केदारखण्डः - अध्यायः २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
वर्द्धमाना तदा साध्वी रराज प्रतिवासरम् ॥
अष्टवर्षा यदा जाता हिमालयगृहे सती ॥१॥

महेशो हिमवद्द्रोण्यां तताप परमं तपः ॥
सर्वैर्गणैः परिवृतो वीरभद्रादिभिस्तदा ॥२॥

एतत्तपो जुषाणं तं महेशं हिमवान्ययौ ॥
तत्पादपल्लवं द्रष्टुं पार्वत्या सह बुद्धिमान् ॥३॥

यावत्समागतो द्रष्टं नंदिनासौ निवारितः ॥
द्वारि स्थिते च तदा क्षणमेकं स्थिरोऽभवत् ॥४॥

पुनर्विज्ञापयामास नंदिना हिमवान्गिरिः ॥
विज्ञप्तो नंदिना शंभुरचलो द्रष्टुमागतः ॥५॥

तदाकर्ण्य वचस्तस्य नंदिनः परमेश्वरः ॥
आनयस्व गिरिं चात्र नंदिनं वाक्यमब्रवीत् ॥६॥

तथेति मत्वा नंदी तं पर्वतं च हिमाचलम् ॥
आनयामास स तथा शंकरं लोकशंकरम् ॥७॥

दृष्ट्वा तदानीं सकलेश्वरं प्रभुं तपो जुषाणं विनिमीलितेक्षणम् ॥८॥

कपर्द्धिनं चंद्रकलाविभूषणं वेदांतवेद्यं परमात्मनि स्थितम् ॥
ववंद शीर्ष्णा च तदा हिमाचलः परां मुदं प्रापदहीनसत्त्वः ॥९॥

उवाच वाक्यं जगदेकमंगलं हिमालयो वाक्यविदां वरिष्ठः ॥१०॥

सभाग्योऽहं महादेव प्रसादात्तव शंकर ॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो ॥११॥

अनया सह देवेश अनुज्ञां दातुर्महसि ॥
श्रुत्वा तु वचनं तस्य देवदेवो महेश्वरः ॥१२॥

आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल ॥
कुमारीं च गृहे स्थाप्य नान्यथा मम दर्शनम् ॥१३॥

अचलः प्रत्युवाचेदं गिरिशं नतकंधरः ॥
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ॥
अचलं च व्रीत शंभुः प्रहसन्वाक्यमब्रवीत् ॥१४॥

इयं कुमारी सुश्रोणी तन्वी चारुप्रभाषिणी ॥
नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥१५॥

एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहनिष्ठुरं वा ॥
तपस्विनोक्तं वचनं निशम्य उवाच गौरी च विहस्य शंभुम् ॥१६॥

॥ गौर्युवाच ॥
तपःशक्त्यान्वितः शंभो करोषि विपुलं तपः ॥
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥१७॥

कस्त्वं का प्रकृतिः सूक्ष्मा भगवंस्तद्विमृश्यताम् ॥
पार्वत्यास्तद्वचः श्रुत्वा महेशो वाक्यमब्रवीत् ॥१८॥

तपसा परमेणैव प्रकृतिं नाशयाम्यहम् ॥
प्रकृत्या रहितः सुभ्रु अहं तिष्ठमि तत्त्वतः ॥
तस्माच्च प्रकृते सिद्धैर् कार्यः संग्रहः क्वचित् ॥१९॥

॥ पार्वत्युवाच ॥
यदुक्तं परया वाचा वचननं शंकर त्वया ॥
सा किं प्रकृति र्नैव स्यादतीतस्तां भवान्कथम् ॥२०॥

यच्छृणोपि यदश्रासि यच्च पश्यसि शंकर ॥
वाग्वादेन च किं कार्यमस्माके चाधुना प्रभो ॥२१॥

तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निर्र्थकः ॥
प्रकृतेः परतो भूत्वा किमर्थं तप्यते तपः ॥२२॥

त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥
प्रकृत्या मिलितोऽसि त्वं न जानासि हि शंकर ॥२३॥

वाग्वादेन च किं कार्यमस्माकं चाधुना प्रभो ॥
प्रकृतेः परतस्त्वं च यदि सत्यं वचस्तव ॥
तर्हि त्वया न भेतव्यं मम शंकर संप्रति ॥२४॥

प्रहस्य भगवान्देवो गिरिजां प्रत्युवाच ह ॥२५॥

॥ महादेव उवाच ॥
प्रत्यहं कुरु मे सेवां गिरिजे साधुभाषिणि ॥२७॥

इत्येवमुक्त्वा गिरिजां महेशो हिमालयं वाक्यमथो बभाषे ॥
अत्रैव सोऽहं तपसा परेण चरामि भूम्यां परमार्थभावः ॥२७॥

तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ॥
अनुज्ञया विना किंचित्तपः कर्तुं न पार्यते ॥२८॥

एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ॥
प्रहस्य हिमवाञ्छंभुमिदं वचनमब्रवीत् ॥२९॥

त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ॥
किमहं तु महादेव तुच्छो भूत्वा ददामि ते ॥३०॥

एवमुक्तो हिमवता शंकरो लोकशंकरः ॥
प्रहस्य गिरिराजं तं याहीति प्राह सादरम् ॥३१॥

शंकरेणाब्यनुज्ञातः स्वगृहं हिमवान्ययौ ॥
सार्द्धं गिरिजया सोऽपि प्रत्यहं दर्शने स्थितः ॥३२॥

एवं कतिपयः कालो गतश्चोपासनात्तयोः ॥३३॥

सुतापित्रोश्च तत्रैव शंकरो दुरतिक्रमः ॥
पार्वतीं प्रति तत्रैव चिंतामापेदिरे सुराः ॥३४॥

ते चिंत्यमानाश्च सुरास्तदानीं कथं महेशो गिरिजां समेष्यति ॥
किं कार्यमद्यैव वयं च कुर्मो बृहस्पते तत्कथयस्व मा चिरम् ॥३५॥

बृहस्पतिरुवाचेदं महेंद्रं प्रति सद्वचः ॥
एवमेतत्त्वया कार्यं महेंद्र श्रूयतां तदा ॥३६॥

एतत्कार्यं मदनेनैव राजन्नान्यः समर्थो भविता त्रिलोके ॥
विप्लावितं तापसानां तपो हि तस्मात्त्वरात्प्रार्थनीयो हि मारः ॥३७॥

गुरोर्वचनमाकर्ण्य आह्वयन्मदनं हरिः ॥
आह्वानादाजगामाथ मदनः कार्यसाधकः ॥३८॥

रत्या समेतः सह माधवेन स पुष्पधन्वा पुरतः सभायाम् ॥
महेंद्रमागम्य उवाच वाक्यं सगर्वितं लोकमनोहरं च ॥३९॥

अहमाकारितः कस्माद्ब्रूहि मेऽद्य शचीपते ॥
किं कार्यं करवाण्यद्य कथ्यतां मा विलंबितम् ॥४०॥

मम स्मरणमात्रेण विभ्रष्टा हि तपस्विनः ॥
त्वमेव जानासि हरे मम वीर्यपराक्रमौ ॥४१॥

मम वीर्यं च जानाति शक्तेः पुत्रः पराशरः ॥
एवं चानये च बहवो भृग्वाद्य ऋषयो ह्यमी ॥४२॥

गुरुरप्यभिजानाति भार्योतथ्यस्य चैव हि ॥
तस्यां जातो भरद्वाजो गुरुणा संकरो हि सः ॥४३॥

भरद्वाजो महाभाग इत्युवाच गुरुस्तदा ॥
जानाति मम वीर्यं च शौर्यं चैव प्रजापतिः ॥४४॥

क्रोधो हि मम बंधुश्च महाबलपरक्रमः ॥
उभाभ्यां द्रावितं विश्वं जंगमाजंगमं महत् ॥
ब्रह्मादिस्तंबपर्यंतं प्लावितं सचराचरम् ॥४५॥

 ॥देवा ऊचुः ॥
मदनद्वं समर्थोसि अस्माञ्जेतुं सदैव हि ॥
महेशं प्रति गच्छाशु सुरकार्यार्थसिद्धये ॥
पार्वत्या सहितं शंभुं कुरुष्वाद्य महामते ॥४६॥

एवमभ्यर्थितो देवैर्मदनो विश्वमोहनः ॥
जगाम त्वरितो भूत्वा अप्सरोभिः समन्वितः ॥४७॥

ततो जगामाशु महाधनुर्द्धरो विस्फार्य चापं कुसुमान्वितं महत् ॥
तथैव बाणांश्च मनोरमांश्च प्रगृह्य वीरो भुवनैकजेता ॥
तस्मिन्हिमाद्रौ परिदृश्यमानोऽवनौ स्मरो योधयतां वरिष्ठः ॥४८॥

तत्रागता तदा रंभा उर्वशी पुंजिकस्थली ॥
सुम्लोचा मिश्रकेशी च सुभगा च तिलोत्तमा ॥४९॥

अन्याश्च विविधाः जाताः साहाय्ये मदनस्य च ॥
अप्सरसो गणैर्दृष्टा मदनेन सहैव ताः ॥५०॥

सर्वे गणाश्च सहसा मदनेन विमोहिताः ॥
भृंगिणा च तदा रंभा चण्डेन सह चोर्वशी ॥५१॥

मेनका वीरभद्रेण चण्डेन पुंजिकस्थली ॥
तिलोत्तमादयस्तत्र संवृताश्च गणैस्तदा ॥५२॥

अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः ॥
अकाले कोकिला भिश्च व्याप्तामासीन्महीतलम् ॥५३॥

अशोकाश्चंपकाश्चूता यूथ्यश्चैव कदंबकाः ॥
नीषाः प्रियालाः पनसा राजवृक्षाश्चरायणाः ॥५४॥

द्राक्षावल्लयः प्रदृश्यंते बहुला नागकेशराः ॥
तथा कदल्यः केतक्यो भ्रमरैरुपशोभिताः ॥५५॥

मत्ता मदनसंगेन हंसीभिः कलहंसकाः ॥
करेणुभिर्गजाह्यासञ्छिखंडीभिः शिखंडिनः ॥५६॥

निष्कामा ह्यतुरा ह्यासञ्छिवसंपर्कजैर्गुणैः ॥
अकस्माच्च तथाभूतं कथं जातं विमृश्य च ॥५७॥

शैलादो हि महातेजा नंदी ह्यमितविक्रमः ॥
रक्षसं विबुधानां वा कृत्यमस्तीत्यचिंतयत् ॥५८॥

एतस्मिन्नंतरे तत्र मदनो हि धनुर्द्धरः ॥
पंचबाणान्समारोप्य स्वकीये धनुषि द्विजाः ॥
तरोश्छायां समाश्रित्य देवदारुगतां तदा ॥५९॥

निरीक्ष्य शंभुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम् ॥
गंगाधरं नीलतमालकंठं कपर्दिनं चन्द्रकलासमेतम् ॥६०॥

भुजंगभोगांकितसर्वगात्रं पंचाननं सिंहविशालविक्रमम् ॥
कर्पूरगौरे परयान्वितं च स वेद्धुकामो मदनस्तपस्विनम् ॥६१॥

दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन ॥
यावच्छिवं वेद्धुकामः शरेण तावद्याता गिरिजा विश्वमाता ॥
सखीजनैः संवृता पूजनार्थं सदाशिवं मंगलं मंगलानाम् ॥६२॥

कनककुसुममालां संदधे नीलकंठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम् ॥
स्मितविकसितनेत्रा चारुवक्त्रं शिवस्य सकलजननित्री वीक्षमाणा बभूव ॥६३॥

तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात् ॥
विध्यमानस्तदा शंभुः शनैरुन्मील्य लोचने ॥
ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम् ॥६४॥

चारुप्रसन्नवदनां बिंबोष्ठीं सस्मितेक्षणाम् ॥
सुद्विजामग्निजां तन्वीं विशालवदनोत्सवाम् ॥६५॥

गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम् ॥
यया त्रिलोकरचना कृता ब्रह्मादिभिः सह ॥६६॥

उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि ॥
सा चेतनेन ददृशे पुरतो हरेण संमोहनी सकलमंगलमंगलैका ॥६७॥

तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम् ॥
मुमोह दर्शनात्तस्या मदनेनातुरीकृतः ॥
विस्मयोत्फुल्लनयनो बभूव सहसा शिवः ॥६८॥

एवं विलोकमानोऽसौ देवदेवो जगत्पतिः ॥
मनसा दूयमानेन इदमाह सदाशिवः ॥६९॥

अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः ॥
कुतः कस्माच्च केनेदं कृतमस्ति ममाप्रियम् ॥७०॥

ततो व्यलोकयच्छंभुर्द्दिक्षु सर्वासु सादरम् ॥
तावद्दृष्टो दक्षिणस्यां दिशि ह्यात्तशरासनः ॥७१॥

चक्रीकृतधनुः सज्जं चक्रे बेद्धुं सदाशिवम् ॥
यावत्पुनः संधयति मदनो मदनांतकम् ॥
तावद्दृष्टो महेशेन सरोषेण तदा द्विजाः ॥७२॥

निरीक्षितस्तृतीयेन चक्षुषा परमेण हि ॥
मदनस्तत्क्षणादेव ज्वालामालावृतोऽभवत् ॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम् ॥७३॥

 ॥देवा ऊचुः ॥
देवदेव महादेव देवानां वरदो भव ॥
गिरिजायाः सहायार्थं प्रेषितो मदनोऽधुना ॥७४॥

वृथा त्वयाथ दग्धोऽसौ मदनो हि महाप्रभः ॥७५॥

त्वया हि कार्यं जगदेकबंधो कार्यं सुराणां परमेण वर्चसा ॥
अस्यां समुत्पत्स्यति देव शंभो तेनैव सर्वं भवतीह कार्यम् ॥७६॥

तारकेण महादेव देवाः संपीडिता भृशम् ॥
तदर्थं जीवितं चास्य दत्त्वा च गिरिजां प्रभो ॥७७॥

वरयस्व महाभाग देवाकार्ये भव क्षमः ॥
गजासुरात्तवया त्राता वयं सर्वे दिवौकसः ॥७८॥

कालकूटाच्च नूनं हि रक्षिताः स्मो न चान्यथा ॥
भस्मासुराच्च सर्वेश त्वया त्राता न संशयः ॥७९॥

मदनोयं समायातः सुराणां कार्यसिद्धये ॥
तस्मात्त्वया रक्षणीय उपकारः परो हि नः ॥८०॥

विना तेन जगत्सर्वं नाशमेष्यति शंकर ॥
निष्कामस्त्वं कथं शंभो स्वबुद्ध्या च विमृस्यताम् ॥८१॥

तदोवाच रुषाविष्टो देवान्प्रति महेश्वरः ॥
विना कामेन भो देवा भवितव्यं न चान्यथा ॥८२॥

यदाःकामं पुरस्कृत्य सर्वे देवाः सवासवाः ॥
पदभ्रष्टाश्च दुःखेन व्याप्ता दैन्यं समाश्रिताः ॥८३॥

कामो हि नरकायैव सर्वेषां प्राणिनां ध्रुवम् ॥
दुःखरूपी ह्यनंगोऽयं जानीध्वं मम भाषितम् ॥८४॥

तारकोऽपि दुराचारो निष्कामोऽद्य भविष्यति ॥
विनाकामेन च कथं पापमाचरते नरः ॥८५॥

तस्मात्कामो मया दग्धः सर्वेषां शांतिहेतवे ॥
युष्माभिश्च सुरैः सर्वैरसुरैश्च महर्षिभिः ॥८६॥

अन्यैः प्राणिभिरेवात्र तपसे धीयतां मनः ॥
कामक्रोधविहीनं च जगत्सर्वं मया कृतम् ॥८७॥

तस्मादेनं पापिनं दुःखमूलं न जीवयिष्यामि सुराः प्रतीक्ष्यताम् ॥
निरन्तरं चात्मसुखप्रबोधमानंदलक्षणमागाधमनन्यरूपम् ॥८८॥

एवमुक्तास्तदा तेन शंभुना परमेष्ठिना ॥
ऊचुर्महर्षयः सर्वे शकर लोकशंकरम् ॥८९॥

यदुक्तं भवता शंभो परं श्रेयस्करं हि नः ॥
किं तु वक्ष्याम देवेश श्रूयतां चावधार्यताम् ॥९०॥

यथा सृष्टमिदं विश्वं कामक्रोधसमन्वितम् ॥
तत्सर्वं कामरूपं हि स कामो न तु हन्यते ॥९१॥

धर्मार्थकामामोक्षाश्च चत्वारो ह्येकरूपताम् ॥
नीतायेन महादेव स कामोऽयं न हन्यते ॥९२॥

कथं त्वया हि संदग्धः कामो हि दुरतिक्रमः ॥
येन संघटितं विश्वमाब्रह्मस्थावरात्मकम् ॥९३॥

कामेन हीयते विश्वं कामेन पाल्यते ॥
कामेनोत्पद्यते विश्वं तस्मात्कामो महाबलः ॥९४॥

यस्मात्क्रोधो भवत्युग्रो येन त्वं च वशीकृतः ॥
तस्मात्कामं महादेव संबोधयितुमर्हसि ॥९५॥

त्वया संपादितो देव मदनो हि महाबलः ॥
समर्थो हि समर्थत्वात्तत्सामर्थ्यं करिष्यति ॥९६॥

ऋषिभिश्चैवमुक्तोऽपि द्विगुणं रूपमास्थितः ॥
चक्षुषा हि तृतीयेन दग्धुकामो हरस्तदा ॥९७॥

मुनिभिश्चारणैः सिद्धैर्गणैश्चापि सदाशिवः ॥
स्तुतश्च वंदितो रुद्रः पिनाकी वृषवाहनः ॥९८॥

मदनं च तथा दग्ध्वा त्यक्त्वा तं पर्वतं रुषा ॥
हिमवंताभिधं सद्यस्तिरोधानगतोऽभवत् ॥९९॥

तिरोधानगतं देवी वीक्ष्य दग्धं च मन्मथम् ॥
सकोकिलं सचूतं च सभृंगं सहचंपकम् ॥१००॥

तथैव दग्धं मदनं विलोक्य रत्या विलापं च तदा मनस्विनी ॥
सबाष्पदीर्घं विमना विमृस्य कथं स रुद्रो वशगो भवेन्मम ॥१०१॥

एवं विमृश्य सुचिरं गिरिजा तदानीं संमोहमाप च सती हि तथा बभाषे ॥
संमुह्यमाना रुदतीं निरीश्यरतिर्महारूपवतीं मनस्विनीम् ॥१०२॥

मा विषादं कुरु सखि मदनं जीवयाम्यहम् ॥
त्वदर्थं भो विशालाक्षि तपसाऽऽराधयाम्यहम् ॥१०३॥

हरं रुद्रं विरुपाक्षं देवदेवं जगद्गुरुम् ॥
मा चिंतां कुरु सुश्रोमि मदनं जीवयाम्यहम् ॥१०४॥

एवम श्वास्य तां साध्वी गिरिजां रतिरंजसा ॥
तपस्तेपे च सुमहत्पतिं प्राप्तुं सुमध्यमा ॥१०५॥

मदनो यत्र दग्धश्च रुद्रेण परमात्मना ॥
तप्यमानां तपस्तत्र नारदो ददृशे तदा ॥१०६॥

उवाच गत्वा सहसा भामिनीं रतिमंतिके ॥
कस्यासि त्वं विशालाक्षि केन वा तप्यते तपः ॥१०७॥
तरुणी रूपसंपन्ना सौभाग्येन परेण हि ॥
नारदस्य वचः श्रुत्वा रोषेण महता तदा ॥
उवाच वाक्यं मधुरं किंचिन्निष्ठुरमेव च ॥१०८॥

 ॥रतिरुवाच ॥
नारदोऽसि मया ज्ञातः कुमारस्त्वं न संशयः ॥
स्वस्वरूपादर्शनं च कर्तुमर्हसि सुव्रत ॥१०९॥

यथागतेन मार्गेण गच्छ त्वं मा विलंबितम् ॥
बटो न किंचिज्जानासि केवलं कलिकृन्महान् ॥११०॥

परस्त्रीकामुकाः क्षुद्रा विटा व्यसनिनश्च ये ॥
तथा ह्यकर्मिणः स्तब्धास्तेषां मध्ये त्वमग्रणीः ॥१११॥

एवं निर्भर्त्सितो रत्या नारदो मुनिसत्तमः ॥
स्वयं जगाम त्वरीतं शंबरं दैत्यपुंगवम् ॥११२॥

शशंस दैत्यराजाय दग्धं मदनमेव च ॥
रुद्रेण क्रोधयुक्तेन तस्य भार्या मनस्विनी ॥११३॥

तामानय महाभाग भार्यां कुरु महाबल ॥
अतीव रूपसंपन्ना या आनीतास्त्वयानघ ॥
तासां मध्ये रूपवती रतिः सा मदनप्रिया ॥११४॥

एवमाकर्ण्य वचनं देवर्षेर्भावितात्मनः ॥
जगाम सहसा तत्र यत्रास्ते सा सुशोभना ॥११५॥

तां दृष्ट्वा सु विशालाक्षीं रतिं मदनमोहिनीम् ॥
उवाच प्रहसन्वाक्यं शंबरो देवसंकटः ॥११६॥

एहि तन्वि मया सार्द्धं राज्यं भोगान्यथेष्टतः ॥
भुंक्ष्व देवि प्रसादान्मे तपसा किं प्रयोजनम् ॥११७॥
एवमुक्ता तदा तेन शंबरेण महात्मना ॥
उवाच तन्वी मधुरं महिषी मदनस्य सा ॥११८॥

विधवाहं महाबाहो नैवं भाषितुमर्हसि ॥
राजा त्वं सर्वदैत्यानां लक्ष्णैः परिवारितः ॥११९॥

एतत्तद्वचनं श्रुत्वा शंबरः काममोहितः ॥
करे ग्रहीतु कामोऽसौ तदा रत्या निवारितः ॥१२०॥

विमृश्य मनसा सर्वमजेयत्वं च तस्य वै ॥
मा स्पृश त्वं च रे मूढ मम संस्पर्शजेन वै ॥१२१॥

संपर्केण च दग्धोऽसि नान्यथा मम भाषितम् ॥
तदोवाच महातेजाः शंबरः प्रहसन्निव ॥१२२॥

विभीषिकाभिर्बह्वीभिर्मां भीषयसि मानिनि ॥
गच्छ शीघ्रं मम गृहं बहूक्त्या किं प्रयोजनम् ॥१२३॥

इत्युच्यमानेन तदा नीता सा प्रसभं तथा ॥
स्वपुरं परमं तन्वी शंबरेण मनस्विनी ॥१२४॥

कृता महानसेऽध्यक्षा नाम्ना मायावतीति च ॥१२५॥

॥ ऋषय ऊचुः ॥
पार्वत्याधिकृतं सर्वं मदनानयनं प्रति ॥
संबरेण हृतातन्वी मदनस्य प्रिया सती ॥
अत ऊर्ध्वं तदा सूत किं जातं तत्र वर्ण्यताम् ॥१२६॥

॥ सूत उवाच ॥
गतं तदा शिवं दृष्ट्वा दग्ध्वा मदनमोजसा ॥
पार्वती तपसा युक्ता स्थिता तत्रैव भामिनी ॥१२७॥

पित्रा तेन तदा तन्वी मात्रा चैव विचारिता ॥
बाले एहि गृहे शीघ्रं मा श्रमं कर्तुमर्हसि ॥१२८॥

उक्ता ताभ्यां तदा साध्वी गिरिजा वाक्यमब्रवीत् ॥१२९॥

 ॥ पार्वत्युवाच ॥
नागच्छामि गृहं मातस्तात मे श्रृणु तत्त्वतः ॥
वाक्यं धर्मार्थयुक्तं च येन त्वं तोषमेष्यसि ॥१३०॥

शंभुः परेषां परमो दग्धो येन महाबलः ॥
मदनो मम सान्निध्यमानयेऽत्रैव तं शिवम् ॥१३१॥

दुर्लभोहि तदा शंभुः प्राणिनां गृहमिच्छताम् ॥
नागच्छामि गृहं मातस्तस्मात्सर्वं विमृश्यताम् ॥१३२॥

तदोवाच महातेजा हिमवान्स्वसुतां प्रति ॥
दुराराध्यः शिवः साक्षात्सर्वदेवनमस्कृतः ॥
त्वया प्राप्तुमशक्यो हि तस्मात्त्वं स्वगृहं व्रज ॥१३३॥

सा बाष्पपूरितेनैव कंठेन स्वसुतां प्रति ॥
उवाच मेना तन्वंगियाहि शीघ्रं गृहं प्रति ॥१३४॥

तदा प्रहस्य चोवाच मातरं प्रति पार्वती ॥
प्रतिज्ञां श्रृणु मे मातस्तपसा परमेण हि ॥१३५॥

अत्रैव तं समानीय वरयामि विचक्षणम् ॥
नाशयामि रुद्रस्य रुद्रत्वं वारवर्णिनि ॥१३६॥

सुखरूपं परित्यज्य गिरिजा च मनस्विनी ॥
शंभोरारधनं चक्रे परमेण समाधिना ॥१३७॥

जया च विजया चैव माधवी च सुलोचना ॥
सुश्रुता च श्रुता चैव तथैव च शुकी परा ॥१३८॥

प्रम्लोचा सुभगा श्यामा चित्रांगी चारुणी स्वधा ॥
एताश्चान्याश्च बहवः सख्यस्ता गिरिजां प्रति ॥
उपासांचक्रिरे सा च देवगर्भा च भामिनी ॥१३९॥

तपसा परमोग्रेण चरंती चारुहासिनी ॥
मदनो यत्र दग्धश्च रुद्रेण च महात्मना ॥
तत्रैव वेदिं कृत्वा च तस्योपरि सुसंस्थिता ॥१४०॥

त्यक्त्वा जलाशनं बाला पर्णादा ह्यभवच्च सा ॥
ततः साऽर्द्राणि पर्णानि त्यक्त्वा शुष्काणि चाददे ॥१४१॥

शुष्काणि चैव पर्णानि नाशितानि तया यदा ॥
अपर्णेति च विख्याता बभुव तनुमध्यमा ॥१४२॥

वायुपानरता जाता अंबुपानादनंतरम् ॥
कालक्रमेण महता बभूव गिरिजा सती ॥
एकांगुष्ठेन च तदा दधार च निजं वपुः ॥१४३॥

एवमुग्रेण तपसा शंकराराधनं सती ॥
चकार परया तुष्ट्या शंभोः प्रीत्यर्थमेव च ॥१४४॥

परं भावं समाश्रित्य जगन्मंगलमंगला ॥
तुष्ट्यर्थं च महेशस्य तताप परमं तपः ॥१४५॥

एवं दिव्यसहस्राणि वर्षाणि च तताप वै ॥
हिमा लयस्तदागत्य पार्वतीं कृतनिश्चयाम् ॥१४६॥

सभार्यः स सुतामाप्त उवाच च महासतीम् ॥
मा खिद्यतां महादेवि तपसानेन भामिनि ॥१४७॥

क्व रुद्रो दृश्यते बाले विरक्तो नात्र संशयः ॥
त्वं तन्वी तरुणी बाला तपसा च विमोहिता ॥१४८॥

भविष्यति न संदेहः सत्यं प्रतिवदामि ते ॥
तस्मादुत्तिष्ठ याह्याशु स्वगृहं वरवर्णिनि ॥१४९॥

किं तेन तव रुद्रेण ये दग्धः पुराऽनघे ॥
मदनो निर्विकारित्वात्तं कथं प्रार्थयिष्यसि ॥१५०॥

गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते ॥
तथैव दुर्गमः शर्भुर्जानीहि त्वं शुचिस्मिते ॥१५१॥

तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ॥
मेरुणा मंदरेणैव मैनाकेन तथैव च ॥१५२॥

एभिरुक्ता तदा तन्वी पार्वती तपसि स्थिता ॥
उवाच प्रहसन्त्तेव हिमवंतं शुचिस्मिता ॥१५३॥

पुरा प्रोक्तं त्वया तात अंब किं विस्मृतं त्वया ॥
अधुनैव प्रतिज्ञां च श्रृणुध्वं मम बांधवाः ॥१५४॥

विरक्तोऽसौ महादेवो मदनो येन वै हतः ॥
तं तोषयामि तपसा शंकरं लोकशंकरम् ॥१५५॥

सर्वे यूयं च गच्छंतु नात्र कार्या विचारणा ॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ॥१५६॥

तमानयामि चात्रैव तपसा केवलेन हि ॥
तपोबलेन महता सुसेव्यो हि सदाशिवः ॥१५७॥

तं जानीध्वं महाभागाः सत्यंसत्यं वदाम्यहम् ॥१५८॥

संभाषमाणा जननीं तदानीं हिमालयं चैव तथा च मेनाम् ॥
तथैव मेरुं मितभाषिणी तदा सा मंदरं पर्वतराजकन्या ॥
जग्मुस्तदा तेन पथा च पर्वता यथागतेनापि विचक्षमाणाः ॥१५९॥

गतेषु तेषु सर्वेषु सखीभिः परिवारिता ॥
तत्रैव च तपस्तेपे परमार्था सती तदा ॥१६०॥

तपसा तेन महता तप्तमासीच्चराचरम् ॥
तदा सुरासुराः सर्वे ब्रह्माणं शरणं गताः ॥२१-१६१॥

 ॥देवा ऊचुः ॥
त्वया सृष्टमिदं सर्वं जगद्देव चराचरम् ॥
त्रातुमर्हसि देवान्नस्त्वदन्यो नोपपद्यते ॥१६२॥

अस्माकं रक्षणे शक्त इत्याकर्ण्य वचस्तदा ॥
विमृश्य च तदा ब्रह्मा मनसा परमेण हि ॥१६३॥

गिरिजातपसोद्भूतं दावाग्निं परमं महत् ॥
ज्ञात्वा ब्रह्मा जगा माशु क्षीराब्धिं परमाद्भुतम् ॥१६४॥

तत्र सुप्तं सुप्लयंके शेषाख्ये चातिशोभने ॥
लक्ष्म्या पादोपयुगलं सेव्यमानं निरंतरम् ॥१६५॥

दूरस्थेनापि तार्क्ष्येण नतकंधरधारिणा ॥
सेव्यमानं श्रिया कांत्या क्षांत्या वृत्त्या दयादिभिः ॥१६६॥

नवशक्तियुतं विष्णुं पार्पदैः परिवारितम् ॥
कुमुदोथ कुमुद्वांश्च सनकश्च सनंदनः ॥१६७॥

सनातनो महाभागः प्रसुप्तो विजयोऽरिजित् ॥
जयंतश्च जयत्सेनो जयश्चैव महाप्रभः ॥१६८॥

सनत्कुमारः सुतपा नारदश्चैव तुंबुरुः ॥
पांचजन्यो महाशंखो गदा कौमोदकी तथा ॥१६९॥

सुदर्शनं तथा चापं शार्ङ्गं च परमाद्भुतम् ॥
एतानि वै रूपवंति दृष्टानि परमेष्ठिना ॥१७०॥

विष्णोः समीपे परमामनो भृशं समेत्य सर्वे सुरदानवास्तदा ॥
विष्णुं चाहुः परमेष्ठिनां पतिं तीरे तदानीमुदधेर्महात्मनः ॥१७१॥

त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान् ॥
तपसोग्रेण महता पार्वत्याः परमेण हि ॥
शेषासने चोपविष्ट उवाच परमेश्वरः ॥१७२॥

युष्माभिः सहितश्चापि व्रजामि परमेश्वरम् ॥
महादेवं प्रार्थयामो गिरिजां प्रति वै सुराः ॥१७३॥

पाणिग्रहार्थमधुना देवदेवः पिनाकधृक् ॥
यथा नेष्यति तत्रैव करिष्यामोऽधुना वयम् ॥१७४॥

तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ॥
तपसोग्रेण संयुक्तो ह्यास्ते परममंगलः ॥१७५॥

विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः ॥
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम् ॥१७६॥

यदा दग्धः पुरा तेन मदनो दुरतिक्रमः ॥
तथैव धक्ष्यत्यस्माकं नात्र कार्या विचारणा ॥१७७॥

प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः ॥
मा भयं क्रियतां सर्वैः शिवरूपी सदाशिवः ॥१७८॥

स न धक्ष्यति सर्वेषां देवानां भयनाशनः ॥
तस्माद्भवद्भिर्गतव्यं मया सार्द्धं विचक्षणाः ॥१७९॥

शंभुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम् ॥
तपो जुषाणं परमार्थरूपं परात्परं तं शरणं व्रजामि ॥१८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पार्वतीपश्चर्यावर्णनंनामैकविंशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP