संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता| वसिष्ठ गीता गीता अष्टावक्र गीता अवधूत गीता दत्तगीता श्री गणेश गीता श्रीरमणगीता ऋभु गीता शिवगीता सूर्य गीता सूत गीता उत्तर गीता भाष्य श्री विष्णोर्नाम गीता बकगीता गर्भगीता काश्यपगीता मङ्किगीता पृथिवीगीता पितृगीता सरस्वतीगीता तुलसीगीता उतथ्यगीता उत्तरगीता वैष्णवगीता वसिष्ठ गीता धर्मव्याधगीता यमगीता युधिष्ठिरगीता श्रीगुरुचरित्रातील श्रीगुरुगीता गीता प्रस्तावना गुरुगीता रामगीता अनुगीता जीवनमुक्ति गीता बोध्यगीता ब्रह्मगीता ब्राह्मणगीता हंसगीता हारीतगीता मङ्किगीता पांडव गीता पाराशरगीता पिंगलागीता ऋषभगीता षड्जगीता शंपाकगीता श्रुतिगीता वामदेवगीता विचखुगीता वृत्रगीता उतथ्यगीता वसिष्ठ गीता गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत वसिष्ठ गीता Translation - भाषांतर निर्वाण प्रकरण उत्तरार्ध सर्गः ३९ ॥अथ वसिष्ठ गीता ॥ श्रीवसिष्ठ उवाच । सञ्जाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् । सङ्कल्पो न सङ्कल्पं वेत्ति तेनासदेव सः ॥१॥ श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता । विदि साऽकारणं दृष्टा नश्यन्त्याशु न लभ्यते ॥२॥ यस्य क्षीणावरणता शान्तसर्वेहतोदिता । परमामृतपूर्णात्मा सत्तयैव स राजते ॥३॥ सर्वसन्देहदुर्ध्वान्तमिहिकामातरिश्वना । भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ॥४॥ विसंसृतिर्विसन्देहो लब्धज्योतिर्निरावृतिः । शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः ॥५॥ निःसङ्कल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् । अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः ॥६॥ असद्रूपोपलम्भानामियं वस्तुस्वभावता । यत्स्वर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत् ॥७॥ अविद्यमानमेवेदं जगद्यदनुभूयते । असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ॥८॥ असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् । सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ ॥९॥ जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् । अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ॥१०॥ आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता । यदहन्तादिसर्गादिदुःखाद्यनुपलम्भता ॥११॥ क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः । चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम् ॥१२॥ अस्पन्दवातसदृशं खकोशाभासचिन्मयम् । अचेत्यं शान्तमुदितं लताविकसनोपमम् ॥१३॥ सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः । सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः ॥१४॥ सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः । सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव ॥१५॥ भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता । न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः ॥१६॥ भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते । शुक्तिरूप्यमिवासत्यं किल संप्राप्यते कथम् ॥१७॥ यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसंभवः । स्वभावादुपलम्भोऽन्यो नास्ति कस्य न कस्यचित् ॥१८॥ स्वभाव एव सर्वस्मै स्वदते किल सर्वदा । अनानैव हि नानेव किं वादैः संविभाव्यताम् ॥१९॥ अस्वभावे महद्दुःखं स्वभावे केवलं शमः । इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम् ॥२०॥ सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते । शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसंकथा ॥२१॥ रूपालोकमनस्कारबुद्ध्यहन्तादयः परे । स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः ॥२२॥ मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः । आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत् ॥२३॥ आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः । शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते ॥२४॥ यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् । जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ॥२५॥ येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः । न सन्ति ह्यात्मनि मिथो नास्मास्वम्बरपुष्पवत् ॥२६॥ मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् । वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि ॥२७॥ अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव । ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव ॥२८॥ तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् । ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम ॥२९॥ अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता । त्वदर्थं समुदेतीव तथारूपैव वागियम् ॥३०॥ अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः । न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ॥३१॥ स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् । कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः ॥३२॥ स्वभावसाधने मोक्षेऽभावोपशमरूपिणि । न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः ॥३३॥ तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा । तथाशु चेत्यसंकल्पे स्थिता भवति चिज्जगत् ॥३४॥ जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ । तादृग्रसाहंत्वजगज्जालसंस्था विवेकिनः ॥३५॥ तेनैवाभ्यासयोगेन याति तत्तनुतां तथा । यथा नाहं न संसारः शान्तमेवावशिष्यते ॥३६॥ यदा यदा स्वभावार्कः स्थितिमेति तदा तदा । भोगान्धकारो गलति न सन्नप्यनुभूयते ॥३७॥ मोहमहत्तारहितः स्फुरति मृतौ भवति भासते च तथा । बुद्ध्यादिकरणनिकरो यस्माद्दीपादिवालोकः ॥३८॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे उत्तरार्धे वसिष्ठगीतासु स्वभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ॥३९॥ ॥सर्गः ४० ॥ श्रीवसिष्ठ उवाच - रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् । स्वरूपं विदुरम्लानमस्वभावस्य वस्तुनः ॥१॥ अस्वभावतनुत्वेन स्वभावस्थितिरातता । यदोदेति तदा सर्गो भ्रमाभः प्रतिभासते ॥२॥ यदा स्वभावविश्रान्तिः स्थितिमेति शमात्मिका । जगद्दृश्यं तदा स्वप्नः सुषुप्त इव शाम्यति ॥३॥ भोगा भवमहारोगा बन्धवो दृढबन्धनम् । अनर्थायार्थसंपत्तिरात्मनात्मनि शाम्यताम् ॥४॥ अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः । भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥५॥ नात्मानमवगच्छामि न दृश्यं च जगद्भ्रमम् । ब्रह्म शान्तं प्रविष्टोऽस्मि ब्रह्मैवास्मि निरामयः ॥६॥ त्वमेव पश्यसि त्वन्त्वं सत्त्वं शब्दार्थजृम्भितम् । पश्यामि शान्तमेवाहं केवलं परमं नभः ॥७॥ ब्रह्मण्येव पराकाशे रूपालोकमनोमयाः । विभ्रमास्तव संजातकल्पाः स्पन्दा इवानिले ॥८॥ ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो । सुषुप्तो वेत्ति नो स्वप्नं स्वप्नस्थो न सुषुप्तकम् ॥९॥ प्रबुद्धो ब्रह्मजगतोर्जाग्रत्स्वप्नदृशोरिव । रूपं जानाति भारूपं जीवन्मुक्तः प्रशान्तधीः ॥१०॥ यथाभूतमिदं सर्वं परिजानाति बोधवान् । संशाम्यति च शुद्धात्मा शरदीव पयोधरः ॥११॥ स्मृतिस्थः कल्पनस्थो वा यथाख्यातश्च संगरः । सदसद्भ्रान्ततामात्रस्तथाहंत्वजगद्भ्रमः ॥१२॥ आत्मन्यपि नास्ति हि या द्रष्टा यस्या न विद्यते कश्चित् । न च शून्यं नाशून्यं भ्रान्तिरियं भासते सेति ॥१३॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे उत्तरार्धे वसिष्ठगीतासु आत्मविश्रान्तिकथनं नाम चत्वारिंशः सर्गः ॥४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP