केदारखण्डः - अध्यायः २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥लोमश उवाच ॥
एकदा तु तदा तेन यज्ञः प्रारंभितो महान् ॥
तत्राहूतास्तदा सर्वे दीक्षितेन तपस्विना ॥१॥

ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः ॥
अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः ॥२॥

दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः ॥
एते चान्ये च बहवः समाजग्मुर्महर्षयः ॥३॥

तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गंधर्वाः किंनराप्सरसां गणाः ॥४॥

सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः ॥
वैकुंठाच्च तथा विष्णुः समानीतो मरवं प्रति ॥५॥

देवेन्द्रो हि समानीत इंद्राण्या सह सुप्रभः ॥
तथा चंद्रो हि रोहिण्या वरुणः प्रिययया सह ॥६॥

कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः ॥
बस्ताऽऽरूढः पावकश्च प्रेताऽऽरूढोऽथ निर्ऋति ॥७॥

एते सर्वे समायाता यज्ञवाटे द्विजन्मनः ॥
ते सर्वे सत्कृतास्तेन दक्षेण च दुरात्मना ॥८॥

भवनानि महार्हाणि सुप्रभाणि महांति च ॥
त्वष्ट्रा कृतानि दिव्यानि कौशल्येन महात्मना ॥९॥

तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः ॥१०॥

वर्त्तमाने महायज्ञे तीर्थे कनखले तथा ॥
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥११॥

दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ॥
भार्यया सहितो विप्रैः कृतस्वत्ययनो भृशम् ॥१२॥

रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा ॥
एतस्मिन्नंतरे तत्र दधीचिर्वाक्यमब्रवीत् ॥१३॥

 ॥दधीचिरुवाच ॥
एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव ॥
तथाऽपि यज्ञस्तु न शोभते भृशंपिनाकिना तेन महात्मना विना ॥१४॥

येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः ॥
सोऽसौ न दृष्टोऽत्र पुमान्पुराणो वृषध्वजो नीलकण्ठः कपर्दी ॥१५॥

अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष ॥
त्रियंबकेनाथ सुमंगलानि भवंति सद्योह्यपमंगलानि ॥१६॥

तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना ॥
त्वरितं चैव शक्रेण विष्णुना प्रभविष्णुना ॥१७॥

सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः ॥१८॥

दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः ॥
तेन सर्वं पवित्रं स्याच्छंभुना योगिना भृशम् ॥१९॥

यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ॥
तस्मात्सर्वप्रयत्नेन समानेयो वृषध्वजः ॥२०॥

तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः ॥
मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः ॥२१॥

यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च ॥
प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः ॥२२॥

सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ॥
वेदैश्चोपनिषद्भिश्च आगमैर्विविधैः सह ॥२३॥

तथा सुरगणैः साकमागतः सुरराट्‌ स्वयम् ॥
तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥२४॥

येये यज्ञोचिताः शांतास्तेते सर्वे समागताः ॥
वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः ॥२५॥

अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्. ॥
कन्या दत्ता मया विप्रा ब्रह्मणा नोदितेन हि ॥२६॥

अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा ॥
भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥२७॥

आत्मसंभावितो मूढःस्तब्धो मौनी समत्सरः ॥
कर्मण्यस्मिन्नयोग्योऽसौ नानीतो हि मयाऽधुना ॥२८॥

तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज ॥
सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥२९॥

एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत् ॥३०॥

 ॥दधीचिरुवाच ॥
सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम् ॥
अनयोऽयं महाञ्जातो विना तेन महात्मना ॥३१॥

विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति ॥
एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः ॥३२॥

यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ ॥
मुनौ विनिर्गते दक्षः प्रहसन्निदमब्रवीत् ॥३३॥

गतः शिवप्रियो वीरो दधीचिर्नाम नामतः ॥
आविष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ॥३४॥
वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि ॥
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ॥३५॥

यज्ञं मे सफलं विप्राः कुर्वंतु ह्यचिरादिव ॥
तदा ते देवयजनं चक्रुः सर्वे सहर्षयः ॥३६॥

एतस्मिन्नंतरे तत्र पर्वते गंधमादने ॥
धारागृहे विमानेन सखीभिः परिवारिता ॥३७॥

दाक्षायणी महादेवी चकार विविधास्तदा ॥
क्रीडा विमानमध्यस्ता कन्दुकाद्याः सहस्रशः ॥३८॥

क्रीडासक्ता तदा देवी ददर्शाथ महासती ॥
यज्ञं प्रयांतं सोमं च रोहिण्या सहितं प्रभुम् ॥३९॥

क्व गमिष्यति चंद्रोऽयं विजये पृच्छ सत्वरम् ॥
तयोक्ता विजया देवी तं पप्रच्छ यथोचितम् ॥४०॥

कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम् ॥
तच्छ्रुत्वा त्वरिता देवी विजया जातसंभ्रमा ॥
कथयामास तत्सर्वं यदुक्तं शशिना भृशम् ॥४१॥

विमृश्य कारणं देवी किमाह्वानं करोति न ॥
दक्षः पिता मे माता च विस्मृता मां कुतोऽधुना ॥४२॥

पृच्छामि शंकरं चाद्य कारणं कृतनिश्चया ॥
स्थापयित्वा सखीस्तत्र आगता शंकरं प्रति ॥४३॥

ददर्शतं सभामध्ये त्रिलोचनमवस्थितम् ॥
गणैः परिवृतं सर्वैश्चंडमुंडादिभिस्तदा ॥४४॥

बाणो भृंगिस्तथा नंदी शैलादो हि महातपाः ॥
महाकालो महाचंडो महामुंडो महाशिराः ॥४५॥

धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च ॥
एते चान्ये च बहवो गणा रुद्रानुवर्तिनः ॥४६॥

केचिद्भयानका रौद्राः कबंधाश्च तथा परे ॥
विलोचनाश्च केचिच्च वक्षोहीनास्तथा परे ॥४७॥

एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः ॥
जटाकलापसंभूषाः सर्वे रुद्राक्षभूषणाः ॥४८॥

जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः ॥
एभिः सर्वैः परिवृतः शंकरो लोकशंकरः ॥
दृष्टस्तया उपाविष्ट आसने परामाद्भुते ॥४९॥

आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम् ॥
शिवेन स्थापिता स्वांके प्रीतियुक्तेन वल्लभा ॥५०॥

प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम् ॥
किमागमनकार्यंमे वद शीघ्रं सुमध्यमे ॥५१॥

एवमुक्ता तदा तेन उवाचासितलोचना ॥५२॥

 ॥सत्युवाच ॥
पितुर्मम महायज्ञे कस्मात्तव न रोचते ॥
गमनं देवदेवश तत्सर्वं कथय प्रभो ॥५३॥

सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम् ॥
कुर्वंति यन्महादेव सुहृदां प्रीतिवर्धिनीम् ॥५४॥

तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः ॥
यज्ञवाटं पितुर्मेऽद्य वचनान्मे सदाशिव ॥५५॥

तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः ॥
त्वया भद्रे न गंतव्यं दक्षस्य यजनं प्रति ॥५६॥

तस्य ये मानिनः सर्वे ससुरासुकिंनराः ॥
ते स्रेव यजनं प्राप्ताः पितुस्तव न संशयः ॥५७॥

अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम् ॥
अपमानं प्राप्नुवन्ति मरणादधिकं ततः ॥५८॥

परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत् ॥
तस्मात्त्वाया न गंतव्यं दक्षस्य यजनं शुभे ॥५९॥

एवमुक्ता सती तेन महेशेन महात्मना ॥
उवाच रोषसंयुक्तं वाक्यं वाक्यविदां वरा ॥६०॥

यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर ॥
अनाहूतोऽसि तेनाद्य पित्रा मे दृष्टचारिणा ॥
तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः ॥६१॥

तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम ॥
अनुज्ञां देहि मे नाथ देवदेव जगत्पते ॥६२॥

इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम् ॥
विज्ञाताखिलदृग्द्रष्टा भगवान्भूतभावनः ॥६३॥

स तामुवाच देवेशो महेशः सर्वसिद्धिदः ॥
गच्छ देवि त्वरायुक्ता वचनान्मम सुव्रते ॥६४॥

एतं नंदिनमारुह्य नानाविधगणान्विता ॥
गणाः षष्टिसहस्राणि जग्मूरौद्राः शिवज्ञया ॥६५॥

तैर्गणैः संवृता देवी जगाम पितृमंदिरम् ॥
निरीक्ष्य तद्बलं सर्वं महादेवोतिविस्मितः ॥६६॥

भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः ॥
प्रेषयामास चाव्यग्रो महादेवोऽनु पृष्ठतः ॥६७॥

देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः ॥
दाक्षायणी पित्रवमानिता सती न यास्यतीति स्वपुरं पुनर्जगौ ॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे दक्षयज्ञं प्रति सतीदेव्यागमनवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP