संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०७७

खण्डः १ - अध्यायः ०७७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
महाकल्पक्षये ब्रह्मन्समवस्थां वदस्व मे॥
भवाञ्ज्ञाननिधिः स्फीतो यथा ब्रह्मा पितामहः ॥१॥
मार्कण्डेय उवाच॥
पूर्णे संवत्सरशते संहृत्य सकलं जगत् ।
शेते ब्रह्मा महाराज प्राग्वदेकार्णवे तदा । २ ।
संन्यस्य देहं योगेन पुरुषं प्रतिपद्यते॥
मोक्षस्थानमनुप्राप्ते देवदेवे पितामहे ॥३॥
ये गता ब्रह्मणः स्थानं मुच्यन्ते सर्व एव ते॥
अण्डस्याभ्यन्तरं सर्वं तदाम्भोभिः प्रपूर्यते ॥४॥|
शरीरधारिणस्सर्वे तदा नश्यन्ति पार्थिव॥
अन्तर्गतेन तोयेन भिन्नमण्डे जगत्पते ॥५॥
पूर्णे ब्रह्मायुषि तदा बाह्यस्थेऽम्भसि लीयते॥
एवं सा जगदाधारा धारा तोये प्रलीयते ॥६॥
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते॥
खे वायुः प्रलयं याति मनस्याकाशमेव च ॥७॥
मनः प्रलीयते बुद्धौ बुद्धिश्चात्मनि लीयते॥
अव्यक्ते लीयते चात्मा अव्यक्तः पुरुषे परे ॥८॥
अनन्तानि तथोक्तानि यान्यण्डानि मया पुरा॥
सर्वाणि तानि संहृत्य समकालं जगत्पतिः ॥९॥
प्रकृतौ तिष्ठति तदा सा रात्रिस्तस्य कीर्तिता॥
ब्राह्मे समाशते पूर्णे पुनरेव जगत्पतिः ॥१०॥
( सर्वं विधत्ते धर्मज्ञ यथापूर्वमुदाहृतम्॥
अव्यक्तादिक्रमेणाथ विधायाण्डं महेश्वरः ॥११॥
अण्डे शरीरे भवति स्वयंभूरमृतद्युतिः ॥)
स्वयं स एव धर्मज्ञ ब्रह्मा शुभचतुर्मुखः ॥१२॥
सर्वेष्वण्डेषु धर्मज्ञस्समकालं जगत्पतिः॥
स्वयं शरीरे भवति प्राकाम्यान्मनुजेश्वर ॥१३॥
ब्रह्मायुषोन्ते जगतामवस्था मयेरिता ते यदुवृन्दनाथ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥१४॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP