संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
चतुर्दशोऽध्यायः

प्रथम खण्डः - चतुर्दशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
वैवस्वतेन मनुना येन सा निर्मिता पुरी ॥
स तु कृत्वा चिरं राज्यमिक्ष्वाकुमभिषिच्य च ॥१॥
पुत्त्रे भारं समावेश्य सशरीरो दिवं गतः ॥
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरम् ॥२॥
तेन मन्वन्तरं सर्वं पालनीयमिदं जगत् ॥
इक्ष्वाकुस्तस्य तनयः पालयामास मेदिनीम् ॥३॥
धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेन्द्रियः ॥
सुदर्शः सर्वभूतानां नयापनयकोविदः ॥४॥
ब्रह्मण्यश्च शरण्यश्च दीनानाथानुकम्पकः ॥
दैवमन्त्रप्रभूत्साह शक्तिभिश्च समन्वितः ॥५॥
षाड्गुण्यविन्महोत्साहः स्मितपूर्वाभिभाषणः ॥
युक्तदंडो न निर्दंडो न च दण्डरतिस्तथा ॥६॥
वेदवेदाङ्गतत्त्वज्ञो यज्ञयाजी तपोरतिः ॥
अक्षुद्रलीलोऽभिमतः सर्वसत्त्वो न हिंसकः ॥७॥
मान्यो मानयतां शक्यः सुखः पूज्यप्रपूजकः ॥
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ॥८॥
नित्यं शरीरप्रभवा रिपवस्तेन षड् जिताः ॥
सर्वत्र विधिना दृश्यः सुभगः प्रियदर्शनः ॥९॥
बहुधान्यो बहुधनो बहुनागाश्वपूरुषः ॥
अयोध्यानिलयो नित्यं देवा रिगणदर्पहा ॥१०॥
स तदा पालयामास पुत्रवत्सकलाः प्रजाः ॥
नाधर्मः कश्चिदप्यासीत्तस्मिन्राजनि मानवः ॥११॥
दीनो वा व्याधितो वापि स्वल्पायुर्वा च दुःखितः ॥
मूर्खो वा मन्दरूपो वा दुर्भगो वा निराकृतिः ॥१२॥
एकत्र देहे सकलं गुणौघं द्रष्टाहमित्येव विशिष्टबुद्धिः ॥
ससर्ज यं राजवरं महात्मा प्रजापतिः सर्वजगत्प्रधानः ॥१३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इक्ष्वाकुकुलवर्णनंनाम चतुर्दशोऽध्यायः ॥।१४॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP