संस्कृत सूची|संस्कृत साहित्य|गीता| गर्भगीता गीता अष्टावक्र गीता अवधूत गीता दत्तगीता श्री गणेश गीता श्रीरमणगीता ऋभु गीता शिवगीता सूर्य गीता सूत गीता उत्तर गीता भाष्य श्री विष्णोर्नाम गीता बकगीता गर्भगीता काश्यपगीता मङ्किगीता पृथिवीगीता पितृगीता सरस्वतीगीता तुलसीगीता उतथ्यगीता उत्तरगीता वैष्णवगीता वसिष्ठ गीता धर्मव्याधगीता यमगीता युधिष्ठिरगीता श्रीगुरुचरित्रातील श्रीगुरुगीता गीता प्रस्तावना गुरुगीता रामगीता अनुगीता जीवनमुक्ति गीता बोध्यगीता ब्रह्मगीता ब्राह्मणगीता हंसगीता हारीतगीता मङ्किगीता पांडव गीता पाराशरगीता पिंगलागीता ऋषभगीता षड्जगीता शंपाकगीता श्रुतिगीता वामदेवगीता विचखुगीता वृत्रगीता उतथ्यगीता गर्भगीता गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत गर्भगीता Translation - भाषांतर वन्दे कृष्णं सुरेन्द्रं स्थितिलयजनने कारणं सर्वजन्तोः स्वेच्छाचारं कृपालुं गुणगणरहितं योगिनां योगगम्यम् । द्वन्द्वातीतं च सत्यं हरमुखविबुधैः सेवितं ज्ञानरूपं भक्ताधीनं तुरीयं नवघनरुचिरं देवकीनन्दनं तम् ॥ अर्जुन उवाच -- गर्भवासं जरामृत्युं किमर्थं भ्रमते नरः । कथं वा वहितं जन्म ब्रूहि देव जनार्दन ॥१॥ श्रीभगवानुवाच -- मानवो मूढ अन्धश्च संसारेऽस्मिन् विलिप्यते । आशास्तथा न जहाति प्राणानां जनसम्पदाम् ॥२॥ अर्जुन उवाच -- आशा केन जिता लोकैः संसारविषयौ तथा । केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥३॥ कामः क्रोधश्च लोभश्च मदमात्सर्यमेव च । एते मनसि वर्तन्ते कर्मपाशं कथम् त्यजेत् ॥४॥ श्रीभगवानुवाच -- ज्ञानाग्निर्दहते कर्म भूयोऽपि तेन लिप्यते । विशुद्धात्मा हि लोकः सः पुनर्जन्म न भुञ्जते ॥५॥ जितं सर्वकृतं कर्म विष्णुश्रीगुरुचिन्तनम् । विकल्पो नास्ति सङ्कल्पः पुनर्जन्म न विद्यते ॥६॥ नानाशास्त्रं पठेल्लोको नानादैवतपूजनम् । आत्मज्ञानं विना पार्थ सर्वकर्म निरर्थकम् ॥७॥ आचारः क्रियते कोटि दानं च गिरिकाञ्चनम् । आत्मतत्त्वं न जानाति मुक्तिर्नास्ति न संशयः ॥८॥ कोटियज्ञकृतं पुण्यं कोटिदानं हयो गजः । गोदानं च सहस्राणि मुक्तिर्नास्ति न वा शुचिः ॥९॥ न मोक्षं भ्रमते तीर्थं न मोक्षं भस्मलेपनम् । न मोक्षं ब्रह्मचर्यं हि मोक्षं नेन्द्रियनिग्रहः ॥१०॥ न मोक्षं कोटियज्ञं च न मोक्षं दानकाञ्चनम् । न मोक्षं वनवासेन न मोक्षं भोजनं विना ॥११॥ न मोक्षं मन्दमौनेन न मोक्षं देहताडनम् । न मोक्षं गायने गीतं न मोक्षं शिल्पनिग्रहम् ॥१२॥ न मोक्षं कर्मकर्मेषु न मोक्षं मुक्तिभावने । न मोक्षं सुजटाभारं निर्जनसेवनस्तथा ॥१३॥ न मोक्षं धारणाध्यानं न मोक्षं वायुरोधनम् । न मोक्षं कन्दभक्षेण न मोक्षं सर्वरोधनम् ॥१४॥ यावद्बुद्धिविकारेण आत्मतत्त्वं न विन्दति । यावद्योगं च संन्यासं तावच्चित्तं न हि स्थिरम् ॥१५॥ अभ्यन्तरं भवेत् शुद्धं चिद्भावस्य विकारजम् । न क्षालितं मनोमाल्यं किं भवेत् तपकोटिषु ॥१६॥ अर्जुन उवाच -- अभ्यन्तरं कथं शुद्धं चिद्भावस्य पृथक् कृतम् । मनोमाल्यं सदा कृष्ण कथं तन्निर्मलं भवेत् ॥१७॥ श्रीभगवानुवाच -- प्रशुद्धात्मा तपोनिष्ठो ज्ञानाग्निदग्धकल्मषः । तत्परो गुरुवाक्ये च पुनर्जन्म न भुञ्जते ॥१८॥ अर्जुन उवाच -- कर्माकर्मद्वयं बीजं लोके हि दृढबन्धनम् । केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥१९॥ श्रीभगवानुवाच -- कर्माकर्मद्वयं साधो ज्ञानाभ्याससुयोगतः । ब्रह्माग्निर्भुञ्जते बीजं अबीजं मुक्तिसाधकम् ॥२०॥ योगिनां सहजानन्दः जन्ममृत्युविनाशकम् । निषेधविधिरहितं अबीजं चित्स्वरूपकम् ॥२१॥ तस्मात् सर्वान् पृथक् कृत्य आत्मनैव वसेत् सदा । मिथ्याभूतं जगत् त्यक्त्वा सदानन्दं लभेत् सुधीः ॥२२॥ इति श्रीगर्भगीता समाप्ता । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP