संस्कृत सूची|संस्कृत साहित्य|गीता|
पितृगीता

पितृगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


मार्कण्डेय उवाच
अपि धन्यः कुले जायादस्माकं मतिमान्नरः । अकुर्वन् वित्तशाढ्यं यः पिण्डान्नो निर्वपिष्यति ॥१॥
रत्नवस्त्रमहायानं सर्वतोयादिकं वसु । विभवे सति विप्रेभ्यः अस्मानुद्दिश्य दास्यति ॥२॥
अन्नेन वान्यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥३॥
असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः । प्रदास्यति द्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ॥४॥
तत्राप्यसामर्थ्ययुतः करैर्गृह्यासितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिदपि दास्यति ॥५॥
तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् । भक्तिनम्रः समुद्दिश्य योऽस्माकं सम्प्रदास्यति ॥६॥
यतः कुतश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयेत्तस्माद्भक्त्या युक्तः प्रदास्यति ॥७॥
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ॥८॥
न मेऽस्ति वित्तं न धनं न चान्यच्छ्राद्धस्य योग्यं स्वपितॄन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरौ मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य ॥९॥
इत्येवं पितृभिर्गीतं भावाभावप्रयोजनं । कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विजः ॥१०॥
इति वराहपुराणे आदिकृतवृत्तन्ते श्राद्धकल्पो नाम त्रयोदशोऽध्यायः पितृगीता समाप्तम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP