संस्कृत सूची|संस्कृत साहित्य|गीता|
वैष्णवगीता

वैष्णवगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


अम्बरीष उवाच --
केनोपायेन देवर्षे भवबन्धाद्विमुच्यते । तद्वदस्व महाभाग यद्यस्ति मय्यनुग्रहः ॥१॥
नारद उवाच --
साधु पृष्टं महाभाग सर्वधर्मभृतां वर । वक्ष्यामि तव राजेन्द्र शृणुष्वावहितो मम ॥२॥
कैवल्यदायिनी गीता श्रीवैष्णवगीताभिधा । शृणुष्व परया भक्त्या भवबन्धविमुक्तये ॥३॥
वैष्णवानां गतिर्यत्र पादस्पर्शश्च यत्र वै । तत्र सर्वाणि तीर्थानि तिष्ठन्ति नृपसत्तम ॥४॥
आलापं गात्रसंस्पर्शं पादाभिवन्दनं तथा । वाञ्छन्ति सर्वतीर्थानि वैष्णवानां सदैव हि ॥५॥
विष्णुमन्त्रोपासकानां शुद्धं पादोदकं शुभम् । पुनाति सर्वतीर्थानि वसुधामपि भूपते ॥६॥
निपीडितोऽहं श्रान्तोऽहम् दाघसंसारवर्त्मनि । येन भूयो न गच्छामि तत् कुरुष्व श्रीवैष्णव ॥७॥
दीनं च भक्तिहीनं च आधिव्याधिनिपीडितम् । अनाश्रयमनाथं च त्राहि मां कृपया प्रभो ॥८॥
गतिर्नास्ति गतिर्नास्ति सत्यं श्रीवैष्णवं विना । तत्पादरजसा पूतं त्रैलोक्यं सचराचरम् ॥९॥
कथितं तव राजेन्द्र रहस्यं परमाद्भुतम् । अभक्ताय न दातव्यं दत्ते तु नारका भवेत् ॥१०॥
इति श्रीवैष्णवगीता समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP