वेंकटेश्वर माहात्म्य - दशमोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


जनक उवाच ॥

मातुर्वचनमाकर्ण्य कृतवान्किं रमापतिः ॥ तन्ममाचक्ष्व भगवन्सविस्तारं सतां प्रियः ॥१॥

शतानंद उवाच ॥

त्वं हरेरसि भक्तेषु प्रथमोऽतिप्रियः सदा ॥ तस्माद्धरिकथासक्तमनास्ते तु वदामि तत् ॥२॥

स्वयमानंदपूरोऽपि कर्मभुङ्‌नरवद्धरिः ॥ मात्रा चोदितमाकर्ण्य तामूचे मधुरं वचः ॥३॥

श्रीनिवास उवाच ॥ महोत्सवं विधातुं हि मम बुद्धिर्न जायते ॥ अवधोर्बंधुयुक्तस्य संबंधो न प्रशस्यते ॥४॥

ययोरेव समं वित्तं ययोरेव समोऽन्वयः ॥ तयोर्विवाहो मैत्री च नोत्तमाधमयोरपि ॥५॥

विवाहश्च विवादश्च समयोरेव शोभते ॥ अहमेकः सोऽपि बंधुसमेतो धरणीपतिः ॥६॥

कथं नृपस्यास्य मयोचितः स्यादबंधुना बन्धुयुतस्य संगः ॥ भवेत्सुखं नेति वदंति सन्त स्तदद्य चिंता खलु बाधते माम् ॥७॥

बन्धुहीनस्य मे राजा कधं कन्या प्रदास्यति ॥ वासुदेववचः श्रुत्वा बकुला वाक्यमब्रवीत् ॥८॥

बकुलोवाच ॥ त्वादृशः पुरुषो लोके नासत्यं वदति क्वचित् ॥ सत्यमेव प्रशंसंति मुनयो वीतकल्मषाः ॥९॥

शुकस्त्वत्कार्यनिष्ठस्तु देवानां गुरुरंगिराः ॥ सद्धर्मिणो महीशस्य तस्याशां मा वृथा कुरु ॥१०॥

स्मर बंधून्सुरान्सर्वान्ब्रह्मरुद्रपुरोगमान् ॥ पुत्रान्पौत्रांस्तथा भातृत्स्नुषांश्च पुरुषोत्तम् ॥११॥

तेषा गतिस्तु गोविंद दुर्लभा च कलौ युगे ॥ सोऽपि पश्यतु राजर्षिस्त्वत्संबंधिजनानिह ॥१२॥

मातुर्वचनमाकर्ण्य मनसा शेषपक्षिणौ ॥ सस्मार पृथिवीपालः श्रीनिवासः सतां गतिः ॥१३॥

तावागतौ शेषवियच्चरौ तदा क्षणेन शेषाचलवल्लभांतिकम् ॥ ददर्श भक्त्या पुरतः स्थितविमौ निदेशयामास पुराणपुरुषः ॥१४॥

श्रीनिवास उवाच ॥ पक्षिराड्‌ गच्छ में पुत्रं सत्यलोकेश्वरं प्रियम् ॥ गच्छाहिभूषणं शेष मम पौत्रमुमापतिम् ॥१५॥

इत्युक्त्वा पत्रिकां ताभ्यां विलिख्यादाच्छुभात्मिकाम् ॥ प्रणिपत्याथ विश्वेशं खगमार्गेण जग्मतुः ॥१६॥

सत्यलोकं ततो गत्वा ब्रह्माणं भास्करोपमम् ॥ दृष्ट्‌वा नत्वाथ भक्त्यैव पक्षिराट् पत्रिकामदात् ॥१७॥

पितामहस्तु तं दृष्ट्‌वा गरुडं प्रत्यभाषत ॥ ब्रह्मोवाच ॥ चिरकालेन संप्राप्तः पक्षिराड् कश्यपात्मज ॥१८॥

कुत्रास्ति श्रीनिवासः स वासुदेवः पिता मम ॥ पितामहवचः श्रुत्वा पक्षिराड् वाक्यमब्रवीत् ॥१९॥

गरुड उवाच ॥ वासुदेवो वसत्यंग वैकुंठगिरिमूर्द्धनि ॥ तद्विवाहार्थमायांतं मां विद्धि चतुरानन ॥२०॥

नारायणेन लिखितां पत्रिकामवलोकय ॥ पत्रिकां कीर्तयामास वायुः सर्वात्मगोचरः ॥२१॥

चिरंजीवाय पुत्राय ब्रह्मणे नाभिजन्मने ॥ श्रीवेंकटाद्रिनाथस्य श्रीनिवासस्य मङ्‌गलाः ॥२२॥

वैदिक्य आशिषः सर्वाः सर्वदा संतु पुष्कलाः ॥ कलावाकाशराजो मे कन्यादानं करिष्यति ॥२३॥

पत्रिकादर्शनादेव सपुत्रः सपरिग्रहः ॥ सलोकपालः सस्त्रीकः सगंधर्वः सहोरगः ॥२४॥

समागत्याशु कल्याणं दृष्ट्‌वा गच्छ यथासुखम् ॥ पत्रिकार्थमिति ज्ञात्वा किंचिद्वास्यमुखान्वितः ॥२५॥

संतोषमतुलं लेभे विधिः कल्याणकौतुकी ॥ द्वारपालान्समाहूय चेदं वचनमब्रवीत् ॥२६॥

भेरीदुंदुभयश्चाद्य वाद्यंतां सर्वतोमुखम् ॥ भवद्भिर्मे ख्यापयद्भिर्गमनं धरणीतले ॥२७॥

इत्युक्ता द्वारपालास्ते वाद्यानि समवादयन् ॥ बृह्माणं प्रणिपत्याथ निदेशज्ञो वचोऽब्रवीत् ॥२८॥

प्रयाणभेरीनिनदः सुमंगलः संश्रूयते सर्वजनैः कुतूहलात् ॥ कं देशमुद्दिश्य पितामहाद्य संताड्यंते वाद्यगणो वदाद्य ॥२९॥

चतुर्मुख उवाच ॥ भारतेऽस्मिन्महावर्षे जंबुद्धीपस्य दक्षिणे ॥ शेषाचलं समुद्दिश्य नियुंक्ष्व चतुरंगिणीम् ॥३०॥

सेनां परां ममेत्युत्त्क्वा सेनापतिमथाब्रवीत् ॥ स्कंदाव्हय सुरान्सर्वान्सन्दिक्पालकानिति ॥३१॥

सत्यलोकजनान्सर्वान्स्वयमाह पितामहः ॥ भवंतो रसिकाः सर्वे कल्याणार्थं कलौ युगे ॥३२॥

श्रीनिवासस्य कृष्णस्य पितुर्मे पुरुषोत्तमाः ॥ समागच्छंतु सर्वे मे सेनाधीशा मया सह ॥

इति ब्रह्मवचः श्रुत्वा सेनानाथास्तमब्रुवन् ॥३३॥

सेनापतय ऊचुः ॥

वार्षिकं देहि नो ब्रह्मन्नागच्छमस्त्वया सह ॥३४॥

एवमुक्तो धनं तेषां दत्तवान्स पितामहः ॥ वाहनानि विचित्राणि रथांश्च विविधानपि ॥३५॥

भूषणानि च वस्त्राणि रत्नानि विविधानि च ॥ पत्नीः संदेशशयामास विवाहार्थं पितामहः ॥३६॥

स्वयमंतर्गतः श्रीमानात्मानं समभूषयत् ॥ दधार शिरसा शीघ्रं किरीटं पश्चिमेन तु ॥३७॥

अन्येन शिरसा धाता रक्तोष्णीषमधारयत् ॥ दक्षिणेनोत्तमांगेन शिरोवेष्टमवंधयत् ॥३८॥

कुशकेतुः कुशश्रेष्ठैर्धृतवानन्यमूर्धनि ॥ नीलमौक्तिकवैडूर्ययुते मकरकुंडले ॥

कर्णयोर्भूषयामास करौ कनककंकणैः ॥३९॥

कवचं धारयामास नवरत्नसमाकुलम् ॥ कांचीदाम समाबध्य मुक्तामणिविभूषितम् ॥४०॥

सरस्वतीं च सावित्रीं गायत्रीं वै ततः परम् ॥४१॥

पुत्रान्पौत्रांस्तथासर्वान्सवाजिरथकुंजरान् ॥ मनः पुत्रान्वीर्यपुत्रान्समाहूय पितामहः ॥४२॥

अलंकारयुतान्कृत्वा गगनाभिमुखोऽभवेत् ॥ स्वसेनां पुरतः कृत्वा नाभिजो निर्ययौ पुरात ॥४३॥

हंसं चंद्रप्रतीकाशमारुरोह पितामहः ॥ विमानानि विचित्राणि वध्य आररुहुस्तदा ॥४४॥

घंटाचामरनिर्घोषैः सहिता नृप रेजिरे ॥ शूरा वीरासना धीरा गजाश्वरथसंस्थिताः ॥४५॥

समुछ्रितैर्ध्वजैदीर्धर्पताकैः समलंकृताः ॥ नानायुधधरा वीरास्तेषां मध्ये पितामहः ॥४६॥

रराज चंद्रमा राजंस्ताराभिर्गगने यथा ॥ श्वेतच्छत्रं हेमदंडं रत्नकुंभमहोज्वलम् ॥४७॥

योजनत्रयविस्तीर्णं दशलक्षजनैर्धृतम् ॥ नभः प्रकाशयामास देवदेवस्य वै तदा ॥४८॥

अवादयन्महाराज वाद्यानि विविधानि च ॥ भेरीश्च नवसाहस्त्रं दंदुभीनां शतत्रयम् ॥४९॥

मृदंगपणवढक्कामड्डनिस्सणडिंडिमान् ॥ गोमुखान्मुरजान्वीणांस्तथा वै झर्झरादिकान् ॥५०॥

बर्बरैः शतशृंगैश्च दीर्घशृम्गैश्च सस्वरैः ॥ सप्तस्वरैः सप्तरागैः सर्पाणामपि मोहकैः ॥५१॥

फूत्कारैश्च वषट्‌कारैर्ध्वनयद्भिश्च वारिजान् ॥ गंधर्वैर्गाननिपुणैः स्वरभेदविचक्षणैः ॥५२॥

वीणादंडस्थसूत्रैश्च वादयद्भिः सुखावहैः ॥ नर्तर्कैर्नटकैश्चैव हाहाहूहूमुखैर्वृतम् ॥५३॥

स्तूयमानास्तुंबुरुणा सूतमागधबंदिभिः ॥ सुराः सर्वे श्रीनिवासमहोत्सवदिदृक्षवः ॥५४॥

अनुजग्मुर्महाराजं ब्रह्माणं यांतमग्रतः ॥ सत्यलोके तपोलोके जनलोके ततः परम् ॥५५॥

महर्लोके सुवर्लोके स्वर्गलोके महीतले ॥ एवं क्रमान्महाभागं ब्रह्माणं ददृशुर्जनाः ॥५६॥

ऋषयः सत्वसंपन्नास्तदात्यद्‌भुतदर्शनम् ॥ वासुदेवसमाकारं वैश्वानरसमाननम् ॥५७॥

ददृशुः सर्वलोकेशं साक्षद्‌ब्रह्माणमग्रजम् ॥ केचिन्नारायणं तं हि गांभीर्यादब्रुवंस्तदा ॥५८॥

केचिन्नारायणो नायं वदनानां विपर्ययात् ॥ इत्यब्रुवंस्ततः सर्वै मत्वा तं चतुराननम् ॥५९॥

हंसस्थं भूषणैर्युक्तं कवचाडंबरान्वितम् ॥ अपृच्छंस्ते महीदेवा ब्रह्मणोनुचराञ्जनान् ॥६०॥

महीदेवा ऊचुः ॥

कं वा देशं प्रति जनाः कुतो वा गमनं विधेः ॥ जना ऊचुः ॥ गच्छामोऽद्य विवाहार्थं श्रीनिवासस्य भूतलम् ॥६१॥

तेनैवावाहिताः सर्वे सत्यलोकान्महीसुराः ॥ तच्छुत्वा वचनं तेषामनुजग्मुमहर्षयः ॥६२॥

साग्निहोत्राः सपुत्राश्च सशिष्याः सपरिग्रहाः ॥ एवं विभवमास्थाय ब्रह्मागाद्वेंकटाचलम् ॥६३॥

वादित्राणां स्वनेनैव दुंदुभीना च निःस्वनैः ॥ आपूरितं जगदिदं सशैलवनकाननम् ॥६४॥

एतस्मिन्नेव काले तु भगवांलौकिकैः समः ॥ अदृष्ट्‌वा खगराजं तं मातरं वाक्यमब्रवीत् ॥६५॥

श्रीनिवास उवाच ॥

किं नागतोंब खगराट्‌ पुत्रार्थं प्रेषितो मया ॥ मार्गे निरोधितः केन किं वा स्यात्कारणं वद ॥६६॥

एवं वदति गोविंदे चारो दृष्टिपथं गतः ॥ चारं दृष्ट्‌वातिसंतोषं स लेभे पुरुषोत्तमः ॥६७॥

श्रीनिवास उवाच ॥

क्व चार मम पुत्रस्तु केन वै प्रेषितो भवान् ॥ चार उवाच ॥ आगमिष्यति गोविंदं गंगा तरति ते सुतः ॥६८॥

एवं वदति तच्चारे पुनरेकोऽभ्यभाषत ॥ द्वितीय उवाच ॥ गोदावरी तरति ते पुत्रः पौरजनैः सह ॥६९॥

स दूतवचनं श्रुत्वा किंचिद्धास्यमुखोऽभवत् ॥ तदा जगाम गरुडः पक्षिराड्‌ ब्रह्मचोदितः ॥७०॥

प्रणिपत्य श्रीनिवासं प्रोवाच स वचस्तदा ॥ गरुड उवाच ॥ कृष्णा तीर्त्वा तु ते पुत्रः श्रीशैलमुपगम्य च ॥७१॥

अहोबिलं चाससाद तत्राज्ञप्तोऽहमागतः ॥ इत्येवमुच्यमाने तु गरुडेन महात्मना ॥७२॥

तत्क्षणेनैव राजेंद्र विष्वक्सेनोऽभिबन्द्य च ॥ विनीतो वाचमूचेऽथ श्रीनिवासं परात्परम् ॥७३॥

विष्वक्सेन उवाच ॥

तुंबुरोस्तीर्थमासाद्य हरे तत्रावगाहते ॥ पुत्रस्तव महाराजः परमात्मा चतुर्मुखः ॥७४॥

पुत्रस्त्वागच्छतीह भवद्दर्शनकौतुकी ॥ सेनापतौ वदत्येवं भगवानुत्थितो मुदा ॥७५॥

गरुडस्कंधमारूढः प्रयाणाभिमुखो हरिः ॥ उत्तराभिमुखः प्रायात्पुत्रस्नेहेन भूमिप ॥७६॥

विष्वक्सेनोऽतिवेगेन ब्रह्माणमुपगम्य च ॥ आनम्य शिरसा भक्त्या प्रोवाच वचनं विधिम् ॥

विष्वक्सेन उवाच ॥

भगवानरविंदाक्षस्तव दर्शनलालसः ॥ गरुडस्कन्धमारुह्य समागच्छति तेंतिकम् ॥७८॥

तच्छ्रुत्वा वचनं तस्य विष्वक्सेनस्य धीमतः ॥ चंद्रबिंबनिभाद्धंसादवरुह्य पितामहः ॥७९॥

पादाभ्यामागमच्छीघ्रं यत्रागच्छति केशवः ॥ स ददर्श महाराज जनकं चतुराननः ॥८०॥

दण्डवत्प्रणिपत्याथ चाग्रे बध्वा करौ स्थितः ॥ स चावरुह्य गरुडादाससाद पितामहम् ॥८१॥

उत्थाप्यालिंग्य चाप्येनमुवाच मधुसूदनः ॥ श्रीनिवास उवाच ॥ उतिष्ठ तात भद्रं ते पश्य मामातुरं कृशम् ॥८२॥

बहुकालेन ते बुद्धिर्मम दर्शनलालसा ॥ तदेव परमं मन्ये त्वबुद्धिर्मम दर्शने ॥८३॥

कौतूहलं नोपनीता कदाचिदपि येन वै ॥ न कश्चिद्विद्यते वस्तु त्वां विना चतुरानन ॥८४॥

वदत्येवं ह्रषीकेशे नोवाच चतुराननः ॥ मुहुर्तद्वयमात्रं तु श्रीनिवासोऽपि नोचिवान् ॥८५॥

आनन्दवाष्पसंदिग्धनयनौ तौ परस्परम् ॥ स्नेहात्प्रफुल्लवदनौ मुखं ददृशतुर्मुदा ॥८६॥

पितुर्मुखं सुतोऽपश्यत्सुतवत्क्रं हरिस्तथा ॥ ततः सन्तुष्टमनसौ लेभाते परमां मुदम् ॥८७॥

तौ क्रीडन्तौ श्रीनिवासब्रह्मणौ देवसंसदि ॥ पितृपुत्रौ तदा दृष्टवा सत्यलोकनिवासिनः ॥८८॥

लेभिरे परमानन्दं तन्मायामोहिता सुराः ॥ देवा ऊचुः ॥ न तेन सदृशः पुत्रो न तेन जनको भुवि ॥८९॥

इत्येवं प्रशशंसुस्ते भक्तिस्नेहवशंगताः ॥ ततः सुतं समाश्वास्य परिमृज्याक्षिजं जलम् ॥९०॥

ब्रह्मणः पाणिमुद्‌धृत्य स्वनेत्रजलमुन्मृजन् ॥ वल्मीकस्थानमाश्रित्य पुत्रेण सह तस्थिवान् ॥९१॥

तत्र च श्रीनिवासस्तमुवाच पुरुषोत्तमः ॥ श्रीभगवानुवाच ॥ कच्चिते कुशल्म तात स्नुषाया मम संप्रति ॥९२॥

पुत्रपौत्रप्रपौत्राणां क्षेमं प्रबूहि मे सुत ॥ ब्रह्मोवाच ॥ सर्वं मंगलस्माकं त्वत्प्रसादेन केशव ॥९३॥

तात मे वद ते क्षेमं पुराणपुरुषोत्तम ॥ श्रीभगवानुवाच ॥ द्वापरान्ते कृतं कर्म शृणु पुत्र समाधिना ॥९४॥

वैकुंठे शेषतल्पस्थं भृगुः पादतलेन माम् ॥ तताडोरसि ते मातुरास्पदे कमलासन ॥९५॥

तदा ते जननी पुत्र करवीरपुरं गता ॥ तेन दुःखेन सन्तप्तस्त्यक्त्वा वैकुंठमुत्तमम् ॥९६॥

इहागतो वेंकटाद्रि नात्रापश्यं निकेतनम् ॥ अत्र वल्मीकगं नित्यं चोलभृत्यः कुठारतः ॥९७॥

प्राहरन्मां राजभार्याताडितो धेनुकोपतः ॥ बृहस्पतेः प्रसादेन जीवामि करुणानिधेः ॥९८॥

अभिवादय कल्याणीं मातरं मम नन्दन ॥ इत्युक्तो बकुलां ब्रह्मा ववन्दे हरिमातरम् ॥९९॥

ब्रह्मोवाच ॥ जननी तव गोविंद कुत्रेयं जनिता पुरा ॥ एतदाख्याहि भगवञ्छ्रोतुं कौतुहलं हि मे ॥१००॥

श्रीभगवानुवाच ॥

यशोदा बकुला भूत्वा वर्तते वेंकटाचले ॥ रक्षितोऽहं तया भद्र बहुकालं पितामह ॥१॥

आपत्काले तु यो रक्षेत्तं विंयात्पितरं गुरुम् ॥ कदाचिन्मृगयासक्तः पद्मतीर्थसमीपतः ॥२॥

आगामहं तत्र पुष्पवने कन्या उपागमन् ॥ तासां मध्ये विराजन्ती कन्या काचिदुपागमत् ॥३॥

यामाकाशप्रभोः पुत्रीं नाम्ना पद्मावती विदुः ॥ तामवेक्ष्याति मोहान्मे मनस्तामेव कांक्षते ॥४॥

तामेव घटयाशु त्वं पुत्रोऽसि परमो मम् ॥ वदत्येवं ह्रषीकेशे शुश्रुवे दंदुभिस्वनः ॥५॥

श्रीभगवानुवाच ॥

कस्य वाद्यमिदं ब्रह्मन्कश्च मामुपगच्छति ॥ वदत्येवं पर धाम्नि वायुस्तमभिपद्यत ॥६॥

एणं समारुह्य सभारतीशो सुगंधामादाय ययौ गिरिंद्रम ॥ ज्येष्ठ सुतं श्रेष्ठगुणं जनार्दनः क्षेमावल्मबं ददृशे मुदान्वितः ॥७॥

स्थीयतामिति तं वायुं साधुसाध्वित्यभाषत ॥ श्रीनिवास उवाच ॥ पुत्राणां मम कल्याण गरीयो भारतीपते ॥८॥

भारति सर्वलोकेषु विश्रुता प्रतिभाति मे ॥ एवमुक्ते श्रीनिवासे नीलकण्ठोऽन्वपद्यत ॥९॥

पितामहं च पितरं ववंदे वसुधाधिप ॥ पार्वत्या षण्मुखेनापि प्रमथाधिपसेवकैः ॥११०॥

तमालिंग्य ह्रषीकेशः प्राह शंकरमागतम् ॥ वत्सात्रायाहि निकटं तिष्ठभद्र वरासने ॥११॥

एवं संभाषमाणे तु नीलकण्ठेन केशवे ॥ ततः समागमत्सद्यः कुबेरो नरवाहनः ॥१२॥

यक्षेंद्रपुत्र भृत्यैश्च भार्यांबन्धुभिरन्वितः ॥ तमायांतमुपालक्ष्य भगवानाह भूमिप ॥१३॥

धनाधिप महाप्राज्ञ धनवान्भव सर्वदा ॥ इत्याशिषा नन्दयाति ह्रषीकेशे धनेश्वरम् ॥१४॥

स्वाहास्वधाभ्यां सहित आरूढो मेषवाहनम् ॥ अग्निश्चागात्सपुत्रश्च सबंधुर्वेङ्‌कटाचले ॥१५॥

स जातवेदसं दृष्ट्‌वा जाताल्हादो जगत्पतिः ॥ तमालिंग्यातिवेगेन तिष्ठ तिष्ठेति चाब्रववीत् ॥१६॥

ततः प्रेतपतिश्चापि स्वदूतैश्च स्वभार्यया ॥ स्ववाहनं समारुह्य प्राप शेषगिरि स्वयम् ॥१७॥

चित्रगुप्तो महाप्राज्ञः संप्राप्तो राजसत्तम ॥ ततो जलपतिश्चागान्नक्रमारुह्य भक्तिमान् ॥१८॥

भार्यया बहुरत्नाढ्यो नारायणगिरिपति ॥ आरुह्य गजराजं स्वमिंद्रः साक्षच्छचीपतिः ॥१९॥

भोगिराजगिरी राजन्सर्वभोगालयो महान् ॥ पोलोम्यासह पुत्रेण संप्राप्तस्त्रिदशेश्वरः ॥ यथार्हं श्रीनिवासने सत्कृतो निषसाद च ॥१२०॥

एतस्मिन्नेव काले तु संप्राप्तौ चंद्रभास्करौ ॥ मन्मथो मूलरूपेण सरतिस्तुंरंगोपरि ॥२१॥

मुनयश्च महाराज समाजग्मुर्महागिरिम् ॥ कश्यपोऽत्रिर्भरद्वाजो वामदेवश्चगौतमः ॥२२॥

विश्वामित्रो वसिष्ठश्च वाल्मीकिर्जमदग्निजः ॥ पुलस्त्यश्च दधीचिश्च शुनश्शेपश्च गालवः ॥२३॥

गार्ग्यः कृष्णो महाराज सपुत्नाः सपरिग्रहाः ॥ गंधर्वाप्सरश्चैव सर्वै सिद्धाः सहोरगाः ॥२४॥

एवं महर्षयो देवा राजानश्च समागताः ॥ विष्णुभक्ताश्च राजानस्तेपि तत्र समागताः ॥ विवाहार्थं समाजग्मुः सर्वे संभ्रमकातराः ॥२५॥

समाश्वास्याथ गोविंदो यथायोग्यं तथा नृप ॥ स्थीयतामिति चोवाच सर्वेषां पुरतो हरिः ॥२६॥

ततोऽभूद्वासुदेवस्य विश्वकर्माक्षिगोचरः ॥ तमालोक्य ह्रषीक्शः इंद्रमाह स्म मन्युमान् ॥२७॥

श्रीभगवानुवाच ॥ इंद्रास्य गर्वबाहुल्यं पश्य विश्वकृतोऽधुना ॥ भ्रातुर्बाहुबलादेव न जानाति हिताहितम् ॥२८॥

पश्यत्यथेतरानिंद्र तथा मामपि पश्यति ॥ साधु जातं सुरश्रेष्ठ त्यजैनमसमंजसम् ॥२९॥

अन्यं शालाकर्मरतं शुद्धं मद्भक्तिसंयुतम् ॥ नियोजय सुरश्रेष्ठ देवतागृहकमीर्ण ॥३०॥

इत्यप्रियं वचः श्रुत्वा विश्वकर्मा नरेश्वर ॥ प्रणिपत्याह गोविंदं वर्धकी भयविव्हलः ॥३१॥

वर्धक्युवाच ॥ भगवंस्त्वदभीष्टं यदज्ञानान्न मया कृतम् ॥ क्षमस्व मम दौरात्म्यं भगवन्करुणानिधे ॥३२॥

देवाधिदेव देवेश अल्पस्य मम कारणात् ॥ इयान्कोपः किमर्थं ते संजातो भगवन्हरे ॥३३॥

एवं संप्रार्थितः शक्रं श्रीनिवास उवाच ह ॥ सभां कारय देवेंद्र देवार्थ मुनिकारणात ॥३४॥

पंचाशद्योजनगणविशालां सुमनोहराम् ॥ सुविचित्रां च महती त्रिंशद्योजनमायताम् ॥३५॥

इत्येवं शासितः शक्रस्तेन वर्धाकिनातदा ॥ कारयामास विपुला विचित्रा महती सभाम् ॥३६॥

चक्रे शक्राज्ञया तत्र विश्वकर्मा ममाग्रजः ॥ अनंतरं वाक्यमूचे शतक्रतुमनामयम् ॥३७॥

श्रीभगवानुवाच ॥ आकाशराजनगरं शीघ्रं गच्छ शचीपते ॥ राजानं सांत्ववचनैः कार्येः कर्माणि बोधय ॥३८॥

तत्राप्यनेन कर्तव्यं सभागेहादि कारय ॥ वासुदेवस्य वाक्यानि श्रुत्वा तस्य शचीपतिः ॥३९॥

जगाम राजनगरं सहितो विश्वकर्मणा ॥ विस्तार्य नगरं राज्ञः परितो बहुयोजनम् ॥४०॥

संछिद्य च महाराज वनानि गिरिगव्हारान् ॥ विषमां च समां चक्रे धरां तां धरणीपतेः ॥

गृहाणि च विचित्राणि सभाश्च उटजास्तथा ॥४१॥

कल्याणबेदिं कमनीयरत्नैः संपूर्णकक्षैः सुकृतां विचित्राम् ॥ स्तंभैर्युतां मौक्तिकरत्ननिर्मितैर्नारायणस्यैव नृपेण निर्मिताम् ॥४२॥

वासुदेवस्य भवनं वासवो विश्वकर्मणा ॥ कारयामास राजेंद्र सरत्न स्तंभगोपुरम् ॥४३॥

धनधान्यसमाकीर्णं रत्नतोरणमंडितम् ॥ वापीकूपशतं वाजिगजानां भवनं तथा ॥१४४॥

इति श्रीभविष्योत्तरपुराणे वेंकटेश्वर महात्म्य दशमोऽध्यायः ॥१०॥

श्रीवेंकटेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP