केदारखण्डः - अध्यायः २३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ लोमश उवाच ॥
एतस्मिन्नंतरे तत्र महेशेन प्रणोदिताः ॥
आजग्मुः सहसा सद्य ऋषयोऽपि हिमालयम् ॥१॥
तान्दृष्ट्वा सहसोत्थाय हिमाद्रिः प्रतिमानसः ॥
पूजयामास तान्सर्वानुवाच नतकंधरः ॥२॥
किमर्थमागता यूयं ब्रूतागमनकारणम् ॥
तदोचुः सप्त ऋषयो महेशप्रेरिता वयम् ॥३॥
समागतास्त्वत्सकाशं कन्यायाश्च विलोकने ॥
तानस्मान्विद्धि भोः शैल स्वां कन्यां दर्शयाशु वै ॥४॥
तथेत्युक्त्वा ऋषिगणानानीता तत्र पार्वती ॥
स्वोत्संगे परिगृह्याशु गिरीन्द्रः पुत्रवत्सलः ॥
हिमवान्गिरिराजोऽथ उवाच प्रहसन्निव ॥५॥
इयं सुता मदीया हि वाक्यं श्रुणुत मे पुनः ॥
तपस्विनां वरिष्ठऽसौ विरक्तो मदनांतकः ॥६॥
कथमुद्वहनार्थी च येनानंगः कृत स्मरः ॥
अत्यासन्नेचातिदूरे आढ्ये धनविवर्जिते ॥
वृत्तिहीने च मूर्खे च कन्यादानं न शस्यते ॥७॥
मूढाय च विरक्ताय आत्मसंभाविताय च ॥
आतुराय प्रमत्ताय कन्यादानं न कारयेत् ॥८॥
तस्मान्मया विचार्यैव भवद्भिर्ऋषिसत्तमाः ॥
प्रदातव्या महेशाय एतन्मे व्रतमुत्तमम् ॥९॥
तच्छ्रुत्वा गिरिराजस्य वचनं ते महर्षयः ॥
एकपद्येन ऊचुस्ते प्रहस्य च हिमालयम् ॥१०॥
यया कृतं तपस्तीव्रं यया चाराधितः शिवः ॥
तपसा तेन संतुष्टः प्रसन्नोद्य सदाशिवः ॥११॥
अस्यास्तस्य च भोः शैल न जानासि च किंचन ॥
महिमानं परं चैव तस्मादेनां प्रयच्छ वै ॥१२॥
शिवाय गिरिजामेनां कुरुष्य वचनं हि नः ॥
तच्छ्रुत्वा वचनं तेषामृषीणां भावितात्मनाम् ॥१३॥
उवाच त्वरया युक्तः पर्वतान्पर्वतेश्वरः ॥
हे मेरो हे निषधकिं गन्धमादन मन्दर ॥
मैनाक क्रियतामद्य शंसध्वं च यथातथम् ॥१४॥
मेना तदा उवाचेदं वाक्यं वाक्यविशारदा ॥
अधुना किं विमशन कृतं कार्यं तदैव हि ॥१५॥
उत्पन्नेयं महाभागा देवकार्यार्थमेव च ॥
प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिता ॥१६॥
अनयाराधितो रुद्रो रुद्रेण परिभाविता ॥
इयं महाभागा शिवाय प्रतिदीयताम् ॥१७॥
निमित्तमात्रं च कृतं तया वै शिवपूजने ॥
एतच्छ्रुत्वा वचस्तस्यामेनायाः परिभाषितम् ॥१८॥
परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह ॥
ऋषीन्प्रति निरीक्षंस्तां कन्येयं मम संप्रति ॥१९॥
ततः समानीय सुलोचनां तां श्यामां नितंबार्षितमेखलां शुभाम् ॥
वैडूर्यमुक्तावलयान्दधानां भास्वत्प्रभां चांद्रमसीं व रेखम् ॥२०॥
लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि मोहमगन्भ्रांतास्तदा संभ्रमात् ॥
नोचुः किंचना वाक्यमेव सुधियो ह्यासन्प्रमत्ता इव स्तब्धाः कान्तिमतीमतीव रुचिरां त्रैलोक्यनाथप्रियाम् ॥२१॥
एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः ॥
तथैव सर्वे च निरीक्ष्य तन्वीं सतीं गिरिन्द्रस्य सुतां शिवप्रियाम् ॥२२॥
ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम् ॥२३॥
॥ ऋषय ऊचुः ॥
भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः ॥
उद्वोढुं गच्छ देवेश देवैश्च परिवारितः ॥२४॥
गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने ॥
तच्छ्रुत्वा वचनं तेषां प्रहस्येदमुवाच ह ॥२५॥
विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा ॥
मया पुरा च ऋषयः कथ्यतां च विशेषतः ॥२६॥
तदोचुर्ऋषयः सर्वे प्रहसंतः सदाशिवम् ॥
विष्णुमाह्वय वै देव ब्रह्मणं च शतक्रतुम् ॥२७॥
तथा ऋषिगणांश्चैव यक्षगन्धर्वपन्नगान् ॥
सिद्धविद्याधरांश्चैव किंनरांश्चाप्सरोगणान् ॥२८॥
एतांश्चान्यांश्च सुबहूनानयस्वेति सत्वरम् ॥
तदाकर्ण्य ऋषिप्रोक्तं वाक्यं वाक्यविशारदः ॥२९॥
उवाच नारदं देवो विष्णुमानय सत्वरम् ॥
ब्रह्माणं च महेन्द्रं च अन्यांश्चैव समानय ॥३०॥
शंभोर्वचनमादाय शिरसा लोकपावनः ॥
जगाम त्वरितो भूत्वा वैकुण्ठं विष्णुवल्लभः ॥३१॥
ददर्श देवं परमासने स्थितं श्रिया च देव्या परिसेव्यमानम् ॥
चतुर्भुजं देववरं महाप्रभं नीलोत्पलश्यामतनुं वरेण्यम् ॥३२॥
महार्हरत्नावृतचारुकुण्डलं महाकिरीटोत्तमरत्नभास्वतम् ॥
सुवैजयंत्या वनमालया वृतं स नारदस्तं भुवनैकसुन्दरम् ॥३३॥
उवाच नारदोऽभ्येत्य शंभोर्वाक्यमथादरात् ॥
ब्रह्मवीणां वाद्यवीणां वाद्यमानः सर्वज्ञ ऋषिसत्तमः ॥३४॥
एह्येहि त्वं महाविष्णो महादेवं त्वरान्वितः ॥
उद्वाहनार्थं शंभोश्च त्वमेकः कार्यसाधकः ॥३५॥
प्रहस्य भगवान्प्राह नारदं प्रति वै तदा ॥
कथमुद्वहने बुद्धिरुत्पन्ना तस्य शूलिनः ॥
विज्ञातार्थोऽपि भगवान्नारदं परिपृष्टवान् ॥३६॥
॥ नारद उवाच ॥
तपसा महता रुद्रः पार्वत्या परितोषितः ॥
स्वयमेवागतस्तत्र यत्रास्ते गिरिजा सती ॥३७॥
दासोऽहमवदच्छंभुः पार्वत्या परितोषितः ॥
पार्वतीं च समभ्यर्थ्य वरयस्व च भामिनि ॥३८॥
त्वरितेनावदच्छंभुस्त्वामाह्वयति संप्रति ॥
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ॥
नारदेन समायुक्तः पार्षदैः परिवारितः ॥३९॥
सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान् ॥
ययौ तदाऽऽकाशपथा हरिः स्वयं सनारदो देववरैः समेतः ॥४०॥
तं दृष्ट्वा त्वरितं देवो योगिध्येयांघ्रिपंकजः ॥
अभ्युत्थाय मुदा युक्तः परिष्वज्य च शार्ङ्गिणम् ॥४१॥
तदा हरिहरौ देवावैकपद्येन तिष्ठतः ॥
ऊचुतुः स्म तदान्योन्यं क्षेमं कुशलमेव च ॥४२॥
॥ईश्वर उवाच ॥
गिरिजातपसा विष्णो जितोऽहं नात्र संशयः ॥
पाणिग्रहार्थमेवाद्य गंतुकामो हिमालयम् ॥४३॥
यथार्थेन च भो विष्णो कथयामि तवाग्रतः ॥
यदा दक्षेण भो विष्णो प्रदत्ता च पुरा सती ॥४४॥
न च संकल्पविधिना मया पाणिग्रहः कृतः ॥
अधुनैव मया कार्यं कर्मविस्तारणं बहु ॥४५॥
यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम् ॥
शंभोस्तद्वचनं श्रुत्वा प्रहस्य मधुसूदनः ॥४६॥
यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः ॥
इंद्रेण सह सर्वैश्च लोकपालैस्त्वरान्वितः ॥४७॥
तथैव देवासुरयक्षदानवा नागाः पतंगाप्सरसो महर्षयः ॥
समेत्य सर्वे परिवक्तुमीशमूचुस्तदानीं शिरसा प्रणम्य ॥४८॥
गच्छगच्छ महादेव अस्माभिः सहितः प्रभो ॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशंवचः ॥४९॥
गृह्योक्तविधिना शंभो कर्म कर्तुमिहार्हसि ॥५०॥
नांदीमुखं मण्डपस्थापनं च तथा चैतत्कुरु धर्मेण युक्तम् ॥
महानदीसंगमं वर्जयित्वा कुर्वंति केचिद्वेदमनीषिणश्च ॥५१॥
मण्डपस्थापनं चैव क्रियतां ह्यधुना विभो ॥
तथोक्तो विष्णुना शंभुश्चकारात्महिताय वै ॥५२॥
ब्रह्मादिभिः कृतं तेन सर्वमभ्युदयोचितम् ॥
ग्रहाणां पूजनं चक्रे कश्यपो ब्रह्मणा युतः ॥५३॥
तथात्रिश्च वशिष्ठश्च गौतमोथ गुरुर्भृगुः ॥
कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः ॥५४॥
मार्कंडेयः शिलावाकः शून्यपालोऽक्षतश्रमः ॥
अगस्त्यश्च्यवनो गर्गः शिलादोऽथ महामुनिः ॥५५॥
एते चान्ये च बहवो ह्यागताः शिवसन्निधौ ॥
ब्रह्मणा नोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥५६॥
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ॥
चक्रू रक्षां महेशस्य कृतकौतुकमंगलाम् ॥५७॥
ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा ॥
मंगलानि च भूरीणि ऋषयस्तत्त्ववेदिनः ॥५८॥
अभ्यंजनादिकं सर्वं चक्रुस्तस्य परात्मनः ॥
ख्यातः कपर्द्दस्तस्यैव शिवस्य परमात्मनः ॥५९॥
अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा ॥
ये सर्पा ह्यंगभूताश्च ते सर्वे तत्क्षणादिव ॥
बभूवुर्मडनान्येव जातरूपमयानि च ॥६०॥
सर्वभूषणसंपन्नो देवदेवो महेश्वरः ॥
ययौ देवैः परिवृतः शैलराजपुरं प्रति ॥६१॥
चंडिका वरभगिनी तदा जाता भयावहा ॥
प्रेतासना गता चण्डी सर्पाभरणभूषिता ॥६२॥
हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा ॥
परिवारैर्महाचंडी दीप्तास्या ह्युग्रलोचना ॥६३॥
तत्र भूतान्यनेकानि विरूपाणि सहस्रशः ॥
तैः समेताग्रतश्चंडी जगाम विकृतानना ॥६४॥
तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः ॥
कोट्येकादशसंख्याका रौद्रा रुद्र प्रियाश्च ये ॥६५॥
तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम् ॥
भेरीभांकारशब्देन शंखानां निनदेन च ॥६६॥
तथा दुंदुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् ॥
गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः ॥
अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः ॥६७॥
मध्ये व्रजन्महेंद्रोऽथ ऐरावतमुपास्थितः ॥
शुभ्रेणो च्छ्रियमाणेन छत्रेण परमेण हि ॥६८॥
चामरैर्वीज्यमानोऽसौ सुरैर्बहुभिरावृतः ॥
तदा तु व्रजमानास्त ऋषयो बहवो ह्यमी ॥६९॥
भरद्वाजादयो विप्राः शिवस्योद्वहनं प्रति ॥
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ॥७०॥
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥
पृच्छमानास्तदा चंडीं पृष्ठतोऽन्वगमंस्तदा ॥७१॥
क्व गता साऽधुना चंडी धावमानास्तदा भृशम् ॥
प्राप्ता गता व्रजंतीं तां प्रणिपत्य महाप्रभाम् ॥७२॥
अथ प्रोचुस्तदा सर्वे चंडीं भैरवसंयुताम् ॥
विनास्माभिः कुतो यासि वद चंडि यथा तथा ॥७३॥
प्रहस्योवाच सा चंडी भूतानां तत्र श्रृण्वताम् ॥
शंभोरुद्वहनार्थाय प्रेतारूढा व्रजाम्यहम् ॥७४॥
हैमं कलशमादाय शिरसा बिभ्रती स्वयम् ॥
करवालीस्वरूपेण चंडी जाता ततः स्वयम् ॥७५॥
भूतैः परिवृता सर्वैः सर्वेषामग्रतोऽव्रजत् ॥
गणास्तामनुजग्मुस्ते गणानां पृष्ठतः सुराः ॥७६॥
इंद्रादयो लोकपाला ऋषयस्तेऽग्रपृष्ठतः ॥
ऋषीणां पृष्ठतो भूत्वा पार्षदाश्च महाप्रभाः ॥७७॥
विष्णोरमितभावज्ञा मुकुंदाच्च मनोरमाः ॥
सर्वे पयोदसंकाशाः स्रग्विणो वनमालिनः ॥
श्रीवत्सांकधराः सर्वे पीतवासोन्विताश्च ते ॥७८॥
चतुर्भुजाः कुंडलिनः किरीटकटकांगदैः ॥
हारनूपुरसूत्रैश्च कटिसूत्राङ्गुलीयकैः ॥
शोभिताः सर्व एवैते महापुरुषलक्षणाः ॥७९॥
तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा ॥८०॥
बभौ त्रिलोकीकृतविश्वमंगलो महानुभावैर्हृदि कृत्य धिष्ठितः ॥
शिवेन साकं परमार्थदस्तदा हरिः परात्मा जगदेकबंधुः ॥८१॥
स तार्क्ष्यपुत्रोपरि संस्थितो महाँल्लक्ष्म्या समेतो भुवनैकभर्ता ॥
स चामरैर्वीज्यमानो मुनींद्रैः सर्वैः समेतो हरिरीश्वरो महान् ॥८२॥
तथा विरिंचिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरंगैः ॥
तथागमैः सेतिहासैः पुराणैः स संवृतो हेमगर्भो बभूव ॥८३॥
वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः संपरीतः ॥
वृषारूढो वृषकेतुर्दुरापोयोगीश्वरैरपि सर्वैरगम्यः ॥८४॥
शुद्धस्फटिकसंकाशं वृषभं धर्मवत्सलम् ॥
समेतो मातृभिश्चैव गोभिश्च कृतलक्षणम् ॥८५॥
एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलंकृतः ॥
हिमालयं गिरिवर्यं तदानीं पाणिग्रहार्थं प्रमदोत्तमायाः ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे श्रीशिवस्य विवाहवर्णनंनाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : July 19, 2024
TOP