ऋषय ऊचुः ॥
सूत सूत महाभाग सर्वशास्त्रविशारद ॥ श्रुतं श्रीवेंकटेशस्य महात्म्यं पापनाशनम् ॥१॥
अवतारप्रभावं च चोलराजनिबंधनम् ॥ वैकुंथाद्गमनं देवचरितं लौकिकं परम् ॥२॥
कृपालोऽसि दयासार शिष्यप्रीतिपरायण ॥ तत्कल्याणविधि ब्रूहि कोवाऽऽकाशो नृपोत्तमः ॥३॥
कथं पुत्र्यभवत्पूर्वं कथं जामातृतां गतः ॥ योगिनां मनसाचिंत्यः श्रीनिवासः सतां गतिः ॥४॥
तत्त्वेन ब्रूहि भगवन् सांगं वैवाहिकं शुभम् ॥ येन संवर्ण्यते तस्य महिमा क्षीरसागरे ॥५॥
स्नानाचारपरो नित्यं स धन्यः पुण्यवर्धनः ॥ एवं मुनीनां वचनं निशम्य सूतो नितांतं निजशिष्यसंघान् ॥
उवाच भक्त्यान्वितनम्रदेहः साधृचितं वाक्यमुदीरयन्सन् ॥६॥
श्रीसुत उवाच ॥ शृण्वंतु मुनयः सर्वे भक्तिभवेन संयुताः ॥ पन्नगाचलनाथस्य कन्यासंग्रहणं शुभम् ॥७॥
कदाचिद्वेंकटेशस्तु औषधार्थं स्वयं हरिः ॥ गमनाभिमुखो भूत्वा निर्जगामारुणोदये ॥८॥
तस्मिन्काले वराहस्तु मृगयार्थः सस्करः ॥ श्यामाकहारिणं जित्वा दैत्यं वृषभनामकम् ॥९॥
यदागतस्तदा देवो ददृशे वेंकटेश्वरम् ॥ गर्जतः कोऽसि कोऽप्तीति सूकरास्तत्र चाययुः ॥१०॥
तान्दृष्ट्वा जगदीशस्तु तत्र लीनोऽभवद्धरिः लीनं तं वेंकटं दृष्ट्वा वराहवदनो हरिः ॥११॥
वैकुंठादागतं मत्वा वेंकटेशं श्रियः पतिम् ॥ उवाच वचनं देवं धैर्यमालंब्य बुद्धिमान् ॥
सोऽपि श्वेतवराहं तं जानन्वल्मीकतस्तदा ॥ निरीक्ष्यमाणं सोत्कंठं निर्गत्योंन्तरमभ्यधात् ततोन्योन्यविलोकोत्थ अश्रुसंदिग्धलोचनौ ॥१२॥
क्रोडनारायणौ साक्षात्रूपद्वंद-विराजितो ॥ ऊचतुर्भाषणं चोभौ दर्शयंतौ विडंबनम् ॥१३॥
तयोस्तदद्भुतं कर्म दृष्ट्वा ब्रह्मपुरोमाः ॥ ववर्षुः पुष्पवर्षाणि क्रोडनारायणोपरि ॥१४॥
यथा युगं यथा देशं यथा कालं यथा वयः ॥ तथावतारमाकांक्षन् रमते प्राकृतो यथा ॥१५॥
एवं वदंतः सुरपुंगवास्ते विचित्रमायां जगदीशचेष्टितम् ॥ स्तुवंत ऊचुः परमस्य विष्णोरनंतशैलस्य रमापतेश्च ॥१६॥
इत्यन्योन्यं भाशमाणौ साक्षान्नारायणावुभौ ॥ सकौतुकं च संवीक्ष्य स्तुत्वा स्वं स्वं पदं ततः ॥
गते देवगणे तत्र वराहो हरिमब्रवीत् ॥ वराह उवाच ॥ त्यक्त्वा वैकुंठलोकं तु किमर्थं त्वमिहागतः ॥१७॥
तद्वदस्व महाभाग श्रीनिवास वरानन ॥ इति तेन समाज्ञप्त उवाच क्रोडरूपिणम् ॥१८॥
श्रीनिवास उवाच ॥ भूगोरंघ्रिपहाराच्च रमा कोलापुरं गता ॥ तेन दुःखेन संतप्तस्त्यक्त्वा वैकुंठमुत्तमम् ॥१९॥
इहागतो धराकांत वल्मीके तव दक्षिणे ॥ निवसंतं च मां देव धेनुपालो ह्यताडयत् ॥२०॥
कुठारेणासिधारेण तत्क्षतं मां तु बाधते ॥ औषधार्थं वराहास्मिन गच्छामि च निरंतरम् ॥२१॥
दैवेन दृष्टवानस्मि त्वामद्येह धराधरम् ॥ अत्रैव निवसामीति संकल्पो मम वर्तते ॥२२॥
स्थलं देह्यवनीकांत यावत्कलियुगं भवेत् ॥ इति तेन समाज्ञप्तो वराहवदनो हरिः ॥२३॥
उवाच वचनं देवं स्थलं मौल्येन गृह्यताम् ॥ इति वाक्यं ततः श्रुत्वा प्रोवाच मधुरं वचः ॥२४॥
प्रथमं दर्शनं चस्यान्नैवेद्यं क्षीरसेचनम् ॥ इदमेव वर द्रव्यं ददामि करुणानिधे ॥२५॥
दास्यामि यत्ते भूकान्त तदङ्गीकुरु माधव ॥ वरं द्रव्यमिदं तात कृपा कुरु दयानिधे ॥२७॥
इत्युक्ता हरिणा क्रोडो हरये स्थानकांक्षिणे ॥ तदा ददौ हरेः पादशतमात्रं रमापतेः ॥२८॥
परस्परं विनोदंतौ कुर्वाणवेकरूपिणौ ॥ मोहनार्थं ह्यभक्तानां भक्तानां भक्तिसिद्धये ॥२९॥
एवं हि क्रीडते तत्र वराहो वेंकटेश्वरः ॥ तदारभ्य धराकांतो बकुलां षाककारिणीम् ॥३०॥
अर्पयामास देवाय सेवार्थं तां धरापतिः ॥ भोजनार्थं रमेशस्य शामाकान्नं निरंतरम् ॥३१॥
समधु प्रेशयत्यन्नं तया बकुलमालया ॥ सा बाला भक्तिनिरता श्रीनिवासस्य सन्निधौ ॥३२॥
अन्नपानौषधाद्यैश्च पादसंवहनादिभिः ॥ पूजयामास गोविंदं श्रीनिवासं निरामयम् ॥३३॥
ऋषय ऊचुः ॥ श्रुतं सूत महाभाग देवागमनमुत्तमम् ॥ वराहदर्शनं नित्यं वासं वेंकटभूधरे ॥३४॥
बकुला सेवका प्रोक्ता का सा पूर्वं वदस्व नः ॥ सूत उवाच ॥ पुरा यशोदा बकुला कृष्णस्य जननी ह्यभूत् ॥
अदृष्ट्वानंतरूपस्य कृष्णस्य तनयस्य सा ॥३५॥
कल्याणं सुखदं स्वस्य तदयाचत तं हरिम् ॥ यशोदावाच ॥ मनः सीदति मे कृष्ण तव कल्याणवीक्षणे ॥
दर्शयस्व रमानाथ यशोदानन्दवर्धन ॥३६॥
कल्याणादि महापुण्यं पावनं चरितं तव ॥ तथेत्युक्तो रमानाथः सोऽवदन्मधुरं वचः ॥३७॥
श्रीभगवानुवाच ॥ जन्मन्यन्तरे देवि तावकीनं मनोरथम् ॥ श्रीशैले पूरयिष्यामि किंचित्कालादनंतरम् ॥३८॥
देवेनेत्थं दत्तवरा सात्यजत्तेन हेतुना ॥ कलेवरं तु कल्याणी यशोदा नंदवल्लभा ॥३९॥
तस्याः प्रीत्यै वासुदेवो अष्टाविंशतिमे कलौ ॥ आविर्भूय यशोदायास्तोषकैर्गुणकर्मभिः ॥४०॥
क्रीडनास्ते जगद्योनिर्निर्दोषोपीश्वरोऽवसन् ॥ कलौ कल्मषचित्तानां पापाचारपरात्मनाम् ॥४१॥
रक्षणार्थ रमाकाम्तो रमते प्राकृतो यथा ॥ दैत्यानां मोहनार्थाय सुराणां मुक्तिकारणात् ॥४२॥
स्वभक्तानां हितायैव विरक्तानां विशेषतः ॥ मुक्तिमापादयन्देवः क्रीडते प्राकृताकृतिः ॥४३॥
क्रीडते चात्मकैवल्ये जगत्पालकबालकः ॥ जगन्मोहनसौंदर्यलीलामानुषमूर्तिमान् ॥४४॥
न कृतं देवसंघैश्च न कृतं विश्वकर्मणा ॥ स्वेच्छया क्रीदते तत्र इच्छारूपविरार्जितः ॥४५॥
इत्येवं कारणादेव यशोदा बकुलाऽभवत् ॥ सा करिष्यति कल्याणं हरेर्वैकुंवासिनः ॥४६॥
किमलभ्यं हरौ तुष्टे ज्ञानविज्ञानसंपदः ॥ कश्चिद्देवं पूज्यतति कश्चिद्देवेन पूज्यते ॥४७॥
हनूमता पूजितोऽपि स्वयमर्जुनमर्चति ॥ को वर्णयेद्धरेः क्रीडां विचित्रां जनपावनीम् ॥४८॥
नित्यशुद्धस्य वै विष्णोः यतोमुष्याभिवंदने ॥ कृते पुण्यं ऋषीणां तु न कृते दोषसंग्रहः ॥४९॥
तस्मात्पूज्यः सुरैर्यज्ञऋषिभिस्तत्त्वकोविदैः ॥ पितृभिर्मूमिपैर्विप्रैर्मानवैराक्षसैर्जडैः ॥५०॥
कलौ कलुषचित्तानां पापाचारतात्मनाम् ॥ रक्षणार्थं रमाकान्तो रमते प्राकृतो यथा ॥५१॥
दैत्यानां मोहनार्थाय सुराणां मोदनाय च ॥ क्रीडते बालकैर्बालो जगत्पालकबालकः ॥५२॥
जगन्मोहनसौन्दर्यलीलामानुषविग्रहः नैतद्रूपं कृतं देवैर्न कृतं विश्वकर्मणा ॥५३॥
स्वेछया क्रीडते तत्र स्वेच्छारूपविराजितः ॥५४॥
क्षेत्रस्य महिमा दिव्यस्तत्तीर्थस्य च वैभवम् ॥ तत्र साक्षाद्रमाकांतः किं तत्र सुकृतं फलम् ॥
बहुजन्मार्जितैः पुण्यर्लभ्यते क्षेत्रदर्शनं ॥ तत्रापि वेंकटगिरेर्दर्शनं मुक्तिदं परम् ॥ दुर्लभं देवसंघानां मनुष्याणां तु का कथा ॥५५॥
इति श्रीमद्भविष्योत्तरपुराणे वेंकटेशमाहात्म्ये पंचमोऽध्यायः ॥५॥
श्रीवेंकटेशार्पणमस्तु ॥