संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता| पाराशरगीता गीता अष्टावक्र गीता अवधूत गीता दत्तगीता श्री गणेश गीता श्रीरमणगीता ऋभु गीता शिवगीता सूर्य गीता सूत गीता उत्तर गीता भाष्य श्री विष्णोर्नाम गीता बकगीता गर्भगीता काश्यपगीता मङ्किगीता पृथिवीगीता पितृगीता सरस्वतीगीता तुलसीगीता उतथ्यगीता उत्तरगीता वैष्णवगीता वसिष्ठ गीता धर्मव्याधगीता यमगीता युधिष्ठिरगीता श्रीगुरुचरित्रातील श्रीगुरुगीता गीता प्रस्तावना गुरुगीता रामगीता अनुगीता जीवनमुक्ति गीता बोध्यगीता ब्रह्मगीता ब्राह्मणगीता हंसगीता हारीतगीता मङ्किगीता पांडव गीता पाराशरगीता पिंगलागीता ऋषभगीता षड्जगीता शंपाकगीता श्रुतिगीता वामदेवगीता विचखुगीता वृत्रगीता उतथ्यगीता पाराशरगीता गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे. Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaparasharगीतापाराशर पाराशरगीता Translation - भाषांतर ॥ पाराशरगीता॥ २७९य्अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे । न तृप्याम्यमृतस्येव वससस्ते पितामह ॥१॥किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम । श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥२॥भीअत्र ते वर्तयिष्यामि यथापूर्वं महायशः । पराशरं महात्मानं पप्रच्छ जनको नृपः ॥३॥किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च । यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ॥४॥ततः स तपसा युक्तः सर्वधर्माविधानवित् । नृपायानुग्रह मना मुनिर्वाक्यमथाब्रवीत् ॥५॥धर्म एव कृतः श्रेयानिह लोके परत्र च । तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥६॥प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते । धर्मात्मकः कर्म विधिर्देहिनां नृपसत्तम । तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥७॥चतुर्विधा हि लोकस्य यात्रा तात विधीयते । मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥८॥सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः । दशार्ध प्रविभक्तानां भूतानां बहुधा गतिः ॥९॥सौवर्णं राजतं वापि यथा भान्दं निषिच्यते । तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः ॥१०॥नाबीजाज्जायते किं चिन्नाकृत्वा सुखमेधते । सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ॥११॥दैवं तात न पश्यामि नास्ति दैवस्य साधनम् । स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥१२॥प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः । ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥१३॥लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः । शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥१४॥चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥१५॥निरन्तरं च मिश्रं च फलते कर्म पार्थिव । कल्यानं यदि वा पापं न तु नाशोऽस्य विद्यते ॥१६॥कदा चित्सुकृतं तात कूतस्थमिव तिष्ठति । मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥१७॥ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते । सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ॥१८॥दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता । ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ॥१९॥दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् । नित्यं मनः समाधाने प्रयतेत विचक्षणः ॥२०॥नायं परस्य सुकृतं दुष्कृतं वापि सेवते । करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥२१॥सुखदुःखे समाधाय पुमानन्येन गच्छति । अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव ॥२२॥परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः । यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ॥२३॥भीरू राजन्यो ब्राह्मणः सर्वभक्षो वैश्योऽनीहावान्हीनवर्णोऽलसश् च । विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥२४॥रागी मुक्तः पचमानोऽऽत्महेतोर् मूर्खो वक्ता नृप हीनं च रास्त्रम् । एते सर्वे शोच्यतां यान्ति राजन् यश्चायुक्तः स्नेहहीनः प्रजासु ॥२५॥२८०पराज़रमनोरथरथं प्राप्य इन्द्रियार्थ हयं नरः । रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् ॥१॥सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते । द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥२॥आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते । उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥३॥वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति । न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥४॥वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा । दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥५॥अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्नुदेत् । पापं हि कर्मफलति पापमेव स्वयं कृतम् । तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥६॥पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् । न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥७॥किं कस्तमनुपश्यामि फलं पापस्य कर्मणः । प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥८॥प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते । तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥९॥विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् । प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥१०॥स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति । प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥११॥अजानात्तु कृतां हिंसामहिंसा व्यपकर्षति । ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥१२॥कथा कामकृतं चास्य विहिंसैवापकर्षति । इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥१३॥अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् । गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥१४॥यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् । बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥१५॥भवत्यल्पफलं कर्म सेवितं नित्यमुल्बनम् । अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥१६॥कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा । नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥१७॥सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः । करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥१८॥नवे कपाले सलिलं संन्यस्तं हीयते यथा । नवेतरे तथा भावं प्राप्नोति सुखभावितम् ॥१९॥सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते । वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥२०॥एवं कर्माणि यानीह बुद्धियुक्तानि भूपते । नसमानीह हीनानि तानि पुण्यतमान्यपि ॥२१॥राज्ञा जेतव्याः सायुधाश्चोन्नताश् च सम्यक्कर्तव्यं पालनं च प्रजानाम् । अग्निश्चेयो बहुभिश्चापि यज्ञैर् अन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥२२॥दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत् । गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र ॥२३॥२८१पराज़रकः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति । प्रानी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥१॥गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् । सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥२॥विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ । तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥३॥न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् । संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥४॥न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् । शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् ॥५॥अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा । शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् ॥६॥रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना । फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ ॥७॥तैरेव फलपत्रैश्च स माथरमतोषयत् । तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ॥८॥देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा । ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥९॥स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा । पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च ॥१०॥वाचः शेषावहार्येण पालनेनात्मनोऽपि च । यथावद्धृत्य वर्गस्य चिकीर्षेद्धर्ममादितः ॥११॥प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः । सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ॥१२॥विश्वामित्रस्य पुत्रत्वमृचीक तनयोऽगमत् । ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः ॥१३॥गतः शुक्रत्वमुशना देवदेव प्रसादनात् । देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥१४॥असितो देवलश्चैव तथा नारद पर्तवौ । कक्षीवाञ्जामदग्न्यश्च रामस्तान्द्यस्तथांशुमान् ॥१५॥वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च । भरद्वाजो हरिश्मश्रुः कुन्दधारः श्रुतश्रवाः ॥१६॥एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः । लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥१७॥अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह । न तु वृद्धिमिहान्विच्छेत्कर्मकृत्वा जुगुप्सितम् ॥१८॥येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् । धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥१९॥आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः । वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥२०॥स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते । श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥२१॥अग्निरात्मा च माता च पिता जनयिता तथा । गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥२२॥मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यति प्रीतियोगात् । दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥२३॥२८२पराज़रवृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना । प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥१॥वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा । न वृत्तिं परतो मार्गेच्छुश्रूसां तु प्रयोजयेत् ॥२॥सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः । नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥३॥यथोदय गिरौ द्रव्यं संनिकर्षेण दीप्यते । तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥४॥यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् । तादृशं कुरुते रूपमेतदेवमवैहि मे ॥५॥तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन । अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥६॥सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः । यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥७॥धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् । न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥८॥यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता । स शब्दमात्रफलभाग्राजा भवति तस्करः ॥९॥स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् । धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥१०॥तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् । रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥११॥अजिह्मैरशथ क्रोधैर्हव्यकव्य प्रयोक्तृभिः । शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥१२॥अप्रनस्ते ततो धर्मे भवन्ति सुखिताः प्रजाः । सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥१३॥तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते । अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥१४॥यश्च शुश्रूसते शूद्रः सततं नियतेन्द्रियः । अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥१५॥प्राण सन्तापनिर्दिष्टाः काकिन्योऽपि महाफलाः । न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥१६॥सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप । यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥१७॥अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् । याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥१८॥अवज्ञया दीयते यत्तथैवाश्रद्धयापि च । तदाहुरधमं दानं मुनयः सत्यवादिनः ॥१९॥अतिक्रमे मज्जमानो विविधेन नरः सदा । तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥२०॥दमेन शोभते विप्रः क्षत्रियो विजयेन तु । धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥२१॥२८३पराज़रप्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः । वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूसयार्जिताः । स्वलाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ॥१॥नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूसुरुच्यते । क्षत्रधर्मा वैश्य धर्मा नावृत्तिः पतति द्विजः । शूद्र कर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥२॥वानिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् । शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥३॥रङ्गावतरणं चैव तथारूपोपजीवनम् । मद्य मांसोपजीव्यं च विक्रयो लोहचर्मणोः ॥४॥अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥५॥संसिद्धिः पुरुषो लोके यदाचरति पापकम् । मदेनाभिप्लुत मनास्तच्च न ग्राह्यमुच्यते ॥६॥श्रूयन्ते हि पुराणे वै प्रजा धिग्दन्द शासनाः । दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ॥७॥धर्म एव सदा नॄणामिह राजन्प्रशस्यते । धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥८॥तं धर्ममसुरास्तात नामृष्यन्त जनाधिप । विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥९॥तेषां दर्पः समभवत्प्रजानां धर्मनाशनः । दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ॥१०॥ततः क्रोधाभिभूतानां वृत्तं लज्जा समन्वितम् । ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥११॥ततो मोहपरीतास्ते नापश्यन्त यथा पुरा । परस्परावमर्देन वर्तयन्ति यथासुखम् ॥१२॥तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत् । ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥१३॥एतस्मिन्नेव काले तु देवा देववरं शिवम् । अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ॥१४॥तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ । तिस्रोऽप्येकेन बानेन देवाप्यायित तेजसा ॥१५॥तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः । देवतानां भयकरः स हतः शूलपाणिना ॥१६॥तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः । प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ॥१७॥ततोऽभ्यसिञ्चन्राज्येन देवानां दिवि वासवम् । सप्तर्षयश्चान्वयुञ्जन्नराणां दन्द धारणे ॥१८॥सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः । राजानः क्षत्रियाश्चैव मन्दलेषु पृथक्पृथक् ॥१९॥महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये । तेषामथासुरो भावो हृदयान्नापसर्पति ॥२०॥तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः । आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः ॥२१॥प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च । भजन्ते तानि चाद्यापि ये बालिशतमा नराः ॥२२॥तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः । संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥२३॥न सङ्करेण द्रविणं विचिन्वीत विचक्षणः । धर्मार्थं न्यायमुत्सृज्य न तत्कल्यानमुच्यते ॥२४॥स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः । प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥२५॥इष्टानिष्ट समायोगो वैरं सौहार्दमेव च । अथ जातिसहस्राणि बहूनि परिवर्तते ॥२६॥तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन । निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥२७॥मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः । न तथान्येषु भूतेषु मनुष्यरहितेष्विह ॥२८॥धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा । आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् ॥२९॥यदा व्यपेतद्धृल्लेखं मनो भवति तस्य वै । नानृतं चैव भवति तदा कल्यानमृच्छति ॥३०॥२८४पराज़रएष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः । तपस्विधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥१॥प्रायेन हि गृहस्थस्य ममत्वं नाम जायते । सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥२॥गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च । दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥३॥एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः । रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥४॥रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् । मोहजाता रतिर्नाम समुपैति नराधिप ॥५॥कृतार्थो भोगतो भूत्वा स वै रतिपरायनः । लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥६॥ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् । पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥७॥स जानन्नपि चाकार्यमर्थार्थं सेवते नरः । बाल स्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥८॥ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् । करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥९॥तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्म दर्शनम् । अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥१०॥स्नेहायतन नाशाच्च धननाशाच्च पार्थिव । आधिव्याधि प्रतापाच्च निर्वेदमुपगच्छति ॥११॥निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्र दर्शनम् । शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥१२॥दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् । यो वै प्रिय सुखे क्षीणे तपः कर्तुं व्यवस्यति ॥१३॥तपः सर्वगतं तात हीनस्यापि विधीयते । जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥१४॥प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः । क्व चित्क्व चिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥१५॥आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः । विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥१६॥यक्षराक्षस गन्धर्वाः सिद्धाश्चान्ये दिवौकसः । संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥१७॥ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा । ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥१८॥मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः । महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥१९॥कौशिकानि च वस्त्राणि शुभान्याभरणानि च । वाहनासन यानानि सर्वं तत्तपसः फलम् ॥२०॥मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः । वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥२१॥शयनानि च मुख्यानि भोज्यानि विविधानि च । अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥२२॥नाप्राप्यं तपसा किं चित्त्रैलोक्येऽस्मिन्परन्तप । उपभोग परित्यागः फलान्यकृतकर्मणाम् ॥२३॥सुखितो दुःखितो वापि नरो लोभं परित्यजेत् । अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥२४॥असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः । ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यास वर्जिता ॥२५॥नष्ट प्रज्ञो यदा भवति तदा न्यायं न पश्यति । तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश् चरेत् ॥२६॥यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते । कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥२७॥नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते । प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥२८॥अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् । फलार्थी तत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥२९॥धर्मे तपसि दाने च विचिकित्सास्य जायते । स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥३०॥सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम । स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥३१॥इषुप्रपात मात्रं हि स्पर्शयोगे रतिः स्मृता । रसने दर्शने घ्राणे श्रवणे च विशां पते ॥३२॥ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः । बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥३३॥ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः । धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥३४॥अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा । प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥३५॥मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् । धर्मक्रिया वियुक्तानामशक्त्या संवृतात्मनाम् ॥३६॥क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् । तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥३७॥सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम् । दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥३८॥यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम् । एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम् ॥३९॥२८५जनकवर्णो विशेषवर्णानां महर्षे केन जायते । एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥१॥यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः । कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥२॥पराज़रएवमेतन्महाराज येन जातः स एव सः । तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥३॥सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः । अतोऽन्यतरतो हीनादवरो नाम जायते ॥४॥वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे । सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥५॥मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः । ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥६॥चतुर्णामेव वर्णानामागमः पुरुषर्षभ । अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ॥७॥क्षत्रजातिरथाम्बस्था उग्रा वैदेहकास्तथा । श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥८॥आयोगाः करणा व्रात्याश्चन्दालाश्च नराधिप । एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥९॥जनकब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् । बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥१०॥यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः । शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥११॥पराज़रराजन्नेतद्भवेद्ग्राह्यमपकृष्टेन जन्मना । महात्मानं समुत्पत्तिस्तपसा भावितात्मनाम् ॥१२॥उत्पाद्य पुत्रान्मुनयो नृपतौ यत्र तत्र ह । स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥१३॥पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः । वतस्तान्द्यः कृपश्चैव कक्षीवान्कमथादयः ॥१४॥यवक्रीतश्च नृपते द्रोणश्च वदतां वरः । आयुर्मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च ॥१५॥एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् । प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ॥१६॥मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव । अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥१७॥कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव । नामधेयानि तपसा तानि च ग्रहणं सताम् ॥१८॥जनकविशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम । तथा सामान्य धर्मांश्च सर्वत्र कुशलो ह्यसि ॥१९॥पराप्रतिग्रहो याजनं च तथैवाध्यापनं नृप । विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ॥२०॥कृषिश्च पाशुपाल्यं च वानिज्यं च विशाम् अपि । द्विजानां परिचर्या च शूत्र कर्म नराधिप ॥२१॥विशेषधर्मा नृपते वर्णानां परिकीर्तिताः । धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥२२॥आनृशंस्यमहिंसा चाप्रमादः संविभागिता । श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥२३॥स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता । आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥२४॥ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥२५॥विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः । उन्नमन्ति यथा सन्तमाश्रित्येह स्वकर्मसु ॥२६॥न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा । श्रुतिप्रवृत्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् ॥२७॥वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः । अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् ॥२८॥सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः । मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥२९॥यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः । तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥३०॥जकिं कर्म दूसयत्येनमथ जातिर्महामुने । सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥३१॥पराअसंशयं महाराज उभयं दोषकारकम् । कर्म चैव हि जातिश्च विशेषं तु निशामय ॥३२॥जात्या च कर्मणा चैव दुष्टं कर्म निषेवते । जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥३३॥जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् । कर्म तद्दूसयत्येनं तस्मात्कर्म न शोभनम् ॥३४॥जकानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम । न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥३५॥पराशृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि । यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥३६॥संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः । नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥३७॥प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः । प्रयान्ति स्थानमजरं सर्वकर्म विवर्जिताः ॥३८॥सर्वे वर्णा धर्मकार्याणि सम्यक् कृत्वा राजन्सत्यवाक्यानि चोक्त्वा । त्यक्त्वाधर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥३९॥२८६पराज़रपिता सुखायो गुरवः स्त्रियश् च न निर्गुणा नाम भवन्ति लोके । अनन्यभक्ताः प्रियवादिनश् च हिताश्च वश्याश्च तथैव राजन् ॥१॥पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति । ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥२॥रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते । प्रयाति लोकानमरैः सुदुर्लभान् निषेवते स्वर्गफलं यथासुखम् ॥३॥श्रान्तं भीतं भ्रष्ट शस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम् । अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥४॥परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् । अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ॥५॥तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः । निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥६॥पापात्पापसमाचारान्निहीनाच्च नराधिप । पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥७॥न कश्चित्त्राति वै राजन्दिष्टान्त वशमागतम् । सावशेषायुषं चापि कश्चिदेवापकर्षति ॥८॥स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् । हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ॥९॥गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षिताम् । निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥१०॥आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति । नाकारणात्तद्भवति कारणैरुपपादितम् ॥११॥तथा शरीरं भवति देहाद्येनोपपादितम् । अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥१२॥द्वितीयं कारणं तत्र नान्यत्किं चन विद्यते । तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥१३॥सिरा स्नाय्वस्थि सङ्घातं बीभत्सा मेध्य सङ्कुलम् । भूतानामिन्द्रियाणां च गुणानां च समागतम् ॥१४॥त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः । पुनैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥१५॥शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् । भूतैः प्रकृतमापन्नैस्ततो भूमौ निमज्जति ॥१६॥भावितं कर्मयोगेन जायते तत्र तत्र ह । इदं शरीरं वैदेह म्रियते यत्र तत्र ह । तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥१७॥न जायते तु नृपते कं चित्कालमयं पुनः । परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥१८॥स पुनर्जायते राजन्प्राप्येहायतनं नृप । मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥१९॥द्विविधानां च भूतानां जङ्गमाः परमा नृप । जङ्गमानामपि तथा द्विपदाः परमा मताः । द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥२०॥द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः । प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥२१॥जातमन्वेति मरणं नृणामिति विनिश्चयः । अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥२२॥आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् । नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥२३॥अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् । मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः ॥२४॥विषमुद्बन्धनं दाहो दस्यु हस्तात्तथा वधः । दंस्त्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥२५॥न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः । एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥२६॥ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्रानाः पुण्यकृतां नृप । मध्यतो मध्यपुण्यानामधो दुष्कृत कर्मणाम् ॥२७॥एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन् । येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥२८॥प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्द्धानुपास्यं च भवेत यस्य । प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥२९॥अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या संनिसृज्येह पञ्च । वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥३०॥उपभोगैरपि त्यक्तं नात्मानमवसादयेत् । चन्दालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥३१॥इयं हि योनिः प्रथमा यां प्राप्य जगतीपते । आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥३२॥कथं न विप्रनश्येम योनीतोऽस्या इति प्रभो । कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामान्य दर्शनात् ॥३३॥यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः । धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥३४॥यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति । दीपोपमानि भूतानि यावदर्चिर्न नश्यति ॥३५॥सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत । समदुःखसुखो भूत्वा स परत्र महीयते ॥३६॥दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् । सरस्वती नैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥३७॥गृहेषु येषामसवः पतन्ति तेषामथो निर्हरनं प्रशस्तम् । यानेन वै प्रापनं च श्मशाने शौचेन नूनं विधिना चैव दाहः ॥३८॥इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः । शक्त्या पित्र्यं यच्च किं चित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति ॥३९॥धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप । श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्ट कर्मणः ॥४०॥भीएवद्वै सर्वमाख्यातं मुनिना सुमहात्मना । विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥४१॥२८७भीपुनरेव तु पप्रच्छ जनको मिथिलाधिपः । पराशरं महात्मानं धर्मे परमनिश्चयम् ॥१॥किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति । क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ॥२॥पराअसङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा । चीर्णं तपो न प्रनश्येद्वापः क्षेत्रे न नश्यति ॥३॥छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते । दत्त्वाभय कृतं दानं तदा सिद्धिमवाप्नुयात् ॥४॥यो ददाति सहस्राणि गवामश्वशतानि च । अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ॥५॥वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् । संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥६॥नाधर्मः श्लिष्यते प्राज्ञमापः पुष्कर पर्णवत् । अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ॥७॥नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति । कर्ता खलु यथाकालं तत्सर्वमभिपद्यते । न भिद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः ॥८॥बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते । शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ॥९॥वीतरागो जितक्रोधः सम्यग्भवति यः सदा । विषये वर्तमानोऽपि न स पापेन युज्यते ॥१०॥मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति । पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः ॥११॥यथा भानुगतं तेजो मनिः शुद्धः समाधिना । आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥१२॥यथा तिलानामिह पुष्पसंश्रयात् पृथक्पृथग्यानि गुणोऽतिसौम्यताम् । तथा नराणां भुवि भावितात्मनां यथाश्रयं सत्त्वगुणः प्रवर्तते ॥१३॥जहाति दारानिहते न सम्पदः सदश्वयानं विविधाश्च याः क्रियाः । त्रिविष्टपे जातमतिर्यदा नरस् तदास्य बुद्धिर्विषयेषु भिद्यते ॥१४॥प्रसक्तबुद्धिर्विषयेषु यो नरो यो बुध्यते ह्यात्महितं कदा चन । स सर्वभावानुगतेन चेतसा नृपामिषेणेव झषो विकृष्यते ॥१५॥सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः । कदली गर्भनिःसारो नौरिवाप्सु निमज्जति ॥१६॥न धर्मकालः पुरुषस्य निश्चितो नापि मृत्युः पुरुषं प्रतीक्षते । क्रिया हि धर्मस्य सदैव शोभना यदा नरो मृत्युमुखेऽभिवर्तते ॥१७॥यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति । तथायुक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥१८॥मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् । अविद्वान्मोक्षधर्मेषु बद्धोभ्रमति चक्रवत् ॥१९॥यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् । तथात्मा पुरुषस्येह मनसा परिमुच्यते । मनः प्रनयतेऽऽत्मानं स एनमभियुञ्जति ॥२०॥परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते । इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ॥२१॥अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् । प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥२२॥मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः । तथा शरीरं तपसा तप्तं विषयमश्नुते ॥२३॥विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् । यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥२४॥नीहारेण हि संवीतः शिश्नोदर परायनः । जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥२५॥वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् । तथा मर्त्यार्णवे जन्तोः कर्म विज्ञानतो गतिः ॥२६॥अहोरात्र मये लोके जरा रूपेण सञ्चरन् । मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥२७॥स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते । नाकृतं लभते कश्चित्किं चिदत्र प्रियाप्रियम् ॥२८॥शयानं यान्तमासीनं प्रवृत्तं विषयेषु च । शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥२९॥न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति । दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥३०॥यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना । तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ॥३१॥यथा समुद्रमभितः संस्यूताः सरितोऽपराः । तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ॥३२॥स्नेहपाशैर्बहुविभैरासक्तमनसो नराः । प्रकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत् ॥३३॥शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः । बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च ॥३४॥विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः । परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥३५॥सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः । भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ॥३६॥न माता न पिता किं चित्कस्य चित्प्रतिपद्यते । दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥३७॥मातापुत्रः पिता भ्राता भार्या मित्र जनस्तथा । अष्टापद पदस्थाने त्वक्षमुद्रेव न्यस्यते ॥३८॥सर्वाणि कर्माणि पुरा कृतानि शुभाशुभान्यात्मनो यान्ति जन्तोर् । उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा ॥३९॥व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति । न तस्य कश्चिदारम्भः कदा चिदवसीदति ॥४०॥अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम् । न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ॥४१॥आस्तिक्य व्यवसायाभ्यामुपायाद्विस्मयाद्धिया । यमारभत्यनिन्द्यात्मा न सोऽर्थः परिषीदति ॥४२॥सर्वैः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात्सम्प्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् । मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥४३॥स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धि सञ्चयम् । नरो हि सर्वो लभते यथाकृतं शुभशुभेनात्म कृतेन कर्मणा ॥४४॥भीइत्युक्तो जनको राजन्यथातथ्यं मनीसिना । श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥४५॥ ॥ इति पाराशरगीता समाप्ता ॥ N/A N/A Last Updated : October 15, 2010 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP