श्रीसुत उवाच ॥
कन्याया जननं प्रोक्तं कुमारस्य विशेषतः ॥ सांग वदामि चारित्र्यं वैवाहं पुण्यवर्धनम् ॥१॥
करींद्रसंगेन समागतो हरिस्तुरंगमास्थाय वरांगनानाम् ॥ श्रीगंधलेपारुणचारुवक्षा बालार्कभा सोऽथ समीपमाशु ॥२॥
गर्जतं गजराजानं दृष्ठ्वा पद्मावतीमुखा ॥ वनस्पतिमुपाश्रित्य तत्र लीना बभूविरे ॥३॥
निमील्य नेत्रवर्त्मानि व्यूहं कृत्वा वरंगना ॥ पश्यंति च तरुच्छेन्ना पुनर्दृष्ट्वा पुनश्र्च ता ॥४॥
तदंतरेऽबला सर्वा ददृशुर्हयमुत्तमम् बालार्कसदृशाकारं रत्नाभरणभूषित् ॥५॥
पुरुषेण समायुक्तं मन्मथाकारतेजसा ॥ तं दृष्ट्वा गजराजोऽपि हयस्थं पुरुषोत्तमम् ॥६॥
नमस्कृत्वा यथान्यायं जगाम विपिनं नदन् ॥ तं दृष्ट्वा योषिता सर्वा विस्मयाकुलमानसा ॥७॥
करसंपुटमापन्नाश्र्चलितास्तु भयातुरा ॥ वृक्षमूलं गता बाला ह्यन्योन्यं वाक्यमब्रुवन् ॥८॥
कोऽयमत्र वरारोहे सखे कमललोचने ॥ कोऽसि किरातरूपी च न दृष्टो भविता पुरा ॥९॥
तुरगोपरि संस्थाय य आगच्छति हे सखे ॥ एवं वदंत्यस्तत्सख्य सा च पद्मावती शुभा ॥१०॥
उवाच मंदं वचनं सखीनामग्रतो द्विजा ॥
पद्मावत्युवाच ॥
पृच्छंतु तस्य वृत्तांतं पितृमातृंश्र्व बांधवान् ॥११॥
देशं वृत्तं कुलं शीलं नामगोत्रादिकं तथा ॥ इति सख्या समाज्ञप्तास्ता ऊचुर्वचनं स्त्रिय ॥१२॥
कन्या ऊचु आगतं पुरुषं दृष्ट्वा कोऽसि कोऽसितिचाब्रुवन् ॥ किमर्थमागतोऽसि त्वं किं ते कार्य वद प्रभो ॥१३॥
न संति पुरुषा ह्यत्र गच्छ गच्छेतिचाब्रुवन् ॥ तासां तद्वचनं श्रुत्वा हयस्थ प्रब्रवीच्च ता ॥१४॥
श्रीनिवास उवाच ॥
अस्ति कार्यं वरारोहा राजपुत्र्या समीपके ॥ इति तस्य वच श्रुत्वा सख्यस्ता पुनर्ब्रुवन् ॥१५॥
कन्या ऊचु ॥
किं कार्य वद शीघ्रेण यत्ते मनसि वर्तते ॥ क्व ते वासश्र्च किं नाम का ते माता च क पिता ॥१६॥
को भ्राता का च भगिनी किं कुलं गोत्रमेव च ॥ इति तासां वच श्रुत्वा न्यगदज्जगदीश्र्वर ॥१७॥
श्रीनिवास उवाच ॥
कन्यापेक्षा मुख्यकार्य तदंते प्रवदामि व ॥ इति ता प्रोच्य चोवाच देवीं पद्मावतीमथ ॥
सिंधुपुत्रकुलं प्राहुरस्माकं तु पुरा विद ॥१८॥
जनको वसुदेवश्र्च देवकी जननी मम ॥ अग्रज श्र्वेतकेशश्र्च सुभद्रां मम ॥१९॥
पार्थो मे श्यालको देव्य पांडवा मम बांधवा ॥ षण्णां तु मृतपुत्राणां कृतनाम्नां महात्मनाम् ॥२०॥
वियोग तप्तौ पितरौ सप्तमं राममेव च ॥ चक्रतुर्नामकरणं पितृलिंगमृपागतम् ॥२१॥
जातोहमष्अमोष्टम्यां सुभद्रा मदनंतरम् ॥ मातृवर्णश्र्च च मे देवि कृष्णपक्ष जनिर्मम ॥२२॥
तस्मात्कृष्णोति मां देवि चक्रतुर्नामसंस्कृतम् ॥ वर्णतो नामतश्र्चापि कृष्णं प्राहुर्मनीषिण ॥२३॥
वृत्तांतमखिलं प्रोक्तं श्रुतं पंडितनंदने ॥ युष्माकं वाच्यतां वार्तां गोत्रनामकुलादिकम् ॥२४॥
इति तेन समाज्ञप्ता उवाच नृपनंदिनी ॥
पद्मावत्युवाच ॥
आकाशराजतनयां निषादाधिप विद्धि माम् ॥२५॥
नाम्ना पद्मावती कृष्ण कुलं शीतकरस्य च ॥ गोत्रमत्रे किरातेंद्र शीघ्रं गच्छेति चाब्रवीत् ॥२६॥
श्रीनिवास उवाच ॥
किमर्थं निष्ठुरं वाक्यं मृदु किं न प्रभाषसे ॥ अन्नं कांक्षति यो लोके यो ददाति नरोत्तम ॥२७॥
स पुमान्पुण्यमाप्नोति जलदोऽपि फलं लभेत् ॥ तथाऽहं काममापेक्ष्ये पात्रभूतोस्मि सांप्रतम् ॥२८॥
सुखमेष्यसि दानेन अंते स्वर्ग गमिष्यसि ॥ आत्मानं दिश मह्यं त्वं किं वृथा निष्ठुरोक्तिभि ॥
सा तस्य वचनं श्रुत्वा क्रुद्धा ताम्रविलोचना ॥२९॥
पद्मावत्युवाच ॥
अवाच्यं वदसे मूढ जीवनेच्छा न विद्यते ॥ आकाशराजस्त्वां दृष्ट्वा हनिष्यति न संशय ॥३०॥
यावन्नायाति तावत्त्वं गच्छ शीघ्रं स्वमालयम् ॥
श्रीनिवास उवाच ॥
कार्यांतें मरणं सौख्यं अकार्यस्य तृणं जगत् ॥३१॥
कथं हन्यात्स राजेंद्रस्त्वधर्माभिमुखो हिमाम् ॥ त्वं कन्याऽहं वरो देवी कोऽत्रान्यायो महीसुते ॥३२॥
पद्मावत्युवाच ॥
शुणु मूढ न जानासि बालभावेन किं वृथा ॥ त्वां दृष्ट्वाऽऽकाशराजोऽपि कृत्वा निगडबंधनम् ॥३३॥
निगडे बद्ध्य़से मूर्ख भविष्यं प्रवदाम्यहम् ॥
श्रीनिवास उवाच ॥
निश्र्चित्य मरणं देवो रंतुकामो जगद्गुरु ॥३४॥
जातस्य मरणं नित्यं पूर्वकर्मफलानुगम् ॥ आकाशराजो धर्मात्मा कथं हन्यादनागसम् ॥३५॥
पद्मावत्युवाच ॥
गौरवं ते निषादेंद्र नृपस्यास्य हरेस्तथा ॥ वराहस्याथ रंगस्य वेंकटाचलवासिन ॥३६॥
संरक्षस्व महाबाहो सुखं गच्छ स्वमालयम् ॥ इत्युक्तोऽपि तया देव्या निषादेंद्राकृतिर्हरि ॥
निराकृत्य च तद्वाक्यं हयस्थ पुनरापतत् ॥३७॥
हयमग्रे कृतं विक्ष्य सा बाला वाक्यमब्रवीत् ॥
पद्मावत्युवाच ॥
त्यक्त्वा च पितरौ बंधून्भ्रातृमुख्यान्वनेचर ॥३८॥
अनाथो म्रियसे व्यर्थ किमर्थं काकभाजनम् ॥ इति तस्या वच श्रुत्वा ऊचे तां वारिजेक्षण ॥३९॥
श्रीनिवास उवाच ॥
विधिना लिखितं कर्म न तव्द्यर्थ भविष्यति ॥ जयो वापजयो वास्यात्त्वयि भोगं करोम्यहम् ॥४०॥
इत्युक्ता कोपताम्राक्षी सखीभि परिवारिता ॥ तर्जयंति जगद्योनिं शिलापाणिरुपागमत् ॥४१॥
ताडयामास गोविंदं शिलौधै शीघ्रवत्तरै॥ ताड्यमान शिलावर्षेर्न्यपतद्धयराट् स्वयम् ॥४२॥
त्यक्तासूं स्वहयं दृष्ट्वा मुक्तकेशो मुहुर्मुहु ॥ पश्यन्यश्यन्दिश सर्वा अभ्रमद्विभ्रमन्निव ॥४३॥
अद्य मे संकटं प्राप्तो स्वापराधानुसारत ॥ इत्युच्चरन्नमाकांतो जगामोऋरदिङ्मुख ॥४४॥
आरुह्य सोपानमनामयो विभुर्विडंबयन् लौकिकमाप शय्याम् ॥
प्राप्याधिमानंदयुतोऽपि माधवो यथा युगांते वटपत्रशायी ॥४५॥
इति श्रीमद्भविष्योत्तरपुराणे वेंकटेशमाहात्म्ये कन्याभि श्रीनिवासापजयो नाम सप्तमोऽध्याय ॥७॥