क्रोधार्धद्वयमात्रके ॥४२॥
श्रीवेंकटगिरिर्नाम वर्तते पुण्यकाननः ॥ सुवर्णगिरिपुत्रस्तु सर्वतीर्थसमन्वितः ॥४३॥
साक्षाच्छेषावतारोऽसौ सर्वधातुविराजितः ॥ वैकुंठसदृशो दिव्यो नारायणसमाश्रयः ॥४४॥
शेषमारुतसंवादादगत पुण्यकाननः ॥ योजनत्रयविस्तीर्णस्त्रिंशद्योजनमायतः ॥४५॥
वदनं वेंकटगिरिर्नृसिंहाचलम्ध्यमः ॥ श्रीशैल पुच्छभागस्तु सर्वक्षत्रम्यो गिरिः ॥४६॥
सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ॥ कुंदमंदारपनसप्लक्षोदुंबरकिंशुकैः ॥४७॥
पिचुमंदैः पारिजातैः तिंत्रिणीजंबुमंडलैः ॥ धवलैश्चंदनैश्चूतैः कृष्णागरुविराजितः ॥४८॥
तालहिंतालपुन्नागैर्देवदारुविराजितः ॥ हंसकारंडवाकीर्णो बककोकशुकैर्वृत ॥४९॥
कपोतैः क्षीरहंसैश्च मृगखंडविभूषितः ॥ सिंहशार्दूलशरभक्रोडमातंगवानरैः ॥५०॥
जंबूकैश्चैव भल्लूकैः कस्तूरीमृगवासितः ॥ तुरगैश्च गवां खंडैर्महिषीगणसेवितः ॥५१॥
मल्लिकामालतीजातीनंद्यावर्त्यविराजितः ॥ चंपकाशोकपुन्नागकेतकैः स्वर्णकेतकैः ॥५२॥
एवं मनोहरः श्रीमान्पर्वतः पुण्यकाननः ॥ तरवो दैवतगणा मृगाश्च ऋषिपुंगवाः ॥
पितरः पक्षिणः सर्वे पाषाणा यक्षकिन्नराः ॥५३॥
एवं प्रभावोऽस्य गिरिंद्रजन्मनः श्रीवेंकटाद्रेस्तु हरेस्तथैव ॥ जानंति न ब्रह्मशिवेंद्रपूर्वकाः अत्यल्पवीर्या मनुजास्तु किं पुनः ॥५४॥
इति श्रीमद्भविष्योत्तरपुराणे वेंकटगिरिमहात्म्ये शेषगिरिवर्णनं नाम् द्वितीयोऽध्यायः ॥२॥
श्रीवेंकटेशार्पणमस्तु ॥