केदारखण्डः - अध्यायः ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥लोमश उवाच ॥
विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत् ॥
वेदानामप्रमाणं च कृतं ते मधुसूदन ॥१॥
वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत् ॥
तदुच्यतां महाविष्णो येन धर्मः प्रतिष्ठितः ॥२॥
दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन् ॥
त्रैगण्यविषया वेदाः संभवंति न चान्यथा ॥३॥
वेदोदितानि कर्माणि ईश्वरेण विना कथम् ॥
सफलानि भविष्यंति विफलान्येव तानि च ॥४॥
तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा ॥
एवं ब्रुवति गोविन्द आगतः सैन्यसागरः ॥
वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः ॥५॥
इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा ॥
वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा ॥६॥
भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि ॥
तदा गणाः सुरैः सार्धं युयुधुस्ते गणान्विताः ॥७॥
शरतोमरनागचैर्जघ्नुस्ते च परस्परम् ॥
नेदुःशंखाश्च बहुशस्तस्मिन्रणमहोत्सवे ॥८॥
तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः ॥
तेन शब्देन महताश्लाघ्यमानास्तदा सुराः ॥
लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ॥९॥
खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः ॥
देवैः पराजिताः सर्वे गणाः शतसहस्रशः ॥१०॥
इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः ॥
कृताश्च तत्क्षणादेव भृगोर्मंत्रबलेन हि ॥११॥
उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा ॥
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥१२॥
तेनैव देवा जयिनो जातास्तत्क्षणमेव हि ॥
स्वानां पराजयं दृष्ट्वा वीरभद्रो रुपान्वितः ॥१३॥
भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः ॥
वृषभस्थान्पुरस्कृत्य स्वयं चैव महाबलः ॥
तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे ॥१४॥
देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा ॥
शूलघातैश्च ते सर्वे गणा देवान्प्रजघ्निरे ॥१५॥
केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः ॥
परश्वधैः खंडशश्च कृताः केचिद्रणाजिरे ॥१६॥
शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः ॥
एवं पराजिताः सर्वे पलायनपरायणाः ॥१७॥
परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम् ॥
केवलं लोकपालाश्च इंद्राद्यास्तस्थुरुत्सुकाः ॥
बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत् ॥१८॥
बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा ॥
॥बृहस्पतिरुवाच ॥
यदुक्तं विष्णुना पूर्वं तत्सत्यं जातमद्य वै ॥१९॥
अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः ॥
कर्तारं भजते सोपि न ह्यकर्तुः प्रभुर्हिसः ॥२०॥
न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः ॥
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥२१॥
ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया ॥
शांत्या च परया तृष्ट्या ज्ञातव्यो हि सदाशिवः ॥२२॥
तेन सर्वं संभवंति सुखदुःझखात्मकं जगत् ॥
परंतु संवदिष्यामि कार्याकार्यविवक्षया ॥२३॥
त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै ॥
आगतो बालिशो भूत्वा इदानीं किं करिष्यसि ॥२४॥
एते रुद्रसहायाश्च गणाः परमशोभनाः ॥
कुपिताश्च महाभागा न तु शेषं प्रकुर्वते ॥२५॥
एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः ॥
चिंतामापेदिरे सर्वे लोकपाला महेश्वराः ॥२६॥
ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम् ॥
सर्वे यूयं बालिशत्वादवदानार्थमागताः ॥२७॥
अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन् ॥
एवमुक्त्वा शितैर्बाणैर्जघानाथ रुषान्वितः ॥२८॥
तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश ॥२९॥
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥
यज्ञवाटे समायातो वीरभद्रो गणान्वतः ॥३०॥
तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम् ॥
विज्ञप्तुकामाः सहसा ऊचुरेवं जनार्दनम् ॥३१॥
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ॥
एतच्छ्रुत्वा तु वचनमृषीणां वै जनार्दनः ॥३२॥
योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः ॥
वीरभद्रो महाबाहुः केशवं वाक्यमब्रवीत् ॥३३॥
अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम् ॥
दक्षस्य पक्षमाश्रित्य कथं जेष्यसि तद्वद ॥३४॥
दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ ॥
त्वं चापि यज्ञे दक्षस्य अवदानार्थमागतः ॥
अवदानं प्रयच्छामि तव चापि महाभूज ॥३५॥
एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम् ॥
वीरभद्रोऽग्रतो भूत्वा विष्णुं वाक्यमथाब्रवीत् ॥३६॥
यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः ॥
तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्तितः ॥
नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥३७॥
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः ॥
उवाच प्रहसन्देवो विष्णुः सर्वेश्वरेश्वरः ॥३८॥
॥विष्णुरुवाच ॥
रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते ॥
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ॥३९॥
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ॥
तेनैव कारणेनात्र दक्षस्य यजनं प्रति ॥४०॥
आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव ॥
अहं निवारयामि त्वां त्वं वा मां विनिवारय ॥४१॥
इत्युक्तवति गोविंदे प्रहस्य स महाभुजः ॥
प्रश्रयावनतो भूत्वा इदमाह जनार्दनम् ॥४२॥
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ॥
सेवकाश्च वयं सर्वे तव वा शंकरस्य च ॥४३॥
तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च ॥
इदं विष्णुर्महावाक्यं जगाद परमेश्वरः ॥४४॥
योधयस्व महाबाहो मया सार्धमशंकितः ॥
तवास्त्रैः पूर्यमाणोऽहं गच्छामि भवनं स्वकम् ॥४५॥
तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः ॥
गृहीत्वा परमास्त्राणि सिंहनादैर्जगर्ज ह ॥४६॥
विष्णुश्चापि महाघोषं शंखनादं चकार सः ॥
तच्छ्रुत्वा ये गता देवा रणं हित्वाऽऽययुः पुनः ॥४७॥
व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः ॥
तदेन्द्रेण हतो नंदीवज्रेण शतपर्वणा ॥४८॥
नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे ॥
वायुना च हतो भृंगी भृंगिणा वायुराहतः ॥४९॥
शूलेन सितधारेण संनद्धो दण्डधारिणा ॥
यमेन सह संग्रामं महाकालो बलान्वितः ॥५०॥
कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम् ॥
वरुणेन समं युद्धं मुंडश्चैव महाबलः ॥५१॥
युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव ॥
नैर्ऋतेन समागम्य चंडश्चबलवत्तरः ॥५२॥
युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन् ॥
योगिनीचक्रसंयुक्तो भैरवो नायको महान् ॥५३॥
विदार्य देवानखिलान्पपौ शोणितमद्बुतम् ॥
क्षेत्रपालास्तथा चान्ये भूतप्रमथगुह्यकाः ॥५४॥
साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च ॥
योगिन्यो यातुदान्यश्च तथा कूष्मांडकादयः ॥
नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु ॥५५॥
भक्ष्यमाणं तदा सैन्यं विलोक्य सुरराट्स्वयम् ॥
विहाय नंदिनं पश्चाद्वीरभद्रं समाक्षिपत् ॥५६॥
वीरभद्रो विहायैव विष्णुं देवेन्द्रमास्थितः ॥
तयोर्युद्धमभूद्धोरं बुधांगारकयोरिव ॥५७॥
वीरभद्रं यदा शक्रो हंतुकामस्त्वरान्वितः ॥
तावच्छंक्रं गजस्थं हि पुरयामास मार्गणैः ॥५८॥
वीरभद्रो रुषाविष्टो दुर्निवार्यो महाबलः ॥
तदेद्रेंणाहतः शीघ्रं वज्रेण शतपर्वणा ॥५९॥
सगजं च सवज्रं च वासवं ग्रस्तुमुद्युतः ॥
हाहाकारो महा नासीद्भूतानां तत्र पश्यताम् ॥६०॥
वीरभद्रं तताभूतं तथाभूतं हंतुकामं पुरंदरम् ॥
तव्रमाणस्तदा विष्णुर्वीरभद्राग्रतः स्थितः ॥६१॥
शक्रं च पृष्ठतः कृत्वा योधयामास वै तदा ॥
वीरभद्रस्य विष्णोश्च युद्धं परमभूत्तदा ॥६२॥
शस्त्रास्त्रैर्विविधाकारैर्योधयामासतुस्तदा ॥
पुनर्नंदिनमालोक्य शक्रो युद्ध विशारदः ॥६३॥
द्वंद्वयुद्धं सुतुमुलं देवानां प्रमथैः सह ॥
प्रमथा मथिता देवैः सर्वे ते प्राद्रवन्रणात् ॥६४॥
गणान्पराङ्मुखान्दृष्ट्वा सर्वे ते व्याधयो भृशम् ॥
रुद्रकोपात्समुद्भूता देवाश्चापि प्रदुद्रुवुः ॥६५॥
ज्वरैस्तु पीडितान्देवान्दृष्ट्वा विष्णुर्हसन्निव ॥
जीवग्राहेण जग्राह देवांस्तांश्च पृथक्पृथक् ॥६६॥
देवाश्चिनौ तदाहूय व्याधीन्हंतुं तदा भृतिम् ॥
ददौ ताभ्यां प्रयत्नेन गणयित्वा सुबुद्धिमान् ॥६७॥
ज्वरांश्च सन्निपातांश्च अन्ये भूतद्रुहस्तदा ॥
तान्सर्वान्निगृहीत्वाथ अश्विनौ तौ मुदान्वितौ ॥
विज्वरानथ देवांश्च कृत्वा मुमुदतुश्चिरम् ॥६८॥
तैर्जितं योगिनीचक्रं भैरवं व्याकुलीकृतम् ॥
तीक्ष्णाग्रैः पातयामासुः शरैर्भूतगणानपि ॥६९॥
सुरैर्विद्रावितं सैन्यं विलोक्य पतितं भुवि ॥
वीरभद्रो रुपाविष्टो विष्णुं वचनमब्रवीत् ॥७०॥
त्वं शूरोसि महाबाहो देवानां पालको ह्यसि ॥
युध्यस्व मां प्रयत्नेन यदि ते मतिरीदृशी ॥७१॥
इत्युक्त्वा तं समासाद्य विष्णुं सर्वेश्वरेश्वरम् ॥
ववर्ष निशितैर्बाणैर्वीरभद्रो महाबलः ॥७२॥
तदा चक्रेण भगवान्वीरभद्रं जघान सः ॥
आयांतं चक्रमालोक्य ग्रसितं तत्क्षणाच्च तत् ॥७३॥
ग्रसितं चक्रमालोक्य विष्णुः परपुरंजयः ॥
मुखं तस्य परामृज्य विष्णुनोद्गिलितं पुनः ॥७४॥
स्वचक्रमादाय महानुभावो दिवं गतोऽथो भुवनैकभर्ता ॥
ज्ञात्वा च तत्सर्वमिदं च विष्णुः कृती कृतं दुष्प्रसहं परेषाम् ॥७५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रादीनां विष्ण्वादिभिः सह युद्धवर्णनंनाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : July 17, 2024
TOP