केदारखण्डः - अध्यायः ९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥लोमश उवाच ॥
एकदा तु सभामध्य आस्थितो देवराट् स्वयम् ॥
लोकपालैः परिवृतो देवैश्च ऋषिभिस्तथा ॥१॥
अप्सरोगणसंवीतो गंधर्वैश्च पुरस्कृतः ॥
उपगीयमानविजयः सिद्धविद्याधरैरपि ॥२॥
तदा शिष्यैः परिवृतो देवराजगुरुः सुधीः ॥
आगतोऽसौ महाभागो बृहस्पति रुदारधीः ॥३॥
तं दृष्ट्वा सहसा देवाः प्रणेमुः समुपस्थिताः ॥
इंद्रोपि ददृशे तत्र प्राप्तं वाचस्पतिं तदा ॥४॥
नोवाच किंचिद्दुर्मेधावचो मानुपुरःसरम् ॥
नाह्वानं नासनं तस्य न विसर्जनमेव च ॥५॥
शक्रं प्रमत्तं ज्ञात्वाथ मदाद्राज्यस्य दुर्मतिम् ॥
तिरोधानमनुप्राप्तो बृहस्पती रुषान्वितः ॥६॥
गते देवगुरौ तस्मिन्विमनस्काऽभवन्सुराः ॥
यक्षा नागाः सगंधर्वा ऋषयोऽपि तथा द्विजाः ॥७॥
गांधर्वस्या वसाने तु लब्धसंज्ञो हरिः सुरान् ॥
पप्रच्छ त्वरितेनवै क्व गतो हि महातपाः ॥८॥
तदैव नारदेनोक्तः शक्रो देवाधिपस्तथा ॥
त्वया कृता ह्यवज्ञा च गुरोर्नस्त्यत्र संशयः ॥९॥
गुरोरवज्ञया राज्यं गतं ते बलसूदन ॥
तस्मात्क्षमापनीयोऽसौ सर्वभावेन हि त्वया ॥१०॥
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः ॥
आसनात्सहसोत्थाय तैः सर्वैः परिवारितः ॥
आगच्छत्त्वरया शक्रो गुरोर्गेहमतंद्रितः ॥११॥
पृष्ट्वा तारां प्रणम्यादौ क्व गतो हि महातपाः ॥
न जानामीत्युवाचेदं तारा शक्रं निरीक्षती ॥१२॥
तदा चिंतान्वितो भूत्वा शक्रः स्वगृहमाव्रजत् ॥
एतस्मिन्नंतरे स्वर्गे ह्यनिष्टान्द्भुतानि च ॥१३॥
अभवन्सर्वदुःखार्थे शक्रस्य च महात्मनः ॥
पातालस्थेन बलिना ज्ञातं शक्रस्य चेष्टितम् ॥१४॥
ययौ दैत्यैः परिवृतः पातालादमरावतीम् ॥
तदा युद्धमतीवासीद्देवानां दानवैः सह ॥१५॥
देवाः पराजिता दैत्यै राज्यं शक्रस्य तत्क्षणात् ॥
संप्राप्तं सकलं तस्य मूढस्य च दुरात्मनः ॥१६॥
नीतं सर्वप्रयत्नेन पातालं त्वरितं गताः ॥
शुक्रप्रसादात्ते सर्वे तथा विजयिनोऽभवन् ॥१७॥
शक्रोऽपि निःश्रिको जातो देवैस्त्यक्तस्ततो भृशम् ॥
देवी तिरोधानगता बभूव कमलेक्षणा ॥१८॥
ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः ॥
एवमादीनि रत्नानि अनेकानि बहून्यपि ॥
नीतानि सहसा दैत्यैर्लोभादसाधुवृत्तिभिः ॥१९॥
पुण्यभांजि च तान्येव पतितानि च सागरे ॥
तदा स विस्मयाविष्टो बलिराह गुरुं प्रति ॥२०॥
देवान्निर्जित्य चास्माभिरानीतानि बहूनि च ॥
रत्नानि तु समुद्रेऽथ पतितानि तदद्भुतम् ॥२१॥
बलेस्तद्वचनं श्रुत्वा उशना प्रत्युवाच तम् ॥
अश्वमेधशतेनैव सुरराज्यं भविष्यति ॥
दीक्षितस्य न संदेहस्तस्माद्भोक्त स एव च ॥२२॥
अश्वमेधं विना किंचित्स्वर्गं भोक्तं न पार्यते ॥२३॥
गुरोर्वचनमाज्ञाय तूष्णींभूतो बलिस्ततः ॥
बभूव देवैः सार्द्धं च यथोचितमकारयत् ॥२४॥
इन्द्रोपि शोच्यतां प्राप्तो जगाम परमेष्ठिनम्. ॥
विज्ञापयामास तथा सर्वं राज्यभयादिकम् ॥२५॥
शक्रस्य वचनं श्रुत्वा परमेष्ठी उवाच ह ॥२६॥
संमिलित्वा सुरान्सर्वांस्त्वया साकं त्वरान्विताः ॥
आराधनार्थं गच्छामो विष्णुं सर्वेश्वरेश्वरम् ॥२७॥
तथेति गत्वा ते सर्वे शक्राद्या लोकपालकाः ॥
ब्रह्माणं च पुरस्कृत्य तटं क्षीरार्णवस्य च ॥
प्राप्योपविश्य ते सर्वे हरिं स्तोतुं प्रचक्रमुः ॥२८॥
॥ब्रह्मोवाच ॥
देवदेव जगान्नाथ सुरासुरनमस्कृत ॥
पुण्यश्लोकाव्ययानंत परमात्मन्नमोऽस्तु ते ॥२९॥
यज्ञोऽसि यज्ञरूपोऽसि यज्ञांगोऽसि रमापते ॥
ततोऽद्य कृपया विष्णो देवानां वरदो भव ॥३०॥
गुरोरवज्ञया चाद्य भ्रष्टराज्यः शतक्रतुः ॥
जातः सुरर्षिभिः साकं तस्मादेनं समुद्धर ॥३१॥
॥श्रीभगवानुवाच ॥
दुकोकलज्ञया सर्वं नस्यतीति किमद्भुतम् ॥
ये पापिनो ह्यधर्मिष्ठाः केवलं विषयात्मकाः ॥
पितरौ निंदितौ यैश्च निर्दैवात्वेन संशयः ॥३२॥
अनेन यत्कृतं ब्रह्मन्सद्यस्तत्फलमागतम् ॥
कर्मणा चास्य शक्रस्य सर्वेषां संकटागमः ॥३३॥
विपरीतो यदा कालः पुरुषस्य भवेत्तदा ॥
भूतमैत्रीं प्रकुर्वंति सर्वकार्यार्थसिद्धये ॥३४॥
तेन वै कारणेनेंद्र मदीयं वचनं कुरु ॥
कार्यहेतोस्त्वया कार्यो दैत्यैः सह समागमः ॥३५॥
एवं भगवतादिष्टः शक्रः परमबुद्धिमान् ॥
अमरावतीं ययौ हित्वा सुतलं दैवतैः सह ॥३६॥
इन्द्रं समागतं श्रुत्वा इंद्रसेनो रुषान्वितः ॥
बभूव सह सैन्येन हंतुकामः पुरंदरम् ॥३७॥
नारदेन तदा दैत्या बलिश्च बलिनां वरः ॥
निवारितस्तद्वधाच्च वाक्यैरुच्चावचैस्तथा ॥३८॥
ऋषेस्तस्यैव वचनात्त्यक्तमन्युर्बलिस्तदा ॥
बभूव सह सैन्येन आगतो हि शतक्रतुः ॥३९॥
इन्द्रसेनेन दृष्टोऽसौ लोकपालैः समावृतः ॥
उवाच त्वरया युक्तः प्रहसन्निव दैत्यराट् ॥४०॥
कस्मादिहागतः शक्र सुतलं प्रति कथ्यताम् ॥
तस्यैतद्वचनं श्रुत्वा स्मयमान उवाचतम्.।४१॥
वयं कश्यपदायादा यूयं सर्वे तथैव च ॥
यथा वयं तथा यूयं विग्रहो हि निरर्थकः ॥४२॥
मम राज्यं क्षणेनैव नीतं दैववशात्तवया ॥
तथा ह्येतानि तान्येन रत्नानि सुबहून्यपि ॥
गतानि तत्क्षणादेव यत्नानीतानि वै त्वया ॥४३॥
तस्माद्विमर्शः कर्तव्यः पुरुषेण विपश्चिता ॥
विमर्शज्जायते ज्ञानं ज्ञानान्मोक्षो भविष्यति ॥४४॥
किं तु मे बत उक्तेन जाने न च तवाग्रतः ॥
शरणार्थी ह्यहं प्राप्तः सुरैः सह तवांतिकम् ॥४५॥
एतच्छ्रुत्वा तु शक्रस्य वाक्यं वाक्यविदां वरः ॥
प्रहस्योवाच मतिमाञ्छक्रं प्रति विदां वरः ॥४६॥
त्वमागतोसि देवेंद्र किमर्थं तन्न वेद्मयहम् ॥४७॥
शक्रस्तद्वचनं श्रुत्वा ह्यश्रुपूर्णाकुलेक्षणः ॥
किंचिन्नोवाच तत्रैनं नारदो वाक्यमब्रवीत् ॥४८॥
बले त्वं किं न जानासि कार्याकार्यविचारणाम् ॥
धर्मो हि महतामेष शरणागतपालनम् ॥४९॥
शरणागतं च विप्रं च रोगिणं वृद्धमेव च ॥
यएतान्न च रक्षंति ते वै ब्रह्महणो नराः ॥५०॥
शरणागतशब्देन आगतस्तव सन्निधौ ॥
संरक्षणाय योग्यश्च त्वया नास्त्यत्र संशयः ॥
एवमुक्तो नारदेन तदा दैत्यपतिः स्वयम् ॥५१॥
विमृश्य परया बुद्ध्या कार्याकार्यविचारणाम् ॥
शक्रं प्रपूजयामास बहुमानपुरःसरम् ॥
लोकपालैः समेतं च तथा सुरगणैः सह ॥५२॥
प्रत्ययार्थं च सत्त्वानि ह्यनेकानि व्रतानि वै ॥
बलिप्रत्ययभूतानि स चकारः पुरंदरः ॥५३॥
एवं स समयं कृत्वा शक्रः स्वार्थपरायणः ॥
बलिना सह चावासीदर्थशास्त्रपरो महान् ॥५४॥
एवं निवसतस्तस्य सुतलेऽपि शतक्रतोः ॥
वत्सरा बहवो ह्यासंस्तदा बुद्धिमकल्पयत् ॥
संस्मृत्य वचनं विष्णोर्विमृश्य च पुनःपुनः ॥५५॥
एकदा तु सभामध्य आसीनो देवराट्स्वयम् ॥
उवाच प्रहसन्वाक्यं बलिमुद्दिश्य नीतिमान् ॥५६॥
प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले ॥
गजादीनि बहून्येव रत्नानि विविधानि च ॥५७॥
गतानि तत्क्षणादेव सागरे पतितानि वै ॥
प्रयत्नो हि प्रकर्तव्यो ह्यस्माभिस्त्वयान्वितैः ॥५८॥
तेषां चोद्धरणे दैत्य रत्नानामिह सागरात् ॥
तर्हि निर्मथनं कार्यं भवता कार्यसिद्धये ॥५९॥
बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः ॥
उवाच शक्रं त्वरितः केनेदं मथनं भवेत् ॥६०॥
तदा नभोगता वाणी मेघगंभीरनिःस्वना ॥
उवाच देवा दैत्याश्च मंथध्वं क्षीरसागरम् ॥६१॥
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥६२॥
मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम् ॥
पश्चाद्देवाश्च दैत्याश्च मेलयित्वा विमथ्यताम् ॥६३॥
नभोगतां च तां वाणीं निशम्याथ तदाःसुराः ॥
दैत्यैः सार्द्धं ततः सर्व उद्यमं चक्रुरुद्यताः ॥६४॥
पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः ॥
आजग्मुरतुलं सर्वे मंदरं पर्वतोत्तमम् ॥६५॥
दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः ॥
उद्युक्ताः सहसा प्राऽयुर्मंदरं कनकप्रभम् ॥६६॥
सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम् ॥
अनेकरत्नसंवीतं नानाद्रुमनिषेवितम् ॥६७॥
चंदनैः पारिजातैश्च नागपुन्नागचंपकैः ॥
नानामृगगणाकीर्णं सिंहशार्दूलसेवितम् ॥६८॥
महाशैलं दृष्ट्वा ते सुरसत्तमाः ॥
ऊचुः प्रांजलयः सर्वे तदा ते सुरसत्तमाः ॥६९॥
॥देवा ऊचुः ॥
अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः ॥
तच्छृणुष्व महाशैल परेषामुपकारकः ॥७०॥
एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः ॥
उवाच निःसृतो भूत्वा परं विग्रहवान्वचः ॥७१॥
तेन रूपेण रूपी स पर्वतो मंदराचलः ॥
किमर्थमागताः सर्वे मत्समीपं तदुच्यताम् ॥७२॥
तदा बलिरुवाचेदं प्रस्तावसदृशं वचः ॥
इंद्रोपि त्वरया युक्तो बभाषे सूनृतं वचः ॥७३॥
अस्माभिः सह कार्यार्थे भव त्वं मंदराचल ॥
अमृतोत्पादनार्थे त्वं मंथानं भव सुव्रत ॥७४॥
तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये ॥
ऊचे देवासुरांश्चेदमिन्द्रं प्रति विशेषतः ॥७५॥
छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा ॥
गंतुं कथं समर्थोऽहं भवतां कार्यसिद्धये ॥७६॥
तदा देवासुराः सर्वे स्तूयमाना महाचलम् ॥
उत्पाटयेयुरतुलं मंदरं च ततोद्भुतम् ॥७७॥
क्षीरार्णवं नेतुकामा ह्यशक्तास्ते ततोऽभवन् ॥
पर्वतः पतितः सद्यो देवदैत्योपरि ध्रुवम् ॥७८॥
केचिद्भग्ना मृताः केचित्केचिन्मूर्छापरा भवन् ॥
परीवादरताः केचित्केचित्क्लेशत्वमागताः ॥७९॥
ेवं भग्नोद्यमा जाता असुराःसुरदानवाः ॥
चेतनां परमां प्राप्तास्तुष्टुवुर्जगदीश्वरम् ॥८०॥
रक्षरक्ष महाविष्णो शरणागतवत्सल ॥
त्वया ततमिदं सर्वं जंगमाजंगमं च यत् ॥८१॥
देवानां कार्यसिद्ध्यर्थं प्रादुर्भूतो हरिस्तदा ॥
तान्दृष्ट्वा सहसा विष्णुर्गरुडोपरि संस्थितः ॥८२॥
लीलया पर्वतश्रेष्ठमुत्तभ्यारोपयत्क्षणात् ॥
गरुत्मति तदा देवः सर्वेषामभयं ददौ ॥८३॥
तत उत्थाय तान्देवान्क्षीरोस्योत्तरं तटम् ॥
नीत्वा तं पर्वतं वृद्धं निक्षिप्याप्सु ततो ययौ ॥८४॥
तदा सर्वे सुरगणाः स्वागत्य असुरैः सह ॥
वासुकिं च समादाय चक्रिरे समयंच तम् ॥८५॥
मंथानं मंदरं चैव वासुकिं रज्जुमेव च ॥
कृत्वा सुराऽसुराः सर्वे ममंथुः श्रीरसागरम् ॥८६॥
क्षीराब्धेर्मथ्यमानस्य पर्वतो हि रसातलम् ॥
गतः स तत्क्षणादेव कूर्मो भूत्वा रमापतिः ॥
उद्धृतस्तत्क्षणादेव तदद्भुतमिवाभवत् ॥८७॥
भ्राम्यमाणस्ततः शैलो नोदितः सुरदानवैः ॥
भ्रममाणो निराधारो बोधश्चेव गुरुं विना ॥८८॥
परमात्मा तदा विष्णुराधारो मंदरस्य च ॥
दोर्भिश्चतुर्भिः संगृह्य ममंथाब्धिं सुखावहम् ॥८९॥
तदा सुरासुराः सर्वे ममंथुः क्षीरसागरम् ॥
एकीभूत्वा बलेनैवमतिमात्रं बलोत्कटाः ॥९०॥
पृष्ठकंठोरुजान्वंतः कमठस्य महात्मनः ॥
तथासौ पर्वतश्रेष्ठो वज्रसारमयो दृढः ॥
उभयोर्घर्षणादेव वडवाग्निः समुत्थितः ॥९१॥
हलाहलं च संजातं तदॄष्ट्वा नारदेन हि ॥
ततो देवानुवाचेदं देवर्षिरमितद्युतिः ॥९२॥
न कार्यं मथनं चाब्धेर्भवद्भिरधुनाऽखिलैः ॥
प्रार्थयध्वं शिवं देवाः सर्वे दक्षस्य याजनम् ॥
तद्विस्मृतिं च वोयातं वीरभद्रेण यत्कृतम् ॥९३॥
तस्माच्छिवः स्मर्यतां चाशु देवाः परः पराणामपि वा परश्च ॥
परात्परः परमानंदरूपो योगिध्येयो निष्प्रपंचो ह्यरूपः ॥९४॥
ते मथ्यमानास्त्वरिता देवाः स्वात्मार्थसाधकाः ॥
अभिलाषपराः सर्वे न श्रृण्वंति यतो जडाः ॥९५॥
उपदेशैश्च बहुभिर्नोपदेश्याः कदाचन ॥
ते रागद्वेषसंघाताः सर्वे शिवपराङ्मुखाः ॥९६॥
केवलोद्यमसंवीता ममंथुः क्षीरसागरम् ॥
अतिनिर्मथनाज्जातं क्षीराब्धेश्चहलाहलम् ॥९७॥
त्रैलोक्यदहने प्रौढं प्राप्तं हंतुं दिवौकसः ॥
अत ऊर्ध्वं दिशः सर्वा व्याप्तं कृत्स्नं नभस्तलम् ॥
ग्रसितुं सर्वभूतानां कालकूटं समभ्ययात् ॥९८॥
दृष्ट्वा बृहंतं स्वकरस्थमोजसा तं सर्पराजं सह पर्वतेन ॥
तत्रैव हित्वापययुस्तदानीं पलायमाना ह्यसुरैः समेताः ॥९९॥
तथैव सर्व ऋषयो भृग्वाद्याः शतशाम्यति ॥
दक्षस्य यजनं तेन यथा जातं तथाभवत् ॥१००॥
सत्यलोकं गताः सर्वे भुगुणा नोदिता भृशम् ॥
वेदवाक्यैश्च विविधैः कालकूटं शतशस्ततः ॥
देवा नास्त्यत्र संदेहः सत्यं सत्यं वदामि वः ॥१०१॥
भृगुणोक्तं वचः श्रुत्वा कालकूटविषार्द्दिताः ॥
सत्यलोकं समासाद्य ब्रह्माणं शरणं ययुः ॥१०२॥
तदा जाज्वल्यमानं वै कालकूटं प्रभोज्जवलम् ॥
दृष्ट्वा ब्रह्माथ तान्दृष्ट्वा ह्यकर्मज्ञानसुरासुरान् ॥
तेषां शपितुमारेभे नारदेन निवारितः ॥१०३॥
॥ब्रह्मोवाच ॥
अकार्यं किं कृतं देवाः कस्मात्क्षोभोयमुद्यतः ॥
ईश्वरस्य च जातोऽद्य नान्यथा मम भाषितम् ॥१०४॥
ततो देवैः परिवृतो वेदोपनिषदैस्तथा ॥
नानागमैः परिवृतः कालकूटभयाद्ययौ ॥१०५॥
ततश्चिंतान्विता देवा इदमूचुः परस्परम् ॥
अविद्याकामसंवीताः कुर्यामः शंकरं च कम् ॥१०६॥
ब्रह्माणं च पुरस्कृत्य तदा देवास्त्वरान्विताः ॥
वैकुण्ठमाव्रजन्सर्वे कालकूट भयार्द्दिताः ॥१०७॥
ब्रह्मादयश्चर्षिगणाश्च तदा परेशं विष्णुं पुराणपुरुषं प्रभविष्णुमीशम् ॥
वैकुण्ठमाश्रितमधोक्षजमाधवं ते सर्वे सुरासुरगणाः शरणं प्रयाताः ॥१०८॥
तावत्प्रवृद्धं सुमहत्कालकूटं समभ्ययात् ॥
दग्ध्वादो ब्रह्मणो लोकं वैकुण्ठं च ददाह वै ॥१०९॥
कालकूटाग्निना दग्धो विष्णुः सर्वगुहाशयः ॥
पार्षदैः सहितः सद्यस्तमालसदृशच्छविः ॥११०॥
वैकुण्ठं च सुनीलं च सर्वलोकैः समावृतम् ॥
जलकल्मषसंवीताः सर्वे लोकास्तदाभवन् ॥१११॥
अष्टावरणसंवीतं ब्रह्मांडं ब्रह्मणा सह ॥
भस्मीभूतं चकाराशु जलकल्मषमद्भुतम् ॥११२॥
नोभूमिर्न जलं चाग्निर्न वायुर्न नभस्तदा ॥
नाहंकारो न च महान्मूलाविद्या तथैव च ॥
शिवस्य कोपात्संजातं तदा भस्माकुलं जगत् ॥११३॥
इति श्रीस्कांदे महापुराणं एकाशीतिसाहस्र्यां संहितायां प्रथममाहेश्वरखण्डान्तर्गते केदारखण्डे नवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : July 18, 2024
TOP