केदारखण्डः - अध्यायः २२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना ॥
जग्मुः सर्वे महेशं च द्रष्टुकामाः पिनाकिनम् ॥१॥
परे पारे परमेण समाधिना ॥
योगपीठे स्धितं शंभुं गणैश्च परिवारितम् ॥२॥
यज्ञोपवीतविधिना उरसा बिभ्रतं वृतम् ॥
वासुकिं सर्पराजं च कंबलाश्वतरौ तथा ॥३॥
कर्णद्वये धारयंतं तथा कर्कोटकेन हि ॥
पुलहेन च बाहुभ्यां धारयंतं च कंकणे ॥४॥
सन्नूपुरे शङ्खकपद्मकाभ्यां संधारयंतं च विराजमानम् ॥
कर्पूरगौरं शितिकंठमद्भुतं वृषान्वितं देववरं ददर्शुः ॥५॥
तदा ब्रह्मा च विष्णुश्च ऋषयो देवदानवाः ॥
तुष्टुवुर्विविधैः सूक्तैर्वेदोपनिषदन्वितैः ॥६॥
॥ ब्रह्मोवाच ॥
नमो रुद्राय देवाय मदनांतकराय च ॥
भर्गाय भूरिभाग्याय त्रिनेत्राय त्रिविष्टपे ॥७॥
शिपिविष्टाय भीमाय शेषशायिन्नमोनमः ॥
त्र्यंबकाय जगद्धात्रे विश्वरूपाय वै नमः ॥८॥
त्वं धाता सर्वलोकानां पिता माता त्वमीश्वरः ॥
कृपया परया युक्तः पाह्यस्मांस्त्वं महेश्वर ॥९॥
इत्थं स्तुवत्सु देवेषु नन्दी प्रोवाच तान्प्रति ॥
किमर्थमागता यूयं किं वा मनसि वर्तते ॥१०॥ (२२.११)
ते प्रोचुर्देवकार्यार्थं विज्ञप्तुं शंभुमागता ॥
विज्ञप्तो नंदिना तेन शैलादेन महात्मना ॥
ध्यानस्थितो महादेवः सुरकार्यार्थसिद्धये ॥११॥
ब्रह्मादयः सुरगणाः सुरसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य विशेषयंति ॥
कार्य्यार्थिनोऽसुरवरैः परिभर्त्स्यमाना अभ्यागताः सपदि शत्रुभिरर्दिताश्च ॥१२॥
तस्मात्त्वया हि देवेश त्रातव्याश्चाधुना सुराः ॥
एवं तेन तदा शंभुर्विज्ञप्तो नंदिना द्विजाः ॥१३॥
शनैःशनैरुपरमच्छंभुः परमकोपनः ॥
समाधेः परमात्माऽसावुवाच परमेश्वरः ॥१४॥
॥ महादेव उवाच ॥
कस्माद्यूयं महाभागा ह्यागता मत्समीपगाः ॥
ब्रह्मादयो ह्यमी देवा ब्रूत कारणमद्य वै ॥१५॥
तदा ब्रह्मा ह्युवाचेदं सुरकार्यं महत्तरम् ॥
तारकेण कृतं शंभो देवानां परमाद्भुतम् ॥१६॥
कष्टात्कष्टतरं देव तद्विज्ञप्तुमिहागताः ॥
हे शंभो तव पुत्रेण औरसेन हतो भवेत् ॥
तारको देवशत्रुश्च नान्यथा मम भाषितम् ॥१७॥
तस्मात्त्वया गिरिजा देव शंभो गृहीतव्या पाणिना दक्षिणेन ॥
पाणिग्रहेणैव महानुभाव दत्ता गिरीन्द्रेण च तां कुरुष्व ॥१८॥
ब्रह्मणो हि वचः श्रुत्वा प्रहसन्नब्रवीच्छिवः ॥
यदा मया कृता देवी गिरिजा सर्वसुन्दरी ॥१९॥
तदा सर्वे सुरेन्द्राश्च ऋषयो मुनयस्तथा ॥
सकामाश्च भविष्यंति अक्षमाश्च परे पथि ॥२०॥
मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये ॥
मया ह्यधि कृता तन्वी गिरिजा च सुमध्यमा ॥२१॥
तदानीमेव भो देवाः पार्वती मदनं च सा ॥
जीवयिष्यति भो ब्रह्मन्नात्र कार्या विचारणा ॥२२॥
एवं विमृश्य भो देवाः कार्या कार्यविचारणा ॥
मदनेनैव दग्धेन सुरकार्यं महत्कृतम् ॥२३॥
यूयं सर्वे च निष्कामा मया नास्त्यत्र संशयः ॥
यथाहं च सुराः सर्वे तथा यूयं प्रयत्नतः ॥२४॥
तपः परमसंयुक्ताः पारयामः सुदुष्करम् ॥
परमानन्दसंयुक्ताः सुखिनः सर्व एव हि ॥२५॥
यूयं समाधिना तेन मदनेन च विस्मृतम् ॥
कामो हि नरकायैव तस्मात्क्रोधोऽभिजायते ॥२६॥
क्रोधाद्भवति संमोहः संमोहाद्भ्रमते मनः ॥
कामक्रोधौ परित्यज्य भवद्भिः सुरसत्तमैः ॥
सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित् ॥२७॥
एवं विश्राव्य भगवान्स हि देवो वृषध्वजः ॥
सुरान्प्रबोधयामास तथा ऋषिगणान्मुनीन् ॥२८॥
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ॥
आस्ते पुरा यथावच्च गणैश्च परिवारितः ॥२९॥
ध्यानास्थितं च तं दृष्ट्वा नन्दौ सर्वान्विसृज्य तान् ॥
सब्रह्मसेन्द्रान्विबुधानुवाच प्रहसन्निव ॥३०॥
यतागतेन मार्गेण गच्छध्वं मा विलंबितम् ॥
तथेति मत्वा ते सर्वे स्वंस्वं स्थानमथाऽव्रजन् ॥३१॥
गतेषु तेषु सर्वेषु समाधिस्थोऽभवद्भवः ॥
आत्मानमात्मना कृत्वा आत्मन्येन विचंतयन् ॥३२॥
परात्परतरं स्वच्छं निर्मलं निरवग्रहम् ॥
निरञ्जनं निराभासं यस्मिन्मुह्यंति सूरयः ॥३३॥
भानुर्नभात्यग्निरथो शशी वा न ज्योतिरेवं न च मारुतो न हि ॥
यं केवलं वस्तुविचारतोऽपि सूक्ष्मात्परं सूक्ष्मतरात्परं च ॥३४॥
अनिर्द्देश्य मचिन्त्यं च निर्विकारं निरामयम् ॥
ज्ञप्तिमात्रस्वरूपं च न्यासिनो यांति तत्र वै ॥३५॥
शब्दातीनं निर्गुणं निर्विकारं सत्तामात्रं ज्ञानगम्यं त्वगम्यम् ॥
यत्तद्वस्तु सर्वदा कथ्यते वै वेदातीतैश्चागमैर्मन्त्रभूतैः ॥३६॥
तद्वस्तुभूतो भगवान्स ईश्वरः पिनाकपाणिर्भगवान्वृध्वजः ॥
येनैव साक्षान्मकरध्वजो हतस्तपो जुषाणः परमेश्वरः सः ॥३७॥
॥ लोमश उवाच ॥
गिरिजा हि तदा देवी तताप परमं तपः ॥
तपसा तेन रुद्रोऽपि उत्तमं भयमागतः ॥३८॥
विजित्य तपसा देवी पार्वती परमेण हि ॥
शम्भुं सर्वार्थदं स्थाणुं केवलं स्वस्वरूपिणम् ॥३९॥
यदा जितस्तया देव्या तपसा वृषभध्वजः ॥
समाधेश्चलितो भूत्वा यत्र सा पार्वती स्थिता ॥४०॥
जगाम त्वरितेनैव देवदेवः पिनाकधृक् ॥
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ॥४१॥
वेदिकोपरि विन्यस्तां यथैव शशिनः कलाम् ॥
स देवस्तां निरीक्ष्याथ बटुर्भूत्वाथ तत्क्षणात् ॥४२॥
ब्रह्मचारिस्वरूपेण महेशो भगवान्भवः ॥
सखीनां मध्यमाश्रित्य ह्युवाच बटुरूपवान् ॥
किमर्थमालिमध्यस्था तन्वी सर्वांगसुन्दरी ॥४३॥
केयं कस्य कुतो याता किमर्थं तप्यते तपः ॥
सर्वं मे कथ्यतां सख्यो याथातथ्येन संप्रति ॥४४॥
तदोवाच जया रुद्रं तपसः कारणं परम् ॥४५॥
हिमाद्रेर्दुहितेयं वै तपसा रुद्रमीश्वरम् ॥
प्राप्तुकामा पतित्वन सेयमत्रोपविश्य च ॥४६॥
तपस्तताप सुमहत्सर्वेषां दुरतिक्रमम् ॥
बटो जानीहि मे वाक्यं नान्यथा मम भाषितम् ॥४७॥
तच्छ्रुत्वा वचनं तस्याः प्रहस्येदमुवाच ह ॥
श्रृण्वतीनां सखीनां वै महेशो बटुरूपवान् ॥४८॥
मूढेयं पार्वती सख्यो न जानाति हिताहितम् ॥
किमर्थं च तपः कार्यं रुद्रप्राप्त्यर्थमेव च ॥४९॥
सोऽमंगलः कपाली च श्मशानालय एव च ॥
अशिवः शिवशब्देन भण्यते च वृथाथ वै ॥५०॥
अनया हि वृतो रुद्रो यदा सख्यः समेष्यति ॥
तदेयमशुभा तन्वी भविष्यति न संशयः ॥५१॥
यो दक्षशापाद्विकृतो यज्ञबाह्योऽभवद्विटा ॥
ये ह्यंगभूताः शर्वस्य सर्पा ह्यासन्महाविषाः ॥५२॥
शवभस्मान्वितो रुद्रः कृत्तिवासा ह्यमंगलः ॥
पिशाचैः प्रमथैर्भूतैरावृतो हि निरंतरम् ॥५३॥
तेन रुद्रेण किं कार्यमनया सुकुमारया ॥
निवार्यतां सखीभिश्च मर्तुकामा पिशाचवत् ॥५४॥
इंद्रं हित्वा मनोज्ञं च यमं चैव महाप्रभम् ॥
नैर्ऋतं च विशालाक्षं वरुणं च अपां पतिम् ॥५५॥
कुबेरं पवनं चैव तथैव च विभावसुम् ॥
एवमादीनि वाक्यानि उवाच परमेश्वरः ॥
सखीनां श्रृण्वतीनां च यत्र सा तपसि स्थिता ॥५६॥
इत्याकर्ण्य वचस्तस्य रुद्रस्य बटुरूपिणः ॥
चुकोप च शिवा साध्वी महेशं बटुरूपिणम् ॥५७॥
जये त्वं विजये साध्वि प्रम्लोचेऽप्यथ सुन्दरि ॥
सुलोचने महाभागे समीचीनं कृतं हि मे ॥५८॥
किमेतस्य बटोः कार्यं भवतीनामिहाधुना ॥
बटुस्वरूपमास्थाय आगतो देवनिंदकः ॥५९॥
अयं विसृज्यतां सख्यः किमनेन प्रयोजनम् ॥
बटुस्वरूपिणं रुद्रं कुपिता सा ततोऽब्रवीत् ॥६०॥
बटो गच्छाशु त्वरितो न स्थेयं च त्वयाऽधुना ॥
किमनेन प्रलापेन तव नास्ति प्रयोजनम् ॥६१॥
बटुर्निर्भर्त्सितस्तत्र तया चैवं तदा पुनः ॥
प्रहस्य वै स्थिरो भूत्वा पुनर्वाक्यमथाब्रवीत् ॥६२॥
शनैः शनैरवितथं विजयां प्रति सत्वरम् ॥
कस्मात्कोपस्तयातन्वि कृतः केनैव हेतुना ॥६३॥
सर्वेषामपि तद्वाच्यं वचनं सूक्तमेव यत् ॥
यथोक्तेन च वाक्येन कस्मात्तन्वी प्रकोपिता ॥६४॥
यः शंभुरुच्यते लोके भिक्षुको भिक्षुकप्रियः ॥
यदि मे ह्यनृतं प्रोक्तं तदा कोप इहोचितः ॥६५॥
इयं तावत्सुरूपा च विरूपोऽसौ सदाशिवः ॥
विशालाक्षी त्वियं बाला विरूपाक्षो भवस्तथा ॥६६॥
एवंभूतेन रुद्रेण मोहितेयं कथं भवेत् ॥
सभाग्यो हि पतिः स्त्रीणां सदा भाव्यो रतिप्रियः ॥६७॥
इयं कथं मोहितास्ति निर्गुणेन युगात्मिका ॥
न श्रुतो न च विज्ञातो न दृष्टः केन वा शिवः ॥६८॥
सकामानां च भूतानां दुर्लभो हि सदाशिवः ॥
तपसा परमेणैव गर्वितेयं सुमध्यमा ॥६९॥
निःस्तंभो हि सदा स्थाणुः कथं प्राप्स्यति तं पतिम् ॥
मयोक्तं किं विशालाक्षि कस्मान्मे रुषिताऽधुना ॥७०॥
यावद्रोषो भवेन्नॄणां नारीणां च विशेषतः ॥
तेन रोषेण तत्सर्वं भस्मीभूतं भविष्यति ॥७१॥
सुकृतं चोर्जितं तन्वि सत्यमेवोदितं सति ॥
कामः क्रोधश्च लोभश्च दंभो मात्सर्यमेव च ॥७२॥
हिंसेर्ष्या च प्रपंचश्च तेन सर्वं विनश्यति ॥
तस्मात्तपस्विभिर्युक्तं कामक्रोधादिवर्जनम् ॥७३॥
यदीश्वरो हृदि मध्ये विभाव्यो मनीषिभिः सर्वदा ज्ञप्तिमात्रः ॥
तदा सर्वैर्मुनिवृत्त्या विभाव्यस्तपस्विभिर्नान्यथा चिंतनीयः ॥७४॥
एतच्छ्रुत्वा वचनं तस्य शंभोस्तदाब्रवीद्विजया तं च सर्वम् ॥
गच्छात्र किंचित्तव नास्ति कार्यं न वक्तव्यं वचनं बालिशान्यत् ॥७५॥
एवं विवदमानं तं बटुरूपं सदाशिवम् ॥
विसर्जयामास तदा विजया वाक्यकोविदा ॥७६॥
तिरोधानं गतः सद्यो महेशो गिरिजां प्रति ॥
अलक्ष्यमाणः सर्वासां सखीनां परमेश्वरः ॥७७॥
प्रादुर्बभूव सहसा निजरूपधरस्तदा ॥
यदा ध्यानस्थिता देवी निजध्यानपरा सती ॥७८॥
तदा हृदिस्थो देवेशो बहिर्दृष्टिचरोभवत् ॥
नेत्रे उन्मील्य सा साध्वी गिरिजायतलोचना ॥
अपश्यद्देवदेवेशं सर्वलोकमहेश्वरम् ॥७९॥
द्विभुजं चैकवक्त्रं कृत्तिवाससमद्भुतम् ॥
कपर्दं चंद्ररेखांकं निवीतं गजचर्मणा ॥८०॥
कर्णस्थौ हि महानागौ कंबलाश्वतरौ तदा ॥
वासुकिः सर्पराजश्च कृताहारो महाद्युतिः ॥८१॥
वलयानि महार्हाणि तदा सर्पमयानि च ॥
कृतानि तेन रुद्रेण तथा शोभाकराणि च ॥८२॥
एवंभूतस्तदा शंभुः पार्वतीं प्रति चाग्रतः ॥
उवाच त्वरया युक्तो वरं वरय भामिनि ॥८३॥
व्रीडया परया युक्ता साध्वी प्रोवाच शंकरम् ॥
त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा ॥८४॥
दक्षयज्ञविनाशं च यदर्थं कृतवान्प्रभो ॥
स त्वं साहं समुत्पन्ना मेनायां कार्यसिद्धये ॥८५॥
देवानां देवदेवेश तारकस्य वधं प्रति ॥
भवतो हि मया देव भविष्यति कुमारकः ॥८६॥
तस्मात्त्वया हि कर्तव्यं मम वाक्यं महेश्वर ॥
गंतव्यं हिमवत्पार्श्वं नात्र कार्या विचारणा ॥८७॥
याचस्व मां महादेव ऋषिभिः परिवारितः ॥
करिष्यति न संदेहस्तव वाक्यं च मे पिता ॥८८॥
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ॥
यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ॥७२२.८९॥
न ग्रहाः पूजितास्तेन दक्षेण च महात्मना ॥
ग्रहाणां विषयत्वेन सच्छिद्रोऽयं महानभूत् ॥९०॥
तस्माद्यथोक्तविधिना कर्तुमर्हसि सुव्रत ॥
विवाहं स्वं महाभाग देवानां कार्यसिद्धये ॥९१॥
तदोवाच महाबाहो गिरिजां प्रहसन्निव ॥
स्वभावेनैव तत्सर्वं जंगमाजंगमं महत् ॥
जातं त्वया मोहितं च त्रिगुणैः परिवेष्टितम् ॥९२॥
अहंकारात्समुत्पन्नं महत्तत्त्वं च पार्वति ॥
महत्तत्त्वात्तमो जातं तमसा वेष्टितं नभः ॥९३॥
नभसो वायुरुत्पन्नो वायोरग्निरजायत ॥
अग्नेरापः समुत्पन्ना अद्भ्यो जाता मही तदा ॥९४॥
मह्यादिकानि स्थास्नूनि चराणि च वरानने ॥
दृश्यं यत्सर्वमेवैतन्नश्वरं विद्धि मानिनि ॥९५॥
एकोऽनेकत्वमापन्नो निर्गुणो हि गुणावृतः ॥
स्वज्योतिर्भाति यो नित्यं परज्योत्स्नान्वितोऽभवत् ॥
स्वतंत्रः परतंत्रश्च त्वया देवि महत्कृतम् ॥९६॥
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना अवधृतं परया च बुद्ध्या ॥
सर्वात्मभिः सुकृतिभिः परमार्थभावैः संसक्तिरिंद्रियगणैः परिवेष्टितं च ॥९७॥
के ग्रहाः के उडुगणाः के बाध्यंते त्वया कृताः ॥
विमुक्तं चाधुना देवि शर्वार्थं वरवर्णिनि ॥९८॥
गुणकार्यप्रसंगेन आवां प्रादुर्भवः कृतः ॥
त्वं हि वै प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी ॥९९॥
व्यापारदक्षा सततमहं चैव सुमध्यमे ॥
हिमालयं न गच्छामि न याचामि कथंचन ॥१००॥
देहीति वचनात्सद्यः पुरुषो याति लाघवम् ॥
इत्थं ज्ञात्वा च भो देवि किमस्माकं वदस्व वै ॥१०१॥
कार्यं त्वदाज्ञया भद्रे तत्सर्वं वक्तुमर्हसि ॥
तेनोक्तात्र तदा साध्वी उवाच कमलेक्षणा ॥१०२॥
त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा ॥
तथापि शंभो कर्तव्यं मम चोद्वहनं महत् ॥१०३॥
देहो ह्यविद्ययाक्षिप्तो विदेहो हि भवान्परः ॥
तथाप्येवं महादेव शरीरावरणं कुरु ॥१०४॥
प्रपंचरचनां शंभो कुरु वाक्यान्मम प्रभो ॥
याचस्व मां महादेव सौभाग्यं चैव देहि मे ॥१०५॥
इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडंबनाय ॥
तथेति मत्वा प्रहसञ्जगाम स्वमालयं देववरैः सुपूजितः ॥१०६॥
एतस्मिन्नंतरे तत्र हिमवान्गिरिभिः सह ॥
मेनया भार्यया सार्द्धमाजगाम त्वरान्वितः ॥१०७॥
पार्वतीदर्शनार्थं च सुतैश्च परिवारितः ॥
तेन दृष्टा महादेवी सखीभिः परिवारिता ॥१०८॥
पार्वत्या च तदा दृष्टो हिमवान्गिरिभिः सह ॥
अभ्युत्थानपरा साध्वी प्रणम्य शिरसा तदा ॥
पितरौ च तदा भ्रातॄन्बंधूंश्चैव च सर्वशः ॥१०९॥
स्वमंकमारोप्य महायशास्तदा सुतां परिष्वज्य च बाष्पपूरितः ॥
उवाच वाक्यं मधुरं हिमालयः किं वै कृतं साध्वि यथा तथेन ॥११०॥
तत्कथ्यतां महाभागे सर्वं शुश्रूषतां हि नः ॥
तच्छ्रुत्वा मधुरं वाक्यमुवाच पितरं प्रति ॥१११॥
तपसा परमेणैव प्रार्थितो मदनांतकः ॥
शांतं च मे महात्कार्यं सर्वेषामपि दुर्ल्लभम् ॥११२॥
तत्र तुष्टो महादेवो वरणार्थं समागतः ॥
स मयोक्तस्तदा शंभुर्ममषाणिग्रहः कथम् ॥११३॥
क्रियते च तदा शंभो मम पित्रा विनाधुना ॥
यतागतेन मार्गेण गतोऽसौ त्रिपुरांतकः ॥११४॥
तस्यास्तद्वचनं श्रुत्वा अवाप परमां मुदम् ॥
बंधुभिः सह धर्मात्मा उवाच स्वसुतां पुनः ॥११५॥
स्वगृहं चाद्य गच्छामो वयं सर्वे च भूधराः ॥
अनया राधितो देवः पिनाकी वृषभध्वजः ॥११६॥
इत्यूचुस्ते सुराः सर्वे हिमालयपुरोगमाः ॥
पार्वतीसहिताः सर्वे तुष्टुवुर्वाग्भिरादृताः ॥११७॥
तां स्तूयमानां च तदा हिमालयो ह्यारोप्य चांसं वरवर्णिनीं च ॥
सर्वेथ शैलाः परिवार्य चोत्सुकाः समानयामासुरथ स्वमालयम् ॥११८॥
देवदुंदुभयो नेदुः शंखतूर्याण्यनेकशः ॥
वादित्राणि बहून्येव वाद्यमानानि सर्वशः ॥११९॥
पुष्पवर्षेण महता तेनानीता गृहं प्रति ॥१२०॥
सा पूज्यमाना बहुभिस्तदानीं महाविभूत्युल्लसिता तपस्विनी ॥
तथैव देवैः सह चारणैश्च महर्षिभिः सिद्धगणैश्च सर्वशः ॥१२१॥
पूज्यमाना तदा देवी उवाच कमलासनम् ॥
देवानृषीन्पितॄन्यक्षानन्यान्सर्वान्समागतान् ॥१२२॥
गच्छध्वं सर्व एवैते येन्ये ह्यत्र समागताः ॥
स्वंस्वं स्थानं यताजोषं सेव्यतां परमेश्वरः ॥१२३॥
एवं तदानीं स्वपितुर्गृहं गता संशोभमाना परमेण वर्चसा ॥
सा पार्वती देववरैः सुपूजिता संचिंतयंती मनसा सदाशिवम् ॥१२४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे पार्वत्यै शंकरेण स्वरूपदर्शनंनामद्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP