केदारखण्डः - अध्यायः १३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥लोमश उवाच ॥
ततस्ते गर्ज्जमानाश्च आक्षिपंतः सुरान्रणे ॥
शतक्रतुप्रमुख्यांस्तन्महाबलपराक्रमान् ॥१॥
विमानमारुह्य तदा महात्मा वैरोचनिः सर्वबलेन सार्द्धम् ॥
दैत्यैः समेतो विविधैर्महाबलैः सुरान्प्रदुद्राव महाभयावहम् ॥२॥
स्वानि रूपाणि बिभ्रंतः समापेतुः स हस्रशः ॥
केचिद्व्याघ्रान्समारूढा महिषांश्च तथा परे ॥३॥
अश्वान्केचित्समारूढा द्विपान्केचित्तथा परे ॥
सिंहांस्तथा परे रूढाः शार्दूलाञ्छरभांस्तथा ॥४॥
मयूरान्राजहंसांश्च कुक्कुटांश्च तथा परे ॥
केचिद्धयान्समारूढा उष्ट्रानश्वतरानपि ॥५॥
गजान्खरान्परे चैव शकटांश्च तथा परे ॥
पादाता बहवो दैत्याः खङ्गशक्त्यृष्टिपाणयः ॥६॥
परिघायुधिनः पाशशूलमुद्गरपाणयः ॥
असिलोमान्विताः केचिद्भुशुंडीपरिघायुधाः ॥७॥
हयनागरथाश्चान्ये समारूढाः प्रहारिणः ॥
विमानानि समारूढा बलिमुख्याः सहस्रशः ॥८॥
स्पर्द्धमानास्ततान्योन्यं गर्जंतश्च मुहुर्मुहुः ॥
वृषपर्वा ह्युवा चेदं बलिनं दैत्यपुंगवम् ॥९॥
त्वया कृतं महाबाहो इंद्रेण सह संगमम् ॥
विश्वासो नैव कर्तव्यो दुर्हृदा च कथंचन ॥१०॥
ऊनेनापि हि तुच्छेन वैरिणापि कथंचन ॥
मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते ॥११॥
न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना ॥
पुराणदुष्टाः कथमद्य वै पुनर्मंत्रं विकर्तुं न च ते यतेरन् ॥१२॥
इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः ॥
ध्वजैश्छत्रैः पताकैश्च रणभूमिममंडयन् ॥१३॥
चामरैश्च दिशः सर्वा लोपितं च रणस्थलम् ॥
तथा सर्वे सुरास्तत्र दैत्यान्प्रति समुत्सुकाः ॥१४॥
पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः ॥
गजारूढो महेंद्रोपि वज्रपाणिः प्रतापवान् ॥
सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः ॥१५॥
छत्रचामरसंवीताः शोभिता विजयश्रिया ॥
प्रणम्य विष्णुं ते सर्व इंद्राद्या जयकांक्षिणः ॥१६॥
ते विष्णुना ह्यनुज्ञाता असुरान्प्रति वै रुषा ॥
असुराश्च महाकाया भीमाक्षा भीमविक्रमाः ॥१७॥
तेषां बोरमभूद्युद्धं देवानां दानवैः सह ॥
तुमुलं च महाघोरं सर्वभूतभयावहम् ॥१८॥
शरधारान्वितं सर्वं बभूव परमाद्भुतम् ॥
ततश्च टचटाशब्दा बभूवुश्च दिशोदश ॥१९॥
ततो निमिषमात्रेण शरघातयुता भवन् ॥
शरतोमरनाराचैराहताश्चापतन्भुवि ॥२०॥
विध्यमानास्तथा केचिद्विविधुश्चापरान्रणे ॥
भल्लैर्भग्नाश्च पतिता नाराचैः शकलीकृताः ॥२१॥
क्षुरप्रहारिताः केचिद्दैत्या दानवराक्षसाः ॥
शिलीमुखैर्मारिताश्च भग्नाः केचिच्च दानवाः ॥२२॥
एवं भग्नं दानवानां च सैन्यं दृष्ट्वा देवा गर्जमानाः समंतात् ॥
हृष्टाः सर्वे संमिलित्वा तदानीं लब्ध्वा युद्धे ते जयं श्लाघयन्ते ॥२३॥
शंखवादित्रघोषेण पूरितं च जगत्त्रयम् ॥
देवान्प्रति कृतामर्षा दानवास्ते महाबलाः ॥२४॥
बलिप्रभृतयः सर्वे संभ्रमेणोत्थिताः पुनः ॥
विमानैः सूर्यसंकासैरनेकैश्च समन्विताः ॥२५॥
द्वंद्वयुद्धं सुतुमुलं देवानां दानवैः सह ॥
संप्रवृत्तं पुनश्चैव परस्परजिगीषया ॥२६॥
बलिना दानवेंद्रेण महेंद्रो युयुधे तदा ॥
तथा यमो महाबाहुर्नमुच्या सह संगतः ॥२७॥
नैर्ऋतः प्रघसेनैव पाशी कुंभेन संगतः ॥
निकुंभेनैव सुमहद्युद्धं चक्रे सदारयः ॥२८॥
सोमेन सह राहुश्च युद्धं चक्रे सुदारुणम् ॥
राहुणा चन्द्रदेहोत्थममृतं भक्षितं तदा ॥
संपर्कादमृस्यैव यथा राहुस्तथाऽभवत् ॥२९॥
तानि सर्वाणि दृष्टानि शंभुना परमेष्ठिना ॥
आश्रयोऽहं च सर्वेषां भूतानां नात्र संशयः ॥
असुराणां सुराणां च सर्वेषामपि वल्लभः ॥३०॥
एवमुक्तस्तदा राहुः प्रणम्य शिरसा शिवम् ॥
मौलौ स्थितस्तदा चंद्रो अमृतं व्यसृजद्भयात् ॥३१॥
तेन तस्य हि जातानि शिरांसि सुबहून्यपि ॥
एकपद्येन तेषां च स्रजं कृत्वा मनोहराम् ॥
बबंध शंभुः शिरसि शिरोभूषणवत्कृतम् ॥३२॥
अशनात्कालकूटस्य नीलकंठोऽभवत्तदा ॥
देवानां कार्यसिद्ध्यर्थं मुंडमाला तथा कृता ॥३३॥
दधार शिरसा तां च मुण्डमालां महेश्वरः ॥३४॥
तया स्रजाऽसौ शुशुभे महात्मा देवादिदेवस्त्रिपुरांतको हरः ॥
गजासुरो येन निपातितो महानथांधको येन कृतश्च चूर्णः ॥३५॥
गंगा धृता येन शिरस्सुमध्ये चंद्रं च चूडे कृतवान्भयापहः ॥
वेदाः पुराणानि तथागमाश्च तथैव नानाश्रुतयोऽथ शास्त्रम् ॥३६॥
जल्पंति नानागमभेदैर्मीमांसमानाश्च भवंति मूकाः ॥
नानागमार्चायमतप्रभेदैर्निरूप्यमाणो जगदेकबंधुः ॥३७॥
शिवं हि नित्यं परमात्मदैवं वेदैकवेद्यं परमात्मदिव्यम् ॥
विहाय तं मूढजनाः प्रमत्ताः शिवं न जानंति परात्मरूपम् ॥३८॥
येनैव सृष्टं विधृतं च येन येन श्रितं येन कृतं समग्रम् ॥
यस्यांशभूतं हि जगत्कदाचिद्वेदांतवेद्यः परमात्मा शिवश्च ॥३९॥
आढ्यो वापि दरिद्रो वा उत्तमो ह्यधमोऽपि वा ॥
शिवभक्तिरतो नित्यं शिव एव न संशयः ॥४०॥
यो वा परकृतां पूजां शिवस्योपरि शोभिताम् ॥
दृष्ट्वा संतोषमायाति दायं प्राप्नोति तत्समम् ॥४१॥
ये दीपमालां कुर्वंति कार्तिक्यां श्रद्धयान्विताः ॥
यावत्कालं प्रज्वलंति दीपास्ते लिंगमग्रतः ॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते ॥४२॥
कौसुंभतैलसंयुक्ता दीपा दत्ताः शिवालये ॥
दातारस्तेऽपि कैलासे मोदन्ते शिवसंनिधौ ॥४३॥
अतसीतैलसंयुक्ता दीपा दत्ताः शिवालये ॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै ॥४४॥
ज्ञानिनोऽपि हि जायंते दीपदानफलेन हि ॥४५॥
तिलतैलेन संयुक्ता दीपा दत्ताः शिवालये ॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै ॥४६॥
घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये ॥
ते यांति परमं स्थानं कुललक्षसमन्विताः ॥४७॥
कर्पूरागुरुधूपैश्च ये यजंति सदा शिवम् ॥
आरार्तिकां सकर्प्पूरां ये कुर्वंति दिनेदिने ॥
ते प्राप्नुवंति सायुज्यं नात्र कार्या विचारणा ॥४८॥
एककालं द्विकालं वा त्रिकालं ये ह्यतंद्रिताः ॥
लिंगार्चनं प्रकुर्वंति ते रुद्रा नात्र संशयः ॥४९॥
रुद्राक्षधारणं ये च कुर्वंति शिवपूजने ॥
दाने तपसि तीर्थे च पर्वकाले ह्यतंद्रिताः ॥
तेषां यत्सुकृतं सर्वमनंतं भवति द्विजाः ॥५०॥
रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः ॥
आरम्भैकमुखं तावद्याबद्वक्त्राणि षोडश ॥
एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः ॥५१॥
रुद्राक्षाणां पंचमुखखस्तथा चैकमुखः स्मृतः ॥
ये धारयंत्येकमुखं रुद्राक्षमनिशं नराः ॥
रुद्रलोकं च गच्छंति मोदन्ते रुद्रसंनिधौ ॥५२॥
जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम् ॥
क्रियते यच्छृभं कर्म्म ह्यनंतं चाक्षधारणात् ॥५३॥
शुनः कंठनिबद्धोऽपि रुद्राक्षो यदि वर्तते ॥
सोऽपि संतारितस्तेन नात्र कार्या विचारणा ॥५४॥
तथा रुद्राक्षसंबंधात्पापमपिक्षयं व्रजेत् ॥
एवं ज्ञात्वा शुभं कर्म कार्यं रुद्राक्षबंधनात् ॥५५॥
त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया ॥
ते रुद्रलोके रुद्राश्च भविष्यंति न संशयः ॥५६॥
कपिलायाश्च संगृह्य गोमयं चांतरिक्षगम् ॥
शुष्कं कृत्वाथ संदाह्यं विभूत्यर्थं शिवप्रियैः ॥५७॥
विभूतीति समाख्याता सर्वपापप्रणाशिनी ॥
ललाटेंऽगुष्ठरेखा च आदौ भाव्या प्रयत्नतः ॥५८॥
मध्यमां वर्जयित्वा तु अंगुलीक्द्वयेन च ॥
एवं त्रिरेखासंयुक्तो ललाटे यस्य दृश्यते ॥
स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः ॥५९॥
जटाधराश्च ये शैवाः सप्त पंच तथा नव ॥
जटा ये स्थापियिष्यंति शैवेन विधिना युताः ॥६०॥
ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा ॥
रुद्राक्षधारणं कार्यं शिवभक्तैर्विशेषतः ॥६१॥
अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः ॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते ॥६२॥
तस्माच्छिवात्परतरं नास्ति किंचिद्द्विजोत्तमाः ॥
यदैवमुच्यते शास्त्रे तत्सर्वं शिवकारणम् ॥६३॥
शिवो दाता हि लोकानां कर्ता चैवानुमोदिता ॥
शिवशक्त्यात्मकं विश्वं जानीध्वं हि द्विजोत्तमाः ॥६४॥
शिवेति द्व्यक्षरं नाम त्रायते महतो भयात् ॥
तस्माच्छिवश्चिंत्यतां वै स्मर्यतां च द्विजोत्तमाः ॥६५॥
॥ऋषय ऊचुः ॥
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः ॥
राहोः शिरोभयात्सर्वे रक्षिताः परमेष्ठिना ॥६६॥
सुराश्चेंद्रादयश्चान्ये तस्मिन्युद्धे सुदारुणे ॥
अत ऊर्ध्वं सुराः सर्वे किमकुर्वत उच्यताम् ॥६७॥
शिवस्य महिमा सर्वः श्रुतस्तव मुखोद्गतः ॥
अथ युद्धस्य वृत्तान्तः कथ्यतां परमार्थतः ॥६८॥
॥लोमश उवाच ॥
यदा हि दैत्यैश्च पराजिताः सुराः शम्भुं च सर्वे शरणं प्रपन्नाः ॥
शिवं प्रणेमुः सहसा सुरोत्तमा युद्धाय सर्वे च मनो दधुस्तदा ॥६९॥
तथैव दैत्या अपि युध्यमाना उत्साहयुक्तातिबलाश्च सर्वे ॥
देवैः समेताश्च पुनः पुनश्च युद्धं प्रचक्रुः परमास्त्रयुक्ताः ॥७०॥
एवं च सर्वे ह्यसुराः सुराश्च शक्त्यृष्टिशूलैः परिघैः परश्वधैः ॥
जयार्थिनोमर्षयुताः परस्परं सिंहा यथा हैमवतीं दुरात्ययाः ॥
निहन्यमाना ह्यसुराः सुरैस्तदा नानास्त्रयोगैः परमैर्निपेतुः ॥७१॥
चक्रुस्ते सकलामुर्वी मांसशोणितकर्दमाम् ॥
महीं वृक्षाद्रिसंयुक्तां ससागरवनाकराम् ॥७२॥
शिरांसि च कबन्धानि कवचानि महांति च ॥
ध्वजारथाः पताकाश्च गजवाजिशिरांसि च ॥७३॥
बहन्त्यश्चापगा ह्यासन्नद्यो भीरुभयावहाः ॥
अगाधाः शोणितोदाश्च तरंतो ब्रह्मराक्षसाः ॥
तयंति परान्भूतप्रतप्रमथराक्षसान् ॥७४॥
शाकिनीडाकिनीसंघा यक्षिण्योऽथ सहस्रशः ॥
नानाकेलिषु संयुक्ताः परस्परमुदान्विताः ॥७५॥
एवं संक्रीडमानास्ते भूतप्रमथराक्षसाः ॥
रणे तस्मिन्महारौद्रे देवासुरसमागमे ॥७६॥
बलिना सह देवेन्द्रो युयुधेऽद्भुतविक्रमः ॥
शक्त्या जघान देवेंद्रं वैरोचनिरमर्षणः ॥७७॥
तां शक्तिं वञ्चयामास महेन्द्रो लघुविक्रमः ॥
जघान स बलिं यत्नाद्दैत्येंद्रं परमेण हि ॥७८॥
वज्रेण शितधारेण बाहुं चिच्छेद विक्रमी ॥
गातासुरपतद्भूमौ विमानात्सूर्यसंन्निभात् ॥७९॥
पतितं च बलिं दृष्ट्वा वृषपर्वा रूपान्वितः ॥
ववर्ष शरधाराभिः पयोद इव पर्वतम् ॥८०॥
महेंद्रं सगजं चैव सहमानं शिताञ्छरान् ॥
तदा युद्धमभूद्वोरं महेन्द्रवृषपर्वणोः ॥८१॥
निपात्य वृषपर्वाणमिंद्रः परबलार्दनः ॥८२॥
ततो वज्रेण महता दानवानवधीद्रणे ॥
शिरसि च्छेदिताः केचित्केचित्कंधरतो हताः ॥८३॥
विह्वलाश्च कृताः केचिदिंद्रेण कुपितेन च ॥
तथा यमेन निहता वायुना वरुणेन च ॥८४॥
कुबेरेण हताश्चान्ये नैर्ऋतेन तथा परे ॥
अग्निना निहताः केचिदीशेनैव विदारिताः ॥८५॥
एवं तदा तैर्निहता बलीयसो महासुरा विक्रमशानिनश्च ॥
सुरैस्तु सर्वैः सह लोकपालैः शिवप्रसादा भिहतास्तदानीम् ॥८६॥
ततो महादैत्यवरो दुरात्मा स कलानेमिः परमास्त्रयुक्तः ॥
ययौ तदानीं सुरसत्तमांस्तान्हंतुं सदा क्रूरमतिः स एकः ॥८७॥
सिंहारूढो दंशितश्च त्रिशुलेन हि संयुतः ॥
दैत्यानामर्बुदेनैव सिंहारूढेन संवृतः ॥८८॥
ते सिंहा दंशिताः सर्वे महाबलपराक्रमाः ॥
तेषु सिंहेषु चारूढा महादैत्याश्च तत्समाः ॥८९॥
आयांतीं दैत्यसेनां तां सर्वां सिंहविभूषिताम् ॥
कालनेमियुतां दृष्ट्वा देवा इंद्रपुरोगमाः ॥
भयमाजग्मुरतुलं तदा ध्यानपरा भवन् ॥९०॥
किं कुर्मोऽद्य वयं सर्वे कथं जेष्याम चाद्भुतम् ॥
एतादृशमसंख्याकमनीकं सिंहसंवृतम् ॥९१॥
एवं विचिंत्यमानास्ते ह्यागतस्तत्र नारदः ॥
नारदेन च तत्सर्वं पुरावृत्तं महत्तरम् ॥९२॥
कथितं च महेंद्राय कालनेमेस्तपोबलम् ॥
अजेयत्वं च संग्रामे वरदानबलेन तु ॥९३॥
विष्णुं विना वयं देवा अशक्ता रणमंडले ॥
जेतुं च स ततो विष्णुः स्मर्यतां परमेश्वरः ॥
तमालनीलो वरदः सर्वैर्विजयकांक्षिभिः ॥९४॥
नारदस्य वचः श्रुत्वा तदा देवास्त्वरान्विताः ॥
ध्यानेन च महाविष्णुं ततः परबलार्द्दनम् ॥
स्मरंतः परमात्मानमिदमूचुश्च तं विभुम् ॥९५॥
॥ देवा ऊचुः ॥
नमस्तुभ्यं भगवते नमस्ते विश्वमंगलम् ॥
श्रीनिवास नमस्तुभ्यं श्रीपते ते नमोनमः ॥९६॥
अद्यास्मान्भयभीतांस्त्वं कालनेमिभयार्दितान् ॥
त्रातुमर्हसि दैत्याच्च देवानामभयप्रद ॥९७॥
एवं ध्यातः संस्मृतश्च प्रादुर्भूतो हरिस्तदा ॥
नीलो गरुडमारुह्य जगतामभयप्रदः ॥९८॥
चक्रपाणिस्तदायातो देवानां विजयाय च ॥
गगनस्थं महाविष्णुं गरुडोपरि संस्थितम् ॥
श्रीवासमेनं दुर्द्धर्षं योद्धुकामं ददर्शिरे ॥९९॥
तथा दृष्ट्वा कालनेमिस्तदानीं प्रहस्यमानोऽतिरुषा बलान्वितः ॥
कस्त्वं महाभाग वरेण्यरूपः श्यामो युवा वारणमत्तविक्रमः ॥
करे गृहीतं निशितं महाप्रभं चक्रं च कस्मात्कथयस्व मे प्रभो ॥१००॥
॥श्रीभगवानुवाच ॥
युद्धार्थमिह चायातो देवानां कार्यसिद्धये ॥
त्वं स्थिरो भव रे मंद दहाम्यद्य न संशयः ॥१०१॥
श्रुत्वा भगवतो वाक्यं कालनेमिः प्रतापवान् ॥
उवाच रुषितो भूत्वा भगवंतमधोक्षजम् ॥१०२॥
मूलभूतो हि देवानां भगवान्युद्धदुर्मदः ॥
युद्धं कुरु मया सार्द्धं यदि शूरोऽसि संप्रति ॥१०३॥
प्रहस्य भगवान्विष्णुरुवाचेदं महाप्रभः ॥
गगनस्थो भव त्वं हि महीस्थोऽहं भवामि वै ॥१०४॥
अप्रशस्तं च विषमं युद्धं चैव यथा भवेत् ॥
तथा कुरु महाबाहो गगनो वा महीतले ॥१०५॥
तथेति मत्वा हि महानुभावो दैत्यैः समेतोऽर्बुदसंख्यकैश्च ॥
सिंहोपरिस्थैश्च महानुभावैर्महाबलैः क्रूरतरैस्तदानीम् ॥१०६॥
गगनमथ जगाहे मंदमंदं महात्मा ह्यसुरगणसमेतो विश्वरूपं जिघांसुः ॥
त्रिशिखमपरमुग्रं गृह्य संदेशचेष्टादशनविकृतवक्त्रो योद्धुकामो हरिं सः ॥१०७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे समुद्रमंथनाख्याने देवासुरसंग्रामवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : July 18, 2024
TOP