उत्तरगीता
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥
अर्जुन उवाच -
यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥
कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥२॥
तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ।
श्रीभगवानुवाच -
साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥३॥
यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् । आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥४॥
योगेन गतकामानां भावना ब्रह्म चक्षते । शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥५॥
हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥६॥
काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । मकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥७॥
काकीमुखककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥७॥
गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥८॥
यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् । खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥९॥
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥१०॥
पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥११॥
तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥१२॥
निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् । प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥१३॥
सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥१४॥
स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥१५॥
अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥१६॥
प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥१७॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥
नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥१९॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥२०॥
उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥२१॥
यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥२२॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥२३॥
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥२४॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥२५॥
तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥२६॥
दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥२७॥
कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥२८॥
कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते । तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥२९॥
पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥३०॥
तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः ॥३१॥
मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥३२॥
आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥३३॥
योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥३४॥
ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् ॥३५॥
शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते । अर्जुन उवाच- अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥३६॥
अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । श्रीभगवानुवाच-
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥३७॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् ।
अर्जुन उवाच-
सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥३८॥ उभयोरपि दुष्ठत्वात्कथं ध्यायन्ति योगिनः ।
श्रीभगवानुवाच-
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥३९॥ अहमेव इदं सर्वमिति पश्येत्परं सुखम् ।
अर्जुन उवाच-
अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥४०॥ बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते ।
श्रीभगवानुवाच-
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥४१॥
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥४२॥
आऊङ्कारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥४३॥
अर्जुन उवाच-
भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥४४॥
श्रीभगवानुवाच-
धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥४५॥
ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः । जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥४६॥
अर्जुन उवाच-
स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥४७॥
श्रीभगवानुवाच-
मुखनासिकयोर्मध्ये प्राणः संचरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥४८॥
अर्जुन उवाच-
ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥४९॥
श्रीभगवानुवाच-
आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥५०॥
अर्जुन उवाच-
दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥५१॥
अघोषमव्यञ्जनमस्वरं चा- प्यतालुकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथञ्चित् ॥५२॥
अर्जुन उवाच-
ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् । इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥५३॥
श्रीभगवानुवाच-
इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥५४॥
तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥५५॥
भवच्छिद्रकृता देहाः स्रवन्ति गलिका इव । नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥५६॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥५७॥
इति उत्तरगीतायां प्रथमोऽध्यायः ॥
॥द्वितीयोऽध्यायः ॥
अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥
अर्जुन उवाच-
ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं किं भवेत् ॥१॥
श्रीभगवानुवाच-
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥२॥
जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥३॥
अर्जुन उवाच-
ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु । ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥४॥
श्रीभगवानुवाच-
ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता । ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥५॥
ततः पवित्रं परमेश्वराख्य- मद्वैतरूपं विमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः ॥६॥
आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥७॥
यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥८॥
शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥९॥
मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥१०॥
दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥११॥
इला च वामनिश्वाससोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥१२॥
गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् । दीर्घास्ति मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥१३॥
तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥१४॥
तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥१५॥
द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥१६॥
बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥१७॥
नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥१८॥
द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥१९॥
अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् । वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥२०॥
अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥२१॥
याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥२२॥
विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥२३॥
सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥२४॥
वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥२५॥
पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥२६॥
अधः पदोऽतलं विद्यात्पादं च वितलं विदुः । नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥२७॥
महातलं तु जानु स्यादूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसञ्ज्ञया ॥२८॥
कालाग्निनरकं घोरं महापातालसञ्ज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥२९॥
वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसञ्ज्ञकः । भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥३०॥
हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥३१॥
मन्दश्च सप्तमो ह्येष ध्रुवोऽतः स्वर्गलोकतः । हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥३२॥
हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥३३॥
ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥३४॥
आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥३५॥
अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥३६॥
घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥३७॥
घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥३८॥
तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥३९॥
आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥४०॥
यथा खरश्चन्दनभारवाही सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥४१॥
अनन्तकर्म शौचं च जपो यज्ञस्तथैव च । तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥४२॥
गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥४३॥
अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥४४॥
ममेति बध्यते जन्तुर्न ममेति विमुच्यते । मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥४५॥
हन्यान्मुष्टिभिराकाशं क्षुधार्तः कण्डयेत्तुषम् । नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥४६॥
इति उत्तरगीतायां द्वितीयोऽध्यायः ॥
॥तृतीयोऽध्यायः ॥
योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः । तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते ॥
श्रीभगवानुवाच-
अनन्तशास्त्रं बहुवेदितव्य- मल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥१॥
पुराणं भारतं वेदशास्त्राणि विविधानि च । पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥२॥
इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥३॥
विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥४॥
पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् । जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥५॥
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् । योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥६॥
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥७॥
सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् । ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥८॥
यत्र यत्र मनो याति तत्र तत्र परं पदम् । तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥९॥
दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् । अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥१०॥
दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् । सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥११॥
अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् । सर्वज्योतिर्निराकारं सर्वभूतगुणान्वितम् ॥१२॥
सर्वत्र परमात्मानं अहमात्मा परमव्ययम् । अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा । हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥१३॥
निमिषं निमिषार्धं वा शीताशीतनिवारणम् । अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥१४॥
भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥१५॥
समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते । भूतवस्तुन्यशोचित्वं पुनर्जन्म न विद्यते ॥१६॥
आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥
इति उत्तरगीतायां तृतीयोऽध्यायः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP