वेंकटेश्वर माहात्म्य - प्रथमोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


श्रीवेंकटेशाय नमः ॥

श्रीवेदव्यासाय नमः ॥ ब्रह्मरुद्रादिवंद्यं त्वां भजे वेंकटनायकं ॥ निवारयस्वानिष्टानि साधयेष्टानि माधव ॥१॥

श्रीशौनकउवाच ॥ कथितं रंगमाहात्म्यं त्वया हस्तिगिरीशितुः ॥ जगन्नाथस्य वै विष्णोर्माहात्म्यमतुलं मुने ॥२॥

इदानी श्रोतुमिच्छामि माहात्म्यं वेंकटेशितुः ॥ श्रीसूत उवाच ॥ साधु पृष्टं त्वया ब्रह्मन् चरित वेंकटेशितुः ॥३॥

यथा श्रुतं मया पूर्वं व्यासेनामिततेजसा ॥ तथा ध्यायन्समाचक्षे सावधानमनाः शृणु ॥४॥

श्रीसुत उवाच ॥ पुरा तु जनको नाम राजा परमधार्मिकः ॥ सत्यावाक्सर्वशास्त्रेषु कोविदः कोपवर्जितः ॥५॥

वासुदेवप्रसादस्य मुखपात्रोभवन्नृपः ॥ निर्ममो नित्यतृप्तश्च निरहंकृतिरात्मवित् ॥६॥

तस्य भ्राता भवत्पूर्वं कुशकेतुरिति स्मृतः ॥ कुशध्वजस्य तनयास्त्रयस्त्रैलोक्यसुंदराः ॥७॥

दुहितृणां त्रयं तस्य कुशकेतोर्महात्मनः ॥ जनकस्याभवत्पुत्री जानकी नाम वल्लभा ॥८॥

भ्रात्रा च कारयामास राज्यं जनकभूमिपः ॥ स भ्रातुराज्ञया राज्यं चकारार्येषु भक्तिमान् ॥९॥

कदाचिज्जनको राजा मनसीत्थमचिंतयत् ॥ सुखमेव सदा मे स्यादुःखं माभूदिति स्मरन् ॥१०॥

दुःखं न पशे नेत्राभ्यां सुखं पश्ये सदाऽऽत्मनः ॥ असाधुसंमतं वाक्यं श्रुत्वा तदुदितं हरिः ॥

दुःखं प्रदर्शयामि राज्यमत्तस्य भूपतेः ॥११॥

कदाचिद्दैवयोगेन कुशकतुरं गान्मृतिम् हतेऽनुजे च तद्भार्या तेन साकं ममार च ॥१२॥

राज्यं पुत्रांस्ततस्त्यक्त्वा जगाम पतिलोकताम् ॥१३॥

तौ दंपती नृपो दृष्ट्‌वा त्यक्तपुत्रौ सुखोचितौ ॥ विललाप महाराजा भ्रातरं भ्रातृवल्लभाम् ॥१४॥

हा भद्रे बालकांस्त्यक्त्वा वृद्धं मां जनकं तथा ॥ क्व गच्छसि वरारोहे पतिमालिंग्य मंगले ॥१५॥

अशीतीवर्षसाहस्त्रं संप्राप्तं मम भामिनी ॥ एतावत्कालपर्यंतमदृष्टं दुःखसंचयम् ॥१६॥

अद्य दृष्टं वरारोहे त्वद्वियोगेन केवलम् ॥ इति संचिंत्य मनसा वारंवारं महीपतिः ॥१७॥

चकार प्रेतकार्याणि पुत्राणां चैव शैशवात् ॥ मातृहीनान्नृपो बालानालिंग्यांके निधाय च ॥१८॥

भो पुत्रा बालभावेपि मातृहीनाश्च कर्शिताः ॥ कथं पश्यामि नेत्राभ्यां मातृहीनांश्च बालकान् ॥१९॥

स तु चिंतापरो भूत्वा त्यक्तराज्योऽतिदुःखितः ॥ त्यक्तान्नस्त्यक्तभोगश्च त्यक्तनिद्रोतिकर्शितः ॥२०॥

तस्य दुःखस्य शांत्यर्थं शतानन्दः पुरोहितः ॥ संप्राप्तौ दैवयोगेन वामदेवानुजो मुनिः ॥२१॥

प्राप्तं पुरोहितं दृष्ट्‌वा राजा पूजामकल्पयत् ॥ संपूजितो मुनिवरः प्रविष्टो मृगचर्माणि ॥२२॥

ततः कालोचिंत वाक्यं कथयामास गौतमिमू ॥ जनक उवाच ॥ शतानन्द महाप्राज्ञ का गतिः पुरतो मम ॥२३॥

वृद्धत्वादात्मनश्चैव पुत्राणां चैव शैशवात् ॥ कन्यानां च वराभावाद्भतबंधोर्महामुने ॥२४॥

बहवः शत्रवः संति रावणेंद्रजितादयः ॥ तेभ्यो युद्बं कथं दास्ये असहायोतिजीर्णवान् ॥२५॥

दिवा नक्तं समायाति रावणः केन हेतुना ॥ न जाने मुनिवर्याहं प्रज्ञा चक्षुर्न विद्यते ॥२६॥

निमित्तमेकं कथितं द्वितीयं प्रवदाम्यहम् ॥ सीतायाश्चातिरूपायाः सरूपः पुरुषो यथा ॥२७॥

लभ्यते वद विप्रेंद्र तृतीयं प्रवदामि ते ॥ दीर्घायुषश्च मे पुत्रा पुत्र्यश्चापि सभर्तृकाः ॥२८॥

एकदेशाधिपस्यैव स्नुषास्ताश्च भवंत्विति ॥ जामातरश्च चत्वारश्चिकराजसुतास्तथा ॥२९॥

भ्रातृहीनस्य मे राज्यं स्वयमेव पुरोहित ॥ केनोपायेन भूयाद्धि इति तत्कारणं वद ॥३०॥

शतानंद उवाच ॥ अस्ति कश्चिद्विशेषेस्मिन् भूलोके भुमिपालक ॥ दुहितुस्तव कल्याणं सुखदं शत्रुनाशनम् ॥३१॥

वैकुंथगिरिमाहात्म्यं सभविष्यं सहोत्तरम् ॥ कलौ तत्कीर्तनं पुण्यं सर्वदुःखहरं शिवम् ॥३२॥

धनकामस्य धनदं पुत्रकामस्य पुत्रदम् ॥ रोगार्तानां रोगहरं ज्ञानिनां ज्ञानसाधनम् ॥३३॥

यच्छुत्वा सर्वलोकेशो ब्रह्मा ब्रह्मपदं गतः ॥ नीलकंठ इदं श्रुत्वा निर्विषः सुखमाप्तवान् ॥३४॥

वज्री नाकपदं प्राप्तो यत्कथाश्रवणादरात् ॥ किमुक्तेन विशेषेण तत्फलं क्षिप्रमैष्यसि ॥३५॥

इत्युक्तो मुनिना तेन जनको वाक्यमब्रवीत् ॥ जनक उवाच ॥ वद वैकुंठमाहात्म्यं कलौ तच्चरितं कथं ॥३६॥

शतानंद उवाच ॥ कृते वृषाद्रि वक्ष्यंति त्रेतायामंजनाचलम् ॥ द्वापरं शेषशैलेति कलौ श्रीवेंकटाचलम् ॥३७॥

नामानि युगभेदेन शैलस्यास्य भवंति हि ॥ जनक उवाच ॥ चतुर्युगेषु यत्प्रोक्तं नाम तस्य गिरेर्मुने ॥३८॥

कृते वृषाद्रिरिति च कथं नाम भविष्यति ॥ शतानंद उवाच ॥ पुरा तु वृषभो नाम राक्षसो रुक्षकर्मकृत् ॥३९॥

अत्रस्थां शेषशैले तु तापसानत्यबाधयत् ॥ तेन संक्लिष्टतशसस्तद्वधे शरणं गताः ॥४०॥

श्रीनिवासं ह्रषीकेशं भक्तानामभयप्रदम् ॥ तुष्टुवुर्ह्रष्टमनसः स्त्रष्टारं सर्वचेतसाम् ॥४१॥

विज्ञापयन्मुनिश्रेष्ठास्तस्य कृत्यं कृतस्तवाः ॥ प्रादुर्बभूव भगवान्मुनीनां पुरतो हरिः ॥४२॥

मुनय ऊचुः ॥ भगवन्नारविंदाक्ष वृषभो नाम राक्षसः ॥ अवाधयत्सदा क्रूरस्तपोभंगकरः खलः ॥४३॥

तस्माद्रक्षस्व नो देव भयाद्राक्षसकल्पितात् ॥ बाढमित्युक्तावान्कृष्णो दुष्टमभ्यद्रवदुषा ॥४४॥

स राक्षसो महाराज तीर्थे तुंबुरुसंज्ञके ॥ स्नात्वा नित्यं वरां पुण्यां शालग्रामशिलां नृप ॥४५॥

नारसिंहात्मिकां दिव्यां सुकरालामधोमुखीम् ॥ नित्यमाराधयद्देवमिति निश्चित्य राक्षसः ॥४६॥

पुजांते स शिरःपुष्पं खड्‌गेनाह्रत्य भूपते ॥ समर्पयत्यसौ नित्यमागच्छति हि तत्पुनः ॥४७॥

एवं पंचसहस्त्राणि वर्षाणि विगतानि च ॥ तस्मिन्कालेरविंदाक्षः प्रत्यक्षः समभूत्तदा ॥४८॥

शिलांतर्यामि भगवान् श्रीनिवासः सतांगतिः ॥ तमालोक्य ह्रषीकेशं वृषभो दंडवद्‌भुवि ॥४९॥

पपात राजशार्दूल स विसंज्ञामुपेयिवान् ॥ मुहूर्तान्ते समुत्थाय प्रत्यभाषत केशवम् ॥५०॥

वृषभ उवाच ॥ केशवानंत गोविंद श्रीनिवास सुरोत्तम ॥ न च मोक्षं न च स्वर्गं पारमेष्ठ्यपदं हरे ॥५१॥

न याचे जगता नाथ युद्धभिक्षां च देह मे ॥ दशावतारविभवः श्रुतस्ते विक्रमो विभो ॥५२॥

अद्य तत्सत्यमाधत्स्व विक्रमं पुरुषोत्तम् ॥ देवस्तद्भारती श्रुत्वा किंचिद्भास्यमुखो हरिः ॥५३॥

उवाच वचनं त्म च राक्षसं युद्धदुमर्दम् ॥ श्रीभगवानुवाच ॥ अलमित्युक्तवान् कृष्णस्तथा स्वित्यरिमर्दनः ॥५४॥

तयोर्युद्धमभुत्तत्र वृषभश्रीनिवासयोः ॥ यत्कृतं श्रीनिवासेन तत्कृतं वृषभेण च ॥५५॥

तदद्‌भुतमभूतत्र देवानां पश्यतामपि ॥ तद्युद्धकौशलं दृष्ट्‌वा भगवान्पर्यपूजयत् ॥५६॥

भो राक्षसकुलोत्पन्न पश्य मे पौरुषं बलम् ॥ ततः संदर्शयामास गरुडं विकृताकृतिम्‍ ॥५७॥

तत्रस्थं वासुदेवं च विश्वरूपिणमव्ययम् ॥ सहस्त्रभुजसंयुक्तं सहस्त्रायुधभूषितम् ॥५८॥

तन्मायां राक्षसो दृष्ट्‌वा प्रत्येकं गरुडं हरिम् ॥ दर्शयामास राजेंद्र स्वमाया सुरमोहिनीम् ॥५९॥

नक्तंचरस्य चरितमतिक्रांतुं क्षमो हरिः ॥ शशंस राक्षसं वीरं साधुसाध्वित्यभाषत ॥६०॥

रे रे ते राक्षसश्रेष्ठ चक्रेण शितनेमिना ॥ आहरिष्ये शिरः कायाद्यथा पक्वफलं द्रुमात् ॥६१॥

इत्युक्तो देवराजेन वृषभो दंडवद्‌भुवि ॥ प्रणिपत्याऽऽह विशेशमस्तुवद्राक्षसेश्वरः ॥६२॥

वृषभ उवाच ॥ चक्रपाणे नमस्तुभ्य चक्रस्य चरितं श्रुतम् ॥ यच्चक्रेण प्रतप्तुस्तु मुक्तिमेति न संशयः ॥६३॥

यच्चक्रेण पुरा राजा कीर्तिमान्कीर्तिमाप्तवान् ॥ त्वच्चक्रेण हतः शीघ्रं व्रजामि तव मंदिरम् ॥६४॥

एवमुक्त्वा हरेः पादौ संस्पृश्य वृषभासुरः ॥ वरं ययाचे वृषभो भवेच्छैलो ममाभिधवः ॥६५॥

भवेद्देवं समालिंग्य त्यक्तवान्हि कलेवरम् ॥ तस्माद्‌वृषभशैलोयं कृते ख्यातिमगात्पुरा ॥६६॥

जनक उवाच ॥ कथमंजनशैलेति त्रेतायां नाम मे वद ॥ शतानंद उवाच ॥ पुरा केसरिणः पत्नी अंजना कंजलोचना ॥६७॥

अनपत्याख्यदुःखेन मतंगमुनिमभ्यगात् ॥ आनम्य मुनिशार्दूलमनिंद्यापत्यकर्शिता ॥६८॥

उवाच वचनं नेत्रनीरसिक्तकलेवरा ॥ अंजनोवाच ॥ किं मे तापसशार्दूल अपुत्रायाश्च का गतिः ॥६९॥

एवमुक्तोंजनादेव्या मतंगो वाक्यमब्रवीत् ॥ मतंग उवाच ॥ पंपायाः पूर्वदिग्भागे पंचाशद्योजनांतरे ॥७०॥

नारसिंहाश्रमो देवि वर्तते वसुधातले ॥ तस्य दक्षिणदिग्भागे नारायणगिरेस्तटे ॥७१॥

उत्तरे स्वामितीर्थस्य वर्तते क्रोशमात्रके ॥ वियद्गंगेति विख्याता तत्र गच्छ यथा सुखम् ॥७२॥

तत्र स्नात्वा तु कल्याणि द्वादशाब्दं तपश्चर ॥ तेन पुण्येन ते पुत्रो भविष्यति गुणाधिकः ॥७३॥

मतंगेनैव मुक्ता सा नारायणगिरिं नृप ॥ कृत्वा स्वामिसरःस्नानमश्वत्थस्य प्रदक्षिणम् ॥७४॥

वराहरूपिणं नत्वा पीत्वा तत्सलिलं शुभम् ॥ आकाशगंगामासाद्य तपः कर्तुमुपाश्रिता ॥७५॥

मुनीनामंत्र्य भर्तारं व्रतार्थ भक्ष्यवर्जिता ॥ उपवासपरा बाला बाह्यभोगविवर्जिता ॥७६॥

काष्ठवत्पर्यवस्थाप्य शरीरं स्वात्मनः शुचिः ॥ पूर्णे संवत्सरे जाते वायुदेवो महाबलः ॥७७॥

फलमादाय भक्ष्यार्य प्रत्यहं दापयन्मरुत ॥ अथैकस्मिन्दिने वायुः फले वीर्यं प्रपूर्य च ॥७८॥

वीर्यगर्भफलं तस्याः प्राक्षिपत्करसंपुटे ॥ फलं सा मन्यमानाहि क्षुधार्ता तत्प्रभक्षयत् ॥७९॥

ततो गर्भः समुत्पन्नोंऽजनायाश्च भूमिप ॥ मुनीनामभवद्धर्षो बायोर्गर्भसमुद्भवः ॥८०॥

अंजना दशमासांते सुषुवे पुत्रमुत्तमम् ॥ हनुमंतममुं प्राहुर्मुनयो वीतकल्मषाः ॥८१॥

अंजना व्रतमास्याय प्राप्तपुत्राभवद्गिरौ ! । तस्मांदजनशैलोयं कोके विख्यातकीर्तिमान् ॥८२॥

जनक उवाच ॥ सुसंतोषोभवद्बह्मन् श्रुत्वा तन्नामकारणम् ॥ द्वापर्र शेषशैलेति कथं ख्यातिर्भविष्यति ॥८३॥

शतानन्द उवाच ॥ पुरा वैकुंठनगरे द्वारि शेषं समादिशत् देवादिदेवो भगवान रमयन् रमया सह ॥८४॥

तस्मिन्काले महाराज मारुतः प्राणवल्लभः ॥ अकस्मात्कारणत्प्राप्तो भगवद्दर्शनाय च ॥८५॥

द्वारं निरोधयामास रुक्मदंडेन सर्पराट् ॥ किमर्थं रुद्धसे मूर्ख कार्यस्य महती त्वरा ॥८६॥

शेष उवाच ॥ अहमाज्ञाधरो विष्णोर्मा गच्छातस्ततो मरुत् ॥ इति तस्य वचः श्रुत्वा जगत्प्राणोब्रवीदिदम् ॥८७॥

ह्जयश्च विजयश्चैव शप्तौ तौ मुनिभिः पुरा ॥ अहंकारेण सहितौ कुंभकर्णदशाननौ ॥८८॥

विस्मृतं तत्त्वया मूर्खं द्वारपत्ये नियोजितौ ॥ तद्वाक्येनाहिराजेंद्रः प्रजज्वाल विषोल्बणः ॥८९॥

गर्हयन्वचनैस्तीक्ष्णैर्मुख्यप्राणमहीश्वरः ॥ शेष उवाच ॥ किं गरिष्ठवचः प्रोक्तं जीवनेच्छा न विद्यते ॥९०॥

यथा भानुगर्ति लोके नैव जानंति मोहिताः ॥ तत्कथं नरवद्वायो वृथा गर्वं प्रभाषसे ॥९१॥

बले ज्ञाने विरागे च विष्णुभक्तो न मत्समः ॥ सर्वदांतःपुरे वासः पुत्राणामधिको हरेः ॥९२॥

नृपलोकानां हितार्थाय हितार्थे जगदीशितुः ॥ स्थापितो द्वारपालत्वे लक्ष्मीनारायणेन च ॥९३॥

वायुरुवाच ॥ बिडालोंतःस्थितो वापि बहिस्थेभसमो न हि ॥ शयानं रत्नपर्यंके राजानमपि सेवते ॥९४॥

कश्चिद्दू तो नियुक्तस्तु पर्यंकारूढवान् स्वयम् ॥ किमाधिक्यं तस्य शेष पुत्रे का न्यूनता वद ॥९५॥

तयोर्विवादो ह्यभवच्चेषवाय्वोर्हमहात्मनोः ॥ लक्ष्म्या निबोधितः श्रीमानुत्तस्थौ गरुडध्वजः ॥९६॥

किमर्थं क्रोशसे शेष पुमान् कोत्रागतः परः ॥ इत्युक्तो देवदेवेन फणिराजोभ्यभाषत ॥९७॥

शेष उवाच ॥ मलयाचलवासेन वायुनात्यंतगर्विणा ॥ अव्याच्यवचनं चोक्तमनेनात्यंतमानिना ॥९८॥

तस्मिन्नेव हि काले तु साष्टांग प्रणिपत्य तम् ॥ वायुस्तुष्टाव पुरुषं पुराणं वेदगोचरम् ॥९९॥

वायुमालोक्य वचनं वारिजाक्षोब्रवीद्‌दुतम् ॥ किमर्थं कलहः पुत्र शेषेणात्यंतमानिना ॥१००॥

तुष्टो बभूब नृपते वायुरत्यंतभक्तिमान् ॥ शेष उवाच ॥ अहं समर्थो भगवन्बले ज्ञाने च त्वत्प्रिये ॥१०१॥

मत्समो नास्ति भूलोके नाके वा ब्रह्मणो गृहे ॥ सरीसृपवचः श्रुत्वा संपूज्य फणिनं हरिः ॥१०२॥

श्रीभगवानुवाच ॥

ना वाङ्‌मात्रेण पौरुष्यं क्रिया केवलमुत्तमम् ॥ बलाबलं परीक्षंति देवाश्चेंद्रपुरोगमाः ॥१०३॥

अत्रेवोत्तरदिग्भागे पर्वतं मेरुनंदनम् ॥ स्वकायरज्जुना बद्‌ध्वा बलं ते यावदस्ति हि ॥१०४॥

तिष्ठ भद्र महाभोगिन् विषफूत्कारसंयुतः ॥ ह्रषिकेशवचः श्रुत्वा ह्रष्टपुष्टांगविभ्रमः ॥१०५॥

स्वकायरज्जुना बद्‌ध्वा ह्यानंदाद्री महीपते ॥ स्थिरो वभूव चामत्र्य वायुं वेगवता वरम् ॥

तमालोक्याग्निदायितः पर्वतं तमुपागतः ॥१०६॥

आज्ञया वासुदेवस्य देवानां पश्यतामपि ॥ कनिष्टांगुलिसंस्पर्शात्पर्वतो भोगिसंयुतः ॥१०७॥

सहस्त्रमर्धलक्षं च दक्षिणाभिमुखो ययौ ॥ मेरुस्तुष्टाव नृपते बलदेवं महाबलम् ॥१०८॥

मेरुरुवाच ॥ त्रायतां त्रायतां स्वामिन्पुत्रं बालं महाबल ॥ एवमुक्तो मेरुणाऽथ वायुस्त्वरितमानसः ॥१०९॥

शेषेण गिरिपुत्रेण स्वर्णमुख्यास्तटोत्तरेः ॥ स्थापयामास राजेंद्र गिरिराजं सपन्नगम् ॥११०॥

शेषो गतमदः पश्चात्तुष्टाव मरुतां पतिम् ॥क्षमस्व मम दौरात्म्यमज्ञानेनागतं विभो ॥१११॥

निर्वैरस्तत्प्रसादं च चकार मरुता पतिः ॥ राजन् शेषनिमित्तेन शेशाचलमिमं विदुः ॥११२॥

जनक उवाच ॥ कलौ वेंकटशैलिति कथं नाम महामुने ॥ शतानंद उवाच ॥ पुरा पुरंदरो नाम सोमयाजी दृढ्व्रतः ॥११३॥

कालहस्त्याख्यनगरे सत्यवाग्ब्राह्मणोऽभवतु ॥ अपुत्रस्यापि विप्रस्य नाभूद्दुःखं सुताप्तये ॥११४॥

दैवेन पूर्वपुण्येन पुत्रोभूत्वृद्भभूसुरे ॥ चकार नामलिखितं माधवं विप्रसंसदि ॥११५॥

पुत्रोपनीतो बालस्तु ववृधे चंद्रवन्नृप ॥ वेदवेदांगतत्त्वज्ञः सर्वविद्याविशारदः ॥११६॥

ततः कालांतरे पुत्रं प्राप्तदारं चकार ह ॥ स चंद्रलेखया रेमे बहुकालं स माधवः ॥११७॥

पंचयज्ञपरो नित्यं पंचाननसमद्युतिः ॥ त्रिसप्त वर्षं राजेंद्र द्वितीय इव भास्करः ॥११८॥

सा कन्या पांड्यदेशीया पांडवानां तथा प्रिया ॥ पतौ सुप्ते स्वयं शेते पतौ भुंक्ते स्वभोज्जनम् ॥११९॥

कदाचिद्‌द्विजपुत्रस्तु दिवासंगमतत्परः ॥ राजपुत्री समासाद्य राजन्कामात्रो द्विजः ॥१२०॥

ममेच्छा वर्तते भद्रे संगमे तव भामिनी ॥ पतिवाक्यमुपाकर्ण्य पतिं प्राह प्रजापते ॥१२१॥

चंद्रलेखोवाच ॥ शरीरमस्थिमांसाद्यैः पूरितं पुरुषर्षभ ॥ शरीरेण शरीरस्य संगमः साध्वसंमतः ॥१२२॥

तत्रापि दिवसक्रीडामयुक्तां मुनयो विदुः ॥ निकेतने पिता माता अग्निहोत्रं च देवराट् ॥१२३॥

प्रभाकरप्रभां पश्य त्यज कामं द्विजात्मज ॥ वधूवचनमाकर्ण्य माधवो वाक्यमब्रवीत् ॥१२४॥

माधव उवाच ॥ भामिनी भव मे सौख्ये पूरयाद्य मनोगतम् ॥ भर्तुर्वचनमाकर्ण्य भर्तारंवाक्यब्रवीत् ॥१२५॥

चंद्रलेखोवाच ॥ गच्छामि जलहेतोस्तु गच्छं त्वं पुरतो मुने ॥ तदा जगाम राजेंद्र कुशार्थं कुस्वभावतः ॥१२६॥

सा जगामाथ पानीयपात्रमादाय भामिनी ॥ तामन्वगान्माधवोपि वनकूटमभिद्रुमम् ॥१२७॥

वनांतरे वसंती च वनितां द्रुममूलगाम् ॥ विचित्ररूपलावण्यां पूर्णचंद्रनिभाननाम् ॥१२८॥

धवलांबरसंबद्धां कटिमेखलयान्विताम् ॥ सुनासां सुभगां सुभ्रूं सुपूर्णसुपयोधराम् ॥१२९॥

तां दृष्ट्‌वा मोहितो विप्रः कुंतलां नीलकुंतलाम् ॥ स्निग्धकंचुकसंबद्धा कोकिलस्वररंजिताम् ॥१३०॥

अंजनालिप्तनयनां मंजुलस्वररंजिताम् ॥ पादेन विलिखंती गांजानुस्थितशिरोरुहाम् ॥१३१॥

दृष्ट्‌वा क्लिष्टमना भूत्वा चिंतयन् ब्रह्म निर्णयम् ॥ स्वभार्यां प्रत्युवाचेदं गच्छ प्राणप्रिये गृहम् ॥१३२॥

इच्छा मे पूर्णता याता त्वद्भक्त्या परितोषितः ॥ चंद्रलेखोवाच ॥ अलमुक्तं त्वया भद्र गच्छामि भवनं स्वक्रम् ॥१३३॥

भर्तुराज्ञामुपानीय चंद्रलेखा गृहं गता ॥ यावद्गच्छति सा भार्या तावत्तत्र स्थितोभवत् ॥१३४॥

गतायां स्वप्रियायां च तां बालां पर्यपद्यत ॥ शनैर्जगाम राजेंद्र स्मरेण ह्रतचेतनः ॥१३५॥

समीपस्थं मुनिं प्रेक्ष्य राजन्पृथुललोचना ॥ स्वरभेदं प्रकुर्वंती वाक्यमूचेऽथ माधवम् ॥१३६॥

कुंतलोवाच ॥ मा याहि मुनिशार्दूल मत्समीपे महामते ॥ स च तद्वचन श्रुत्वा सहसा वाक्यमब्रवीत ॥१३७॥

माधव उवाच ॥ का त्वं कल्याणि कस्माच्च जातासि जननी च का ॥ आवासस्तव भद्रं ते कस्मिन् राष्ट्रे वरानने ॥१३८॥

सा चेत्थमुक्ता मुनिना जातिमाह मनस्विनी ॥ १३९॥

कुंतलोवाच ॥ किं मां पृच्छसि पापिष्टामंत्यजातिकुलोद्भवाम् ॥ अंत्यजांत्यजयोर्जातां सुरामांसाशनी खलाम् ॥१४०॥

मध्यदेशे निवासो मे किं त्वं पृच्छसि भूसुर ॥ वेदांतवेद्यो विप्रेंद्र न मां त्वं द्रष्टुर्महसि ॥१४१॥

मां स्प्रष्टुं क्रीडनार्थं वा कथमिच्छसि मूढधीः ॥ जल्पंती तां समालोक्य माधवो वाक्यमब्रवीत् ॥१४२॥

माधव उवाच ॥ वृथा नारायणाज्जातो ब्रह्मा लोकपितामहः ॥ अंध एव महाराज रोचते मे मतिः सदा ॥१४३॥

वृथा स्जनयामास वनितां वनहेतवे ॥ तथापि मम बुद्धिस्तु तत्रैव रमते सदा ॥१४४॥

लवणोदकजातानि रत्नानि विविधानि च ॥ अंगीकुर्वंति देवाश्च तेजःप्राधान्यकारणात् ॥१४५॥

तस्मादहंसुरूपत्वात् त्वयि भोगं करोमि च ॥ इतो वा नरकं यास्ये पितृभिःसह सुस्मिते ॥१४६॥

इत्येवमुक्ता द्विजबालकेन रुरोद कन्या तरुणारुणप्रभा ॥ दिवौकसो विप्रवरो विमुच्यतां दोषादमुष्माद्सतीप्रसंगात् ॥१४७॥

दिग्देवतायाश्च गणाधिनाथो ह्यग्नींदुपूर्वाः सचराचराश्च ॥ शृण्वंतु वाक्यं मम विप्रपुत्रो वृथा मृतिं हास्यति पापिसंगात् ॥१४८॥

विललाप महाराज ब्राह्मणार्थं सुमध्यमा ॥ मा स्पृशाद्य महीदेव पापिनी व्यभिचारिणीम् ॥ कः स्पृशेदग्नीमार्तः सन्सर्पं व्याघ्‍रं गजं द्विज ॥१४९॥

परपत्न्यग्नितुल्या स्यात्तत्र चांडालकन्यका ॥ उत्तमं पदमास्थाय नीच इच्छत्यधोगतिम् ॥१५०॥

ज्ञानिनो न वृथा तव बुद्धिस्तु तादृशी ॥ जाती द्वे निर्मिते पूर्वं विष्णुना द्विजसत्तम ॥१५१॥

पुंस्त्वस्त्रीत्वप्रभेदेन चातुर्वर्णेन भूसुर ॥ ब्राह्मणस्य ब्रह्मयोनिं परेषां तु परस्परम् ॥१५२॥

विपरीतमहं पश्येद्धर्मत्यागं द्विजन्मनाम् ॥ शरीरं तव विपेंद्र वेदपूतं विशेषतः ॥१५३॥

ऋतुकाले यदा मातुस्तव पित्रा निशागमे ॥ रेतोत्सृष्टं वेदपूतं गर्भाधानमिमं विदुः ॥१५३॥

सीमंतं कल्पयामासुर्मंत्रैर्वेदमयोर्द्बिज ॥ दशमासे तु संप्राप्ते प्रासूत जननी तव ॥१५५॥

तथैव जातकर्मादि कृतवान्‍ शास्त्रपूर्वकम् ॥ अन्नप्राशनचौलादि ब्रह्मपुत्रोत्सवादिकम् ॥१५६॥

अग्निसाक्षिविधानेन प्राप्तदारं चकार सः ॥ अधीतवेदवेदांगश्चाहिताग्निवृते स्थितः ॥१५७॥

एतादृशस्य देहस्य संगमस्तु कथं भवेत् ॥ कर्णौ हरिकथालापात्पावितौ नासिका तव ॥१५८॥

हर्यर्पितसुंगधेन पावितं जठरं मुने ॥ वासुदेवार्पितान्नेन पूरितं पुरुषर्षभ ॥१५९॥

कृष्णार्चनप्रसंगेन करौन पावित्र्यमागतौ ॥ हरिनामकलापेन जिव्हा ते पावनी कृता ॥१६०॥

पुण्यक्षेत्रानुचारेण पादौ ते पावनौ कृतौ ॥ एतादृशेन देहेन कथं संगः प्रशस्यते ॥१६१॥

त्वमपि शृणु माहात्म्यं देहस्य मम भो द्विज ॥ अवाच्यवचनेनैव जिव्हा मे दह्यते सदा ॥१६२॥

सुरामांसाशनेनैव जठरं गुल्मतां गतम् ॥ व्यभिचारकथालापात्कर्णो मे शिथिलीकृतौ ॥१६३॥

पादौ जारगृहं गत्वा पाषाणसदृशौ मम ॥ गोवधान्मत्करौ क्रूरौ यमदंडसमप्रभौ ॥१६४॥

एतादृशस्य देहस्य संगमस्तु कथं भवेत् ॥ उत्तमो नीचतां प्राप्यं कथं स्वर्ग गमिष्यति ॥१६५॥

परस्त्रीसंगदोषेण बहवो मरणं गताः ॥ तस्मादुत्तिष्ठ भद्रं ते तव दासी भवामि भो ॥१६६॥

वनितावचनं श्रुत्वा वाक्यमूचे द्विजात्मजः ॥ माधव उवाच ॥ त्वदीयसंगो बहुकालपुण्यप्रभावतो मुक्तिकरः शुभावहः ॥१६७॥

दैवेन योगेन हरेः प्रसादप्रभावलभ्यः पुरुषार्थहेतुः ॥ तस्माद्भजस्वानुगतोस्मि भमिनी त्यजाद्य लज्जां कुरु मे मनोगतम् ॥१६८॥

गच्छंत्यद्य मम प्राणास्त्वद्वियोगेन केवलम् ॥ तस्माज्जीवय भद्रे त्वं मरणाभिमुखं च माम् ॥१६९॥

एवमुक्ता द्विजेंद्रेण पृथुश्रोणी समुत्थिता ॥ पलायनायाशु मतिं चक्रे चांडालकन्यका ॥१७०॥

धावमानामनुदुत्य माधवस्तामुपास्पृशत् ॥ गौरवं जनकस्याथ जनन्या जननीपितुः ॥१७१॥

स्यादिति क्रोशमानां तां माधवो मन्मथार्दितः ॥ बलात्कारेण संगृह्य बुभुजे ब्राह्मणाधमः ॥१७२॥

भोगात्यये द्विजं बाला वाचमूचे मनस्विनी ॥ कुंतलोवाच ॥ अद्य प्रभृति भो विप्र पतिस्त्वं मम भूसुर ॥१७३॥

त्यज यज्ञोपवीतं ते मुंडयित्वा शिरस्तथा ॥ अब्राह्मण्यमुपागम्य भक्ष गोमांसमुत्तममू ॥१७४॥

पिंब मद्योदकं शीघ्‍रं चांडालत्वमुपागतः ॥ तद्वाक्यमाकर्ण्य तदा तयोक्तं सर्वमाचरन् ॥१७५॥

चांडालाचरिताचार जगाम् विधिचोदितः ॥ विप्रस्तथा समेतस्तु कृष्णवेणीनदीतटं ॥१७६॥

द्वादशाब्दं वसन् विप्रत्तत्संग षरिमोहितः ॥ अनित्यत्वाच्छरीरस्य कालपाशेन यंत्रिता ॥१७७॥

जगाम मरणं राजन् कुंतला नीलकुंतला ॥ तया विरहितः श्रीमान्माधवो दुःखकातरः ॥

अचरद्र्‌भुवनं सर्वमुन्मादेनोद्‌भ्रमन्निव ॥१७८॥

तदा तु दैवयोगेन राजानश्चोत्तरास्तदा ॥१७९॥

यात्रार्थमनुजग्मुस्ते वराहस्य तु पर्वतम् ॥ मार्गमध्ये ददर्शासौ माधवस्ता न्महीपतीन् ॥१८०॥

भ्रमन्नेवाथ तैः सार्धं तदुच्छिष्टन्नभोजनः ॥ प्राप्तः सर्पगिरिं राजन् दैवयोगेन भूसुरः ॥१८१॥

ते राजानस्तत्र गत्वा तीर्थे कपिलसंज्ञिके ॥ स्नात्वा भक्तिसमायुक्ता वपनं चक्रुरादरात् ॥१८२॥

तदा नृपाः सुसंह्रष्टाः पावर्णानि ददुर्नृप ॥ माधवोऽपि शुभे तीर्थे स्नात्वा वपनपूर्वकम् ॥

पार्वणानि मृदा कृत्वा पितृभ्यः श्रद्धया ददौ ॥१८३॥

दैवाद्वा कर्मयोगेन माधवो गतकल्मषः ॥१८४॥

तस्माद्यौ मानवो भक्त्या कुर्यात्तीर्थावगाहनम् ॥ पितृश्राद्धं पिंडदानं तत्र चेन्मुक्तिभाग्भवेत् ॥

मृत्पिंडं कृतवान्विप्रः पुण्यक्षेत्रे पुरातने ॥१८५॥

किं वर्णयामः पुरुषोत्तमस्य क्षेत्रस्य तीर्थस्य सुपुण्यशक्तिम् ॥ मुत्पिंडदानेन पिता मयाद्या मुक्तिं प्रयाता मुरवैरि शासनात् ॥१८६॥

प्रभाते विमले प्राप्ते राजानो राजसत्तम ॥ समारुह्य गिरिश्रेष्ठं सपुत्राश्च सबांधवाः ॥१८७॥

तेषामनु महाराज्ञामाप शेषगिरिं द्विजः ॥ विश्रांताः सर्वराजानस्तत्र तत्र महीपते ॥ सोऽपि तस्थो द्विजश्रेष्ठो माधवो गिरिमस्तके ॥१८८॥

भूधरस्पर्शमात्रेण तदघं पर्यतप्यत ॥ माधवस्याभवत्कष्टं यथा मक्षिकभक्षणात् ॥१८९॥

वमन्तमेनं तं पापं समावण्वन् समंततः ॥ तदंगजातः कोप्यग्निरद्रिमाहात्म्यतस्तदा ॥१९०॥

प्रजज्वाल दहन् पापं सुरामांसाशनोद्भवम् ॥ तस्य दुर्गंधधूमेन त्रासिताः सर्वदेवताः ॥

तद्भाववेदिनो देवा ब्रह्मरुद्रपुरःसराः ॥१९१॥

विमानानि विचित्राणि भासयंतः समागताः ॥ खमार्गे संस्थिताः सर्वे दृष्ट्‌वा तच्चरितं नृप ॥१९२॥

ववृषुः पुष्पवर्षाणि माधवस्योत्तमांगके ॥ दृष्ट्वा पितामहः श्रीमान्विमानादवरुह्य सः ॥१९३॥

माधवं गतपाप्मानमजामिलं यथा हरिः कृपयोद्‌धृतवान्कृष्णः कृपालुर्द्विजपुंगवम् ॥१९४॥

इति संचितयंस्तस्य निकटं प्राप सादरम् जिर्‍घंश्च तच्छिरःश्रीमान् ब्रह्मा वाक्यमथाब्रवीत् ॥१९५॥

भो भो माधव विपेंद्र गतपापोसि केवलम् स्वामितीर्थस्य निकटं गत्वा स्नात्वाथ तज्जले ॥ वराहवदनं नत्वा त्यज देहं महीसुर ॥१९६॥

महीपालोऽथ भूत्वा तु कुरु राज्यमकंटकं ॥ पांडवानां च दौहित्रकुले जातोऽतिकीर्तिमान् ॥१९७॥

सुधर्मस्य सुतो भूत्वाऽऽकाशनामाथ दक्षिणे ॥ नारायणपुरे वीर तोंडदेशाधिपो भव ॥१९८॥

तव पुत्र जगन्माता जामाता च जगत्पतिः ॥ भविष्यति महाराज पश्चाद्वैकुंठमाप्स्यसि ॥१९९॥

इति तस्य वरं दत्वा चतुरश्चतुराननः ॥ तदा नाम चकाराद्रेर्वेकटाचल इत्यपि ॥२००॥

वें पापं कटते यस्मात्पापदाहनशक्तितः ॥ वेंकटाचल इत्येव नाम देवास्तदा जगुः ॥२०१॥

तस्माद्वेंकटशैलोंऽयं लोके विख्यातकीर्तिमान् ॥ प्रभातकाले राजेंद्र यः कीर्तियति भूधरम् ॥२०२॥

तस्य पुण्यफलं वक्ष्ये शृणु राजन्यथा स्थितम् ॥ फलं भवेद्‌भुवं गंगासेतुयात्रासहस्त्रजम् ॥२०३॥

इतिहासमिमं प्रोक्तं गौतमेन मयोदितम् ॥ पुण्यं परमकल्याणं श्रवणाद्भद्रदायकम् ॥२०४॥

इति श्रीभविष्योत्तरपुराणे वेंकटगिरिमाहात्म्ये चतुर्युगमहिमाविशेषवर्णनं नाम प्रथमोऽध्यायः ॥

श्रीवेंकटेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP