केदारखण्डः - अध्यायः ८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥लोमश उवाच ॥
तस्करोऽपि पुरा ब्रह्मन्सर्वधर्मबाहिष्कृतः ॥
ब्रह्मघ्नोऽसौ सुरापश्च सुवर्णस्य च तस्करः ॥१॥
लंपटोहि महापाप उत्तमस्त्रीषु सर्वदा ॥
द्यूतकारी सदा मंदः कितवैः सह संगतः ॥२॥
एकदा क्रीडता तेन हारितं द्यूतमद्भुतम् ॥
कितवैर्मर्द्यमानो हि तदा नोवाच किञ्चन ॥३॥
पीडितोऽप्यभवत्तूष्णीं तैरुक्तः पापकृत्तमः ॥
द्यूते त्वया च तद्द्रव्यं हारितं किं प्रयच्छसि ॥४॥
नो वा तत्कथ्यतां शीघ्रं याथातथ्येन दुर्मते ॥
यद्धारितं प्रयच्छामि रात्रावित्यब्रवीच्च सः ॥५॥
तैर्मुक्तस्तेन वाक्येन गतास्ते कितवादयः ॥
तदा निशीथसमये गतोऽसौ शिवमंदिरम् ॥६॥
शिरोधिरुह्य शम्भोश्च घण्टामादातुमुद्यतः ॥
तावत्कैलासशिखरे शंभुः प्रोवाच किंकरान् ॥७॥
अनेन यत्कृतं चाद्य सर्वेषामधिकं भुवि ॥
सर्वेषामेव भक्तानां वरिष्ठोऽयं च मत्प्रियः ॥८॥
इति प्रोक्त्वान यामास वीरभद्रादिभिर्गणैः ॥
ते सर्वे त्वरिता जग्मुः कैलासाच्छिववल्लभात् ॥९॥
सर्वैर्डमरुनादेन नादितं भुवनत्रयम् ॥
तान्दृष्ट्वा सहसोत्तीर्य तस्करोसौ दुरात्मवान् ॥
लिंगस्य मस्तकात्सद्यः पलायनपरोऽभवत् ॥१०॥
पलायमानं तं दृष्ट्वा वीरभद्रः समाह्वयत् ॥११॥
कस्माद्विभेपि रे मन्द देवदेवो महेस्वरः ॥
प्रसन्नस्तव जातोद्य उदारचरितो ह्यसौ ॥१२॥
इत्युक्त्वा तं विमाने च कृत्वा कैलासमाययौ ॥
पार्षदो हि कृतस्तेन तस्करो हि महात्मना ॥१३॥
तस्माद्भाव्या शिवे भक्तिः सर्वेषामपि देहिनाम् ॥
पशवोऽपि हि पूज्याः स्युः किं पुनर्मानवाभुवि ॥१४॥
ये तार्किकास्तर्कपरास्तथ मीमांसकाश्च ये ॥
अन्योन्यवादिनश्चान्ये चान्ये वात्मवितर्ककाः ॥१५॥
एकवाक्यं न कुर्वंति शिवार्चनबहिष्कृताः ॥
तर्को हि क्रियते यैश्च तेसर्वे किं शिवं विना ॥१६॥
तथा किं बहुनोक्तेन सर्वेऽपि स्थिरजंगमाः ॥
प्राणिनोऽपि हि जायंते केवलं लिंगधारिणः ॥१७॥
पिण्डीयुक्तं यथा लिंगं स्थापितं च यथाऽभवत् ॥
तथा नरा लिंगयुक्ताः पिण्डीभूतास्तथा स्त्रियः ॥१८॥
शिवशक्तियुतं सर्वं जगदेतच्चराचरम् ॥
तं शिवं मौढ्यतस्त्यक्त्वा मूढाश्चान्यं भजंति ये ॥१९॥
धर्ममात्यंतिकं तुच्छं नश्वरं क्षणभंगुरम् ॥
यो विष्णुः स शिवो ज्ञेयो यः शिवो विष्णुरेव सः ॥२०॥
पीठिका विष्णुरूपं स्याल्लिंगरूपी महेश्वरः ॥
तस्माल्लिंगार्चनं श्रेष्ठं सर्वेषामपि वै द्विजाः ॥२१॥
ब्रह्मा मणिमयं लिंगं पूजयत्यनिशं शुभम् ॥
इन्द्रो रत्नमयं लिंगं चन्द्रो मुक्तामयं तथा ॥२२॥
भानुस्ताम्रमयं लिंगं पूजयत्यनिशं शुभम् ॥
रौक्मं लिंगं कुबेरश्च पाशी चारक्तमेव च ॥२३॥
यमो नीलमयं लिंगं राजतं नैर्ऋतस्तथा ॥
काश्मीरं पवनो लिंगमर्चयत्यनिशं विभोः ॥२४॥
एवं ते लिंगिताः सर्वे लोकपालाः सवासवाः ॥
तथा सर्वेऽपि पाताले गंधर्वाः किंनरैः सह ॥२५॥
दैत्यानां वैष्णवाः केचित्प्रह्लादप्रमुखा द्विजाः ॥
तथाहि राक्षसानां च विभीषणपुरोगमाः ॥२६॥
बलिश्च नमुचिश्चैव हिरण्यकशिपुस्तथा ॥
वृषपर्वा वृषश्चैव संह्रादो बाण एव च ॥२७॥
एते चान्ये च बहवः शिष्याः शुक्रस्य धीमतः ॥
एवं शिवार्चनरताः सर्वे ते दैत्यदानवाः ॥२८॥
राक्षसा एव ते सर्वे शिवपूजान्विताः सदा ॥
हेतिः प्रहेतिः संयातिर्विघसः प्रघसस्तथा ॥२९॥
विद्युज्जिह्वस्तीक्ष्णदंष्ट्रो धूम्राक्षो भीमविक्रमः ॥
माली चैव सुमाली च माल्यवानतिभीषमः ॥३०॥
विद्युत्कैशस्तडिज्जिह्वो रावणश्च महाबलः ॥
कुंभकर्णो दुराधर्षो वेगदर्शी प्रतापवान् ॥३१॥
एते हि राक्षसाः श्रेष्ठा शिवार्चनरताः सदा ॥
लिंगमभ्यर्च्य च सदा सिद्धिं प्राप्ताः पुरा तु ते ॥३२॥
रावणेन तपस्तप्तं सर्वेषामपि दुःखहम् ॥
तपोधिपो महादेवस्तुतोष च तदा भृशम् ॥३३॥
वरान्प्रायच्छत तदा सर्वेषामपि दुर्लभान् ॥
ज्ञानं विज्ञानसहितं लब्धं तेन सदाशिवात् ॥३४॥
अजेयत्वं च संग्रामे द्वैगुण्यं शिरसामपि ॥
पंचवक्त्रो महा देवो दशवक्त्रोऽथ रावणः ॥३५॥
देवानृषीन्पितॄंश्चैव निर्जित्य तपसा विभुः ॥
महेशस्य प्रसादाच्च सर्वेषामधिकोऽभवत् ॥३६॥
राजा त्रिकूटाधिपतिर्महेशेन कृतो महान् ॥
सर्वेषां राक्षसानां च परमासनमास्तितः ॥३७॥
तपस्विनां परीक्षायै यदृषीणां विहिंसनम् ॥
कृतं तेन तदा विप्रा रावणेन तपस्विना ॥३८॥
अजेयो हि महाञ्जातो रावणो लोकरावणः ॥
सृष्ट्यंतरं कृतं येन प्रसादाच्छंकरस्य च ॥३९॥
लोकपाला जितास्तेन प्रतापेन तपस्विना ॥
ब्रह्मापि विजितो येन तपसा परमेण हि ॥४०॥
अमृतांशुकरो भूत्वा जितो येन शशी द्विजाः ॥
दाहकत्वाज्जितो वह्निरीशः कैलासतोलनात् ॥४१॥
ऐश्वर्येण जितश्चेन्द्रो विष्णुः सर्वगतस्तथा ॥
लिंगार्चनप्रसादेन त्रैलोक्यं च वशीकृतम् ॥४२॥
तदा सर्वे सुरगणा ब्रह्मविष्णुपुरोगमाः ॥
मेरुपृष्ठं समासाद्य सुमंत्रं चक्रिरे तदा ॥४३॥
पीडिताः स्मो रावणेन तपसा दुष्करेण वै ॥
गोकर्णाख्ये गिरौ देवाः श्रूयतां परमाद्भुतम् ॥४४॥
साक्षाल्लिंगार्चनं येन कृतमस्ति महात्मना ॥
ज्ञानज्ञेयं ज्ञानगम्यं यद्यत्परममद्भुतम् ॥
तत्कृतं रावणेनैव सर्वेषां दुरतिक्रमम् ॥४५॥
वैराग्यं परमास्थाय औदार्यं च ततोऽधिकम् ॥
तेनैव ममता त्यक्ता रावणेन महात्मना ॥४६॥
संवत्सरसहस्राच्च स्वशिरो हि महाभुजः ॥
कृत्त्वा करेण लिंगस्य पूजनार्थं समर्पयत् ॥४७॥
रावणस्य कबंधं च तदग्रे च समीपतः ॥
योगधारणया युक्तं परमेण समाधिना ॥४८॥
लिंगे लयं समाधाय कयापि कलया स्थितम् ॥
अन्यच्छिरोविवृश्च्यैवं तेनापि शिवपूजनम् ॥
कृतं नैवान्यमुनिना तथा चैवापरेणहि ॥४९॥
एवं शिरांस्येव बहूनि तेन समर्पितान्येव शिवार्चनार्थे ॥
भूत्वा कबंधो हि पुनः पुनश्च शिवोऽसौ वरदो बभूव ॥५०॥
मया विनासुरस्तत्र पिंडीभूतेन वै पुरा ॥
वरान्वरय पौलस्त्य यथेष्टं तान्ददाम्यहम् ॥५१॥
रावणेन तदा चोक्तः शिवः परममंगलः ॥
यदि प्रसन्नो भगवन्देयो मे वर उत्तमः ॥५२॥
न कामयेऽन्यं च वरमाश्रये त्वत्पदांबुजम् ॥
यथा तथा प्रदातव्यं यद्यस्ति च कृपा मयि ॥५३॥
तदा सदाशिवेनोक्तो रावणो लोकरावणः ॥
मत्प्रसादाच्च सर्वं त्वं प्राप्स्यसे मनसेप्सितम् ॥५४॥
एवं प्राप्तं शिवात्सर्वं रावणेन सुरेश्वराः ॥
तस्मात्सर्वैर्भवद्भिश्च तपसा परमेण हि ॥५५॥
विजेतव्यो रावणोयमिति मे मनसि स्थितम् ॥
्च्युतस्य वचः श्रुत्वा ब्रह्माद्या देवतागणाः ॥५६॥
चिंतामापेदिरे सर्वे चिरं ते विषयान्विताः ॥
ब्रह्मापि चेंद्रियग्रस्तः सुता रमितुमुद्यतः ॥५७॥
इंद्रो हि जारभावाच्च चंद्रो हि गुरुतल्पगः ॥
यमः कदर्यभावाच्च चंचलत्वात्सदागतिः ॥५८॥
पावकः सर्वभक्षित्वात्तथान्ये देवतागणाः ॥
अशक्ता रावणं जेतुं तपसा च विजृंभितम् ॥५९॥
शैलादो हि महातेजा गणश्रेष्ठः पुरातनः ॥
बुद्धि मान्नीतिनिपुणो महाबलपराक्रमी ॥६०॥
शिवप्रियो रुद्ररूपी महात्मा ह्युवाच सर्वानथ चेंद्रमुख्यान् ॥
कस्माद्यूयं संभ्रमादागताश्च एतत्सर्वं कथ्यतां विस्तरेण ॥६१॥
नंदिना च तदा सर्वे पृष्टाः प्रोचुस्त्वरान्विताः ॥६२॥
 ॥ देवा ऊचुः ॥
रावणेन वयं सर्वे निर्जिता मुनिभिः सह ॥
प्रसादयितुमायाताः शिवं लोकेश्वरेश्वरम् ॥६३॥
प्रहस्य भगवान्नंदी ब्रह्माणं वै ह्युवाच ह ॥
क्व यूयं क्व शिवः शंभुस्तपसा परमेण हि ॥
द्रष्टव्यो हृदि मध्यस्थः सोऽद्य द्रष्टुं न पार्यते ॥६४॥
यावद्भावा ह्यनेकाश्च इंद्रियार्थास्तथैव च ॥
यावच्च ममताभावस्तावदीशो हि दुर्लभः ॥६५॥
जितेंद्रियाणां शांतानां तन्निष्ठानां महात्मनाम् ॥
सुलभो लिंगरूपी स्याद्भवतां हि सुदुर्लभः ॥६६॥
तदा ब्रह्मादयो देवा ऋषयश्च विपश्चितः ॥
प्रणम्य नंदिनं प्राहुः कस्मात्त्वं वानराननः ॥
तत्सर्वं कथयान्यं च रावणस्य तपोबलम् ॥६७॥
 ॥नंदीश्वर उवाच ॥
कुबेरोऽधिकृतस्तेन शंकरेण महात्मना ॥
धनानामादिपत्ये च तं द्रष्टुं रावणोऽत्र वै ॥६८॥
आगच्छत्त्वरया युक्तः समारुह्य स्ववाहनम् ॥
मां दृष्ट्वा चाब्रवीत्क्रुद्धः कुबेरो ह्यत्र आगतः ॥६९॥
त्वया दृष्टोऽथ वात्रासौ कथ्यतामविलंबितम् ॥
किं कार्यं धनदेनाद्य इति पृष्टो मया हि सः ॥७०॥
तदोवाच महातेजा रावणो लोकरावणः ॥
मय्यश्रद्धान्वितो भूत्वा विषयात्मा सुदुर्मदः ॥७१॥
शिक्षापयितुमारब्धो मैवं कार्यमिति प्रभो ॥
यथाहं च श्रिया युक्त आढ्योऽहं बलवानहम् ॥
तथा त्वं भव रे मूढ मा मूढत्वमुपार्जय ॥७२॥
अहं मूढः कृतस्तेन कुबेरेण महात्मना ॥
मया निराकृतो रोषात्तपस्तेपे स गुह्यकः ॥७३॥
कुबेरः स हि नंदिन्किमागतस्तव मंदिरम् ॥
दीयतां च कुबेरोद्य नात्र कार्या विचारणा ॥७४॥
रावणस्य वचः श्रुत्वा ह्यवोचं त्वरितोऽप्यहम् ॥
लिंगकोसि महाभाग त्वमहं च तथाविधः ॥७५॥
उभयोः समनां ज्ञात्वा वृथा जल्पसि दुर्मते ॥
यथोक्तः स त्ववादीन्मां वदनार्थे बलोद्धतः ॥७६॥
यथा भवद्भिः पृष्टोऽहं वदनार्थे महात्मभिः ॥
पुरावृत्तं मया प्रोक्तं शिवार्चनविधेः फलम् ॥
शिवेन दत्तं सालूप्यं न गृहीतं मया तदा ॥७७॥
याचितं च मया शंभोर्वदनं वानरस्य च ॥
शिवेन कृपया दत्तं मम कारुण्यशालिना ॥७८॥
निराभिमानिनो ये च निर्दभा निष्परिग्रहाः ॥
शंभोः प्रियास्ते विज्ञेया ह्यन्ये शिववबहिष्कृताः ॥७९॥
तथावदन्मया सार्द्धं रावणस्तपसो बलात् ॥
मया च याचितान्येव दश वक्त्राणि धीमता ॥८०॥
उपहासकरं वाक्यं पौलस्त्यस्य तदा सुराः ॥
मया तदा हि शप्तोऽसौ रावणो लोकरावणः ॥८१॥
ईदृशान्येव वक्त्राणि येषां वै संभवंति हि ॥
तैः समेतो यदा कोऽपि नरवर्यो महातपाः ॥
मां पुरस्कृत्य सहसा हनिष्यति न संशयः ॥८२॥
एवं शप्तो मया ब्रह्मन्रावणो लोकरावणः ॥
अर्चितं केवलं लिंगं विना तेन महात्मना ॥८३॥
पीठिकारूपसंस्थेन विना तेन सुरोत्तमाः ॥
विष्णुना हि महाभागास्तस्मात्सर्वं विधास्यति ॥८४॥
देवदेवो महादेवो विष्णुरूपी महेश्वरः ॥
सर्वे यूयं प्रार्थयंतु विष्णुं सर्वगुहाशयम् ॥८५॥
अहं हि सर्वदेवानां पुरोवर्ती भवाम्यतः ॥
ते सर्वे नंदिनो वाक्यं श्रुत्वा मुदितमानसाः ॥
वैकुंठमागता गीर्भिर्विष्णुं स्तोतुं प्रचक्रिरे ॥८६॥
 ॥ देवा ऊचुः ॥
नमो भगवते तुभ्यं देवदेव जगत्पते ॥
त्वदाधारमिदं सर्वं जगदेतच्चराचरम् ॥८७॥
एतल्लिंगं त्वया विष्णो धृतं वै पिण्डिरूपिणा ॥
महाविष्णुस्वरूपेण घातितौ मधुकैटभौ ॥८८॥
तथा कमठरूपेण धृतो वै मंदराचलः ॥
वराहरूपमास्थाय हिरण्याक्षो हतस्त्वया ॥८९॥
हिरण्यकशिपुर्दैत्यो हतो नृहरिरूपिणा ॥
त्वया चैव बलिर्बद्धो दैत्यो वामनरूपिणा ॥९०॥
भृगूणामन्वये भूत्वा कृतवीर्यात्मजो हतः ॥
इतोप्यस्मान्महाविष्णो तथैव परिपालय ॥९१॥
रावमस्य भयादस्मात्त्रातुं भूयोर्हसि त्वरम् ॥९२॥
एवं संप्रार्थितो देवैर्भगवान्भूतभावनः ॥
उवाच च सुरान्सर्वान्वासुदेवो जगन्मयः ॥९३॥
हे देवाः श्रूयतां वाक्यं प्रस्तावसदृशं महत् ॥
शैलादिं च पुरस्कृत्य सर्वे यूयं त्वरान्विताः ॥
अवतारान्प्रकुर्वन्तु वानरीं तनुमाश्रिताः ॥९४॥
अहं हि मानुषो भूत्वा ह्यज्ञानेन समावृतः ॥
संभविष्याम्ययोध्यायं गृहे दशरथस्य च ॥
ब्रह्मविद्यासहायोस्मि भवतां कार्यसिद्धये ॥९५॥
जनकस्य गृहे साक्षाद्ब्रह्मविद्या जनिष्यति ॥
भक्तो हि रावणः साक्षाच्छिवध्यानपरायणः ॥९६॥
तपसा महता युक्तो ब्रह्मविद्यां यदेच्छति ॥
तदा सुसाध्यो भवति पुरुषो धर्मनिर्जितः ॥९७॥
एवं संभाष्य भगवान्विष्णुः परममङ्गलः ॥
वाली चेन्द्रांशसंभूतः सुग्रीवों शुमतः सुतः ॥९८॥
तथा ब्रह्मांशसंभूतो जाम्बवान्नृक्षकुञ्जरः ॥
शिलादतनयो नंदी शिवस्यानुचरः प्रियः ॥९९॥
यो वै चैकादशो रुद्रो हनूमान्स महाकपिः ॥
अवतीर्णः सहायार्थं विष्णोरमिततेजसः ॥१००॥
मैंदादयोऽथ कपयस्ते सर्वे सुरसत्तमाः ॥
एवं सर्वे सुरगणा अवतेरुर्यथा तथम् ॥१०१॥
तथैव विष्णुरुत्पन्नः कौशल्यानंदवर्द्धनः ॥
विश्वस्य रमणाच्चैव राम इत्युच्यते बुधैः ॥१०२॥
शेषोपि भक्त्या विष्णोश्च तपसाऽवातरद्भुवि ॥१०३॥
दोर्दण्डावपि विष्णोश्च अवतीर्णौ प्रतापिनौ ॥
शत्रुघ्नभरताख्यौ च विख्यातौ भुवनत्रये ॥१०४॥
मिथिलाधिपतेः कन्या या उक्ता ब्रह्मवादिभिः ॥
सा ब्रह्मविद्यावतरत्सुराणां कार्य्यसिद्धये ॥
सीता जाता लांगलस्य इयं भूमिविकर्षणात् ॥१०५॥
तस्मात्सीतेति विख्याता विद्या सान्वीक्षिकी तदा ॥
मिथिलायां समुत्पन्ना मैथितीत्यभिधीयते ॥१०६॥
जनकस्य कुले जाता विश्रुता जनकात्मजा ॥
ख्याता वेदवती पूर्वं ब्रह्मविद्याघनाशिनी ॥१०७॥
सा दत्ता जनकेनैव विष्णवे परमात्मने ॥१०८॥
तयाथ विद्यया सार्द्धं देवदेवो जगत्पतिः ॥
उग्रे तपसि लीनोऽसौ विष्णुः परमदुष्करम् ॥१०९॥
रावणं जेतुकामो वै रामो राजीवलोचनः ॥
अरण्यवासमकरोद्देवानां कार्यसिद्धये ॥११०॥
शेषावतारोऽपि महांस्तपः परमदुष्करम् ॥
तताप परया शक्त्या देवानां कार्यसिद्धये ॥१११॥
शत्रुघ्नो भरतश्चैव तेपतुः परमं तपः ॥११२॥
ततोऽसौ तपसा युक्तः सार्द्धं तैर्देवतागणैः ॥
सगणं रावणं रामः षड्भिर्मासैरजीहनत् ॥
विष्णुना घातितः शस्त्रैः शिवसारूप्यमाप्तवान् ॥११३॥
सगमः स पुनः सद्यो बंधुभिः सह सुव्रताः ॥११४॥
शिवप्रसादात्सकलं द्वैताद्वैतमवाप ह ॥
द्वैताद्वैतविवेकार्थमृपयोप्यत्र मोहिताः ॥
तत्सर्वं प्राप्नुवंतीह शिवार्चनरता नराः ॥११५॥
येऽर्चयंति शिवं नित्यं लिंगरूपिणमेव च ॥
स्त्रियो वाप्यथ वा शूद्राः श्वपचा ह्यंत्यवासिनः ॥
तं शिवं प्राप्नुवंत्येव सर्वदुःखोपनाशनम् ॥११६॥
पशवोऽपि परं याताः किं पुनर्मानुषादयः ॥११७॥
ये द्विजा ब्रह्मचर्येण तपः परममास्थिताः ॥
वर्षैरनेकैर्यज्ञानां तेऽपि स्वर्गपरा भवन् ॥११८॥
ज्योतिष्टोमो वाजपेयो ह्यतिरात्रादयो ह्यमी ॥
यज्ञाः स्वर्गं प्रयच्छंति सत्त्रीणां नात्र संशयः ॥११९॥
तत्र स्वर्गसुखं भुक्त्वा पुण्यक्षयकरं महत् ॥
पुण्यक्षयेऽपि यज्वानो मर्त्यलोकं पतंति वै ॥१२०॥
पतितानां च संसारे दैवाद्बुद्धिः प्रजायते ॥
गुणत्रयमयी विप्रास्तासुतास्त्विह योनिषु ॥१२१॥
यथा सत्त्वं संभवति सत्त्वयुक्तभवं नराः ॥
राजसाश्च तथा ज्ञेयास्ता मसाश्चैव ते द्विजाः ॥१२२॥
एवं संसारचक्रेऽस्मिन्भ्रमिता बहवो जनाः ॥
यदृच्छया दैवगत्या शिवं संसेवते नरः ॥१२३॥
शिवध्यानपराणां च नराणां यतचेतसाम् ॥
मायानिरसनं सद्यो भविष्यति न चान्यथा ॥१२४॥
मायानिरसनात्सद्यो नश्यत्येव गुणत्रयम् ॥
यदा गुणत्रयातीतो भवतीति स मुक्तिभाक् ॥१२५॥
तस्माल्लिङ्गार्चनं भाव्यं सर्वेषामपि देहिनाम् ॥
लिङ्गरूपी शिवो भूत्वा त्रायते संचराचरम् ॥१२६॥
पुरा भवद्भिः पृष्टोऽहं लिङ्गरूपी कथं शिवः ॥
तत्सर्वं कथितं विप्रा याथातथ्येन संप्रति ॥१२७॥
कथं गरं भक्षितवाञ्छिवो लोकमहेश्वरः ॥
तत्सर्वं श्रूयतां विप्रा यतावत्कथयामि वः ॥१२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवलिङ्गार्चनमाहात्म्यकथने श्रीरामावतारकथावर्णनंनामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : July 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP