तुलसीगीता
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
श्रीभगवानुवाच --
प्राग्दत्वार्घं ततोऽभ्यर्च्य गन्धपुष्पाक्षतादिना । स्तुत्वा भगवतीं तां च प्रणमेद्दण्डवद्भुवि ॥१॥
श्रियं श्रिये श्रियावासे नित्यं श्रीधवसत् रते । भक्त्या दत्तं मया देवि अर्घं गृह्ण नमोऽस्तु ते ॥२॥
निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः । तुलसि हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥३॥
महाप्रसादजननी आधिव्याधिविनाशिनी । सर्वसौभाग्यदे देवि तुलसि त्वां नमोऽस्तु ते ॥४॥
या दृष्टा निखिलांससंघशमना स्पृष्टा वपुःपावना रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी ।
प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥५॥
भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे । लोभात् कूर्द्दितुमिच्छामि क्षुद्रस्तत् क्षम्यतां त्वया ॥६॥
श्रवणाद्वादशीयोगे शालग्रामशिलार्चने । यद्फलं सङ्गमे प्रोक्तं तुलसीपूजनेन तत् ॥७॥
धात्रीफलेन यत् पुण्यं जयन्त्यां समुपोषणे । तद्फलं लभते मर्त्यास्तुलसीपूजनेन तत् ॥८॥
यद्फलं प्रयागस्नाने काश्यां प्राणविमोक्षणे । तद्फलं विहितं देवैस्तुलसीपूजनेन तत् ॥९॥
चतुर्णामपि वर्णानामाश्रमाणां विशेषतः । स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति च ॥१०॥
तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् । आराधिता प्रयत्नेन सर्वकामफलप्रदा ॥११॥
प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः । न तेषां दुरितं किञ्चिदक्षीणमवशिष्यते ॥१२॥
पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति । तस्य सर्वाणि श्रेयांसि वर्धन्तेऽहरहः सदा ॥१३॥
पक्षे पक्षे च द्वादश्यां संप्राप्ते तु हरेर्दिने । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥१४॥
अनन्यमनसा नित्यं तुलसीं स्तौति यो जनः । पितृदेवमनुष्याणां प्रियो भवति सर्वदा ॥१५॥
रतिं करोमि नान्यत्र तुलसीकाननं विना । सत्यं ब्रवीमि ते सत्ये कलिकाले मम प्रिये ॥१६॥
हित्वा तीर्थसहस्राणि सर्वानपि शिलोच्चयान् । तुलसीकानने नित्यं कलौ तिष्ठामि भामिनि ॥१७॥
न धात्रा सफला यत्र न विष्णुस्तुलसीवनम्। तत् स्मशानसमं स्थानं सन्ति यत्र न वैष्णवाः ॥१८॥
तुलसीगन्धमादाय यत्र गच्छति मारुतः । दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्दशः ॥१९॥
तुलसीवनसंभूता छाया पतति यत्र वै । तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥२०॥
तुलसी पूजिता नित्यं सेविता रोपिता शुभा । स्नापिता तुलसी यैस्तु ते वसन्ति ममालये ॥२१॥
सर्वपापहरं सर्वकामदं तुलसीवनम् । न पश्यति समं सत्ये तुलसीवनरोपणात् ॥२२॥
तुलस्यलङ्कृता ये वै तुलसीवनपूजकाः । तुलसीस्थापका ये च ते त्याज्या यमकिङ्करैः ॥२३॥
दर्शनं नर्मदायास्तु गङ्गास्नानं कलौ युगे । तुलसीदलसंस्पर्शः सममेतत्त्रयं स्मृतम् ॥२४॥
दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि । हरते तुलसीक्षेत्रं रोगानिव हरीतकी ॥२५॥
तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् । जन्मकोटिकृतात् पापात् मुच्यते नात्र संशयः ॥२६॥
नित्यं तुलसिकारण्ये तिष्ठामि स्पृहया युतः । अपि मे क्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति ॥२७॥
तुलसीनाम यो ब्रुयात् त्रिकालं वदने नरः । विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥२८॥
शुक्लपक्षे यदा देवि तृतीया बुधसंयुता । श्रवणया च संयुक्ता तुलसी पुण्यदा तदा ॥२९॥
इति तुलसीगीता समाप्ता ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP