धर्मव्याधगीता
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
॥अथ धर्मव्याधगीता ॥
व्याध उवाच -
विज्ञानार्थं मनुष्याणां मनः पूर्व प्रवर्तते । तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥१॥
ततस्तदर्थं यतते कर्म चारभते महत् । इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥२॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥३॥
ततो लोभाभिभूतस्य रागद्वेषहतस्य च । न धर्मे जायते बुद्धिर्व्याजाद्धर्म करोति च ॥४॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते । व्याजेन सिद्धमानेषु धनेषु द्विजसत्तम ॥५॥
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति । सुत्दृद्भिःर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥६॥
उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम् । अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥७॥
पापं चिन्तयते चैव बवीति च करोति च । तस्याधर्मप्रवृत्तस्य गुण नश्यन्ति साधवः ॥८॥
एकाशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः । सतेन दुःखमाप्नोति परत्र च विपद्यते ॥९॥
पापात्मा भवति ह्येवं धर्मलाभं तु मे श्रुणु । यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥१०॥
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते । तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते ॥११॥
इदं विश्वं जगत्सर्वमजय्यं चापि नित्यशः । महाभूतात्मकं ब्रह्म नातः परतरं भवेत् ॥१२॥
ब्राह्मण उवाच -
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् । गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥१३॥
व्याध उवाच -
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । एषां गुणान् पृथक्त्वेन निबोध गदतो मम ॥१४॥
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् । प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥१५॥
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः । दुर्त्दृषीकस्ततोध्यस्तः सक्रोधस्तामसोऽलसः ॥१६॥
प्रवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः । विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥१७॥
प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः । अक्रोधनो नरो धीमान् दान्त्रश्चैव स सात्त्विकः ॥१८॥
इति धर्मव्याधगीता समाप्ता ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP