॥ जीवनमुक्ति गीता ॥
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतंगमय ॥
सर्वभूतान्तरस्थ्याय नित्यमुक्तचिदात्मने ।
प्रत्यच्चैतन्यरूपाय मह्यमेव नमो नमः ॥
सर्वभूतानर्वर्तिने नित्यमुक्तचिद्स्वरूपिणे सर्वसाक्षिणे
मह्यमेवस्वात्मन एव नमः । नम इति द्विरुक्तिः आदरार्थम् ॥
जीवन्मुक्तिश् मुक्तो - खच या मुक्तिः सा मुक्तिः पिण्डपातने ।
या मुक्तिः पिण्डपातने सा मुक्तिः शुनिशूकरे सूकरे - क ॥१॥
जीवन्मुक्तिरिति या मुक्तिरुच्यते सा यदि पिण्डपातन
परा तर्हि सा मुक्तिः सूकरादिष्वपि प्रसक्ता भवतीत्यर्थः ।
पिण्डपातनं न जीवन्मुक्तिरिति भावः ॥
जीवः शिवः सर्वमेव भूतेष्वेवं भूते भूते - खव्यवस्थितः ।
एवमेवाभिपश्यन् हि एवमेव पश्यति यो - खजीवन्मुक्तः स उच्यते ॥२॥
जीव इति यः सः सर्वभूतेष्वपि शिवत्वेनैव व्यवस्थितः शिव एव ।
तज्ज्ञानी जीवन्मुक्त इत्यर्थः ॥
एवं ब्रह्म जगत्सर्वमखिलं भासते रविः ।
संस्थितं सर्वभूतानां जीवन्मुक्तः स उच्यते ॥३॥
यथा रविः सर्वं जगद्भासते एवं ब्रह्म सर्वभूतानामात्मत्वेन
संस्थितं सदखिलं भासते प्रकाश्यति । एवमेवान्हिपश्यन् इत्यनुवर्तते ।
सः तादृशः ज्ञानी जीवन्मुक्त इत्युच्यते इत्यर्थः ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।
आत्मज्ञानी तथैवैको जीवन्मुक्तः स उच्यते ॥४॥
जलचन्द्रवज्जले चन्द्रः यथानेकधा दृश्यते तथैव एकः आत्म ।
उपाधिभेदेन इत्यध्याहारः. . . . एकधा बहुधा चैव दृश्यते ।
एवमात्मानंयो जानाति सः आत्मज्ञानी जीवन्मुक्त इत्युच्यते ॥
सर्वभूते स्थितं ब्रह्म भेदाभेदो न विद्यते ।
एकमेवाभिपश्यंश्च पश्यति - खजीवन्मुक्तः स उच्यते ॥५॥
ब्रह्म सर्वभूतस्थितम् । यत्र भेदोऽभेदः भेदाभेदो न विद्यते ।
तदेकमेव । एवमभिपश्यंश्च यः स जीवन्मुक्त इत्युच्यते ॥
तत्त्वं क्षेत्रं व्योमातीतमहं क्षेत्रज्ञ उच्यते ।
अहं कर्ता च भोक्ता च अहं कर्ता अहं भोक्ता - खजीवन्मुक्तः स उच्यते ॥६॥
तत्त्वस्वरूपमेवास्ति । क्षेत्रमाकाशातीतं, परमात्म क्षेत्रज्ञः ।
कर्तृत्वं भोक्तृत्वं च तस्यैव । एवं यो विजानाति सः जीवन्मुक्त उच्यते ॥
कर्मेन्द्रियपरित्यागी ध्यानवर्जितचेतसः चेतसम् - ख।
अत्मज्ञानी तथैवेको जीवन्मुक्तः स उच्यते ॥७॥
कर्मेन्द्रियपरित्यागी स्वस्वव्यापाररहितानि ज्ञानेन्द्रियाणि
कर्मेन्द्रियाणिचकुर्वन् तानि परित्यजतीत्यर्थः ।
तथ्हा चेतोऽपि विषयध्यानवर्जितंकरोत्येवमद्वयं जानाति यः सः जीवन्मुक्तः ॥
तत्त्वं केवलं कर्म कर्मो - खशोकमोहादिवर्जितम् ।
शुभाशुभपरित्यागी जीवन्मुक्तः स उच्यते ॥८॥
ज्ञानिना यत्कर्म क्रियते तच्छोकमोहादिवर्जितम् ।
तच्च केवलं शारीरपरिरक्षणायैव ।
एवं तेन शुभाशुभादिकं परित्यक्तं भवति । स जीवन्मुक्त उच्यते ॥
कर्मसर्वत्र आदिष्टं न जानामि च किंचन ।
कर्म ब्रह्म विजानाति जीवन्मुक्तः स उच्यते ॥९॥
यः आदिष्टं विध्युक्तम् कर्म न जानाति कर्तृत्वारोपेण कर्मनकरोतीत्यर्थः ।
अत एव कर्म ब्रह्मस्वरूपमेवेति विजानाति सः जीवन्मुक्तः ॥
चिन्मयं व्यापितं सर्वमाकाशं जगदीश्वरम् ।
सहितं संस्थितम् - खसर्वभूतानां जीवन्मुक्तः स उच्यते ॥१०॥
यः जगदीश्वरं चित्स्वरूपमित्याकाशव्यापिनमिति सर्वभूतसहितमित्यपि
जानाति सः जीवन्मुक्त उच्यते ॥
अनादिवर्ति भूतानां अनाद्य व्यक्तभूतानां - खजीवः शिवो न हन्यते ।
निर्वैरः सर्वभूतेषु सर्वभूतानां - खजीवन्मुक्तः स उच्यते ॥११॥
सर्वेषु भूतेषु यः अनादिः जीवः सः शिव एव । अत एव सः न हन्यते ।
अतः सर्वेषु भूतेषु निर्वैरो यः जीवन्मुक्त उच्यते ॥
आत्मा गुरुस्त्वं विश्वं गुरुस्त्वद्विश्वंच चिदाकाशो न लिप्यते ।
गतागतं यतागतः - खद्वयोर्नास्ति जीवन्मुक्तः स उच्यते ॥१२॥
यः गुरुः आत्मा सः त्वं एव । स एव निर्लिप्तः चिदाकाशः ।
तद् एव सर्वम् । अत एव तस्य गतागतं गतमागतमागतं गतं वा न विद्यते ।
एवं यः आत्मानं सः जीवन्मुक्त इत्युच्यते ॥
गर्भ अन्तर् - खध्यानेन पश्यन्ति ज्ञानीनां मन उच्यते ।
सोऽहं मनो विलीयन्ते जीवन्मुक्तः स उच्यते ॥१३॥
गर्भध्यानेन अन्तर्ध्यानेन इत्यर्थः । एतादृशध्यानेन ज्ञानिनः यत्पश्यन्ति
तदेव ज्ञानिनां मन उच्यते । इदमेव सोऽहं मनः । एतादृशमनोविशिष्टाः
ज्ञानिनः । चिदाकाश इत्यनुवर्तते । तत्र विलीयन्ते ।
ते तत्र विलयंयान्तीत्यर्थः । एवं स्थितस्य आत्मतत्त्वस्य ज्ञानीत्यनुवर्तते ।
सः जीवन्मुक्त इत्युच्यते ॥
ऊर्ध्वध्यानेन पश्यन्ति विज्ञानं मन उच्यते ।
शून्यं लयं च विलयं जीवन्मुक्तः स उच्यते ॥१४॥
ज्ञानिनः ऊर्ध्वध्यानेन समाधिना यत्पश्यन्ति तद्विज्ञानम् ।
तत्तेषां मनउच्यते । तदेव शून्यं लयम् । तदेव विज्ञानम् ।
तथात्मज्ञान्यात्मानं जानातियः सः जीवन्मुक्त उच्यते ॥
अभ्यासे आभाषे - खरमते नित्यं मनो ध्यानलयं गतम् ।
बन्धमोक्षद्वयं नास्ति जीवन्मुक्तः स उच्यते ॥१५॥
यस्य ज्ञानिनः मनः नित्यमभ्यासे श्रवणमनननिदिध्यासनाख्यतपसि
रमते क्रीडति । यस्य मनः ध्यानलयं ध्ह्याने लयं गतं; यस्य
बन्धमोक्षद्वन्द्वं नास्ति सः जिवन्मुक्त उच्यते ॥
एककी रमते नित्यं स्वभावगुणवर्जितम् ।
ब्रह्मज्ञानरसास्वादी रसास्वादो - खजीवन्मुक्तः स उच्यते ॥१६॥
यस्य ज्ञानिनः मनः इत्यनुवर्तते । नित्यं स्वभावगुणवर्जितं
प्रकृति गुणातीतं, सः ज्ञानी एकाकी रमते आत्मन्येव क्रीडति ।
ब्रह्मज्ञानरसास्वादी ब्रह्माख्यज्ञानरसास्वादी सः जीवन्मुक्त इत्युच्यते ॥
हृदि ध्यानेन पश्यन्ति प्रकाशं क्रियते मनः ।
सोऽहं हंसेति पश्यन्ति जीवन्मुक्तः स उच्यते ॥१७॥
ये ज्ञानिनः हृदि ध्यानेन प्रकाशं पश्यन्ति तैः मनः क्रियते तेषां
मनोऽभिव्यक्तं भवतीति यावत् । तदा ते सोऽहं हंसः इति पश्यन्ति ।
एवमात्मतत्त्वं पश्यन् जीवन्मुक्त इत्युच्यते ॥
शिवशक्तिसमात्मानं पिण्डब्रह्माण्डम् शिवशक्तिर्ममात्मानो पिण्डनि
ब्रह्माण्डम् - खएव च ।
चिदाकाशं हृदं मोहं कृतं सोऽहं - खजीवन्मुक्तः स उच्यते ॥१८॥
ज्ञानिनः शिवशक्तिसमात्मानं शिवशक्तिसमः यः आत्मा तमात्मानं
महात्मानम् । पिण्डः शारीरम् । तेन सहितं ब्रह्माण्डं हृदं हृत्स्थं
बन्धकं मोहं च चिदाकाशमिति चैतन्यमेव पश्यन्ति,
य एवमात्मतत्त्वज्ञानी सः जीवन्मुक्त इत्युच्यते ॥
जाग्रत्स्वप्नसुषुप्तिं च तुरीयावस्थितं सदा ।
सोऽहं मनो विलीयेत विलीयते - खजीवन्मुक्तः स उच्यते ॥१९॥
यस्य ज्ञानिनः सोऽहं मनः सोऽहमिति ध्यानैकापरं मनः
जाग्रत्स्वप्नसुषुप्तिमतीत्य सदा तुरीयावस्थितं सच्चिदाकाशपरमात्मनि
विलीयेत सः ज्ञानी जीवन्मुक्त इत्युच्यते ॥
सोऽहं स्थितं ज्ञानमिदं सूत्रेषु मणिवत्परम् ज्योतिरूपं निर्मलं - ख सूत्रमभित
उत्तरम् - ग।
सोऽहं ब्रह्म निराकारं जीवन्मुक्तः स उच्यते ॥२०॥
इदं सोऽहं स्थितं ज्ञानं सूत्रेषु मणिवच्चिदाकाशे स्थितमित्यन्वयः ।
सोऽहं परं ब्रह्म निराकारम् । एवमात्मज्ञानी यः सः जीवन्मुक्त इत्युच्यते ॥
मन एव मनुष्याणां भेदाभेदस्य कारणम् ।
विकल्पनैव संकल्पं संकल्पो - खजीवन्मुक्तः स उच्यते ॥२१॥
विकल्पना इदमित्थमेवेत्यादि तत्त्वविरुद्धा कल्पना स एव संकल्प इति
प्रसिद्धः । तदेव मनोरूपं सन्मनुष्यानामहं ममेत्यादि
भेदाभेदव्यवहारकारणम् । एवं यो जानाति ज्ञानफलं च
संकल्पराहित्यं तथा च यः सर्वथा संकल्परहितः ।
सः जीवन्मुक्त इत्युच्यते ॥
मन एव विदुः प्राज्ञाः सिद्धसिद्धान्त विदुःप्राज्ञासिद्धसिद्धान्त - खएव च ।
यदा सदा - कदृढं तदा मोक्षो मोक्ष - खजीवन्मुक्तः स उच्यते ॥२२॥
यत्प्राज्ञाः ज्ञानिनः विदुः किमिति । यदा मनः सदा दृढं भवति तदैवमोक्ष इति ।
स एव च सिद्धसिद्धान्तः । य एवं सिद्धान्तं वेद सः जीवन्मुक्त उच्यते ॥
योगाभ्यासी मनः श्रेष्ठोऽन्तस्त्यागी बहिर्जडः ।
अन्तस्त्यागी बहिस्त्यागी जीवन्मुक्तः स उच्यते ॥२३॥
यो यो योगाभ्यासी योगमभ्यसति स सो मनः श्रेष्ठः मनसा श्रेष्ठः ।
एवं विधोऽयमन्तस्त्यागी अन्तस्थं सर्वमपि मायासंभूतं
त्यजतीत्यन्तस्त्यागी । अत एव सः बहिः जडवदाचरति ।
एवं च सोऽन्तस्त्यागी बहिस्त्यागी च । स एव जीवन्मुक्त इत्युच्यते ॥
इति वेदान्तकेसरिणा श्रीदत्तात्रेय विरचिता जीवन्मुक्तगीता समाप्ता ॥
इति श्रीजयचामराजेन्द्रविरचिता जीवन्मुक्तगीताव्याख्या समाप्ता ॥