प्रथम खण्डः - चतुर्थोऽध्यायः
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
॥मार्कण्डेय उवाच ॥
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ॥
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥१॥
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥
ता राजसर्षपास्तिस्रस्तास्त्रयो गौरसर्षपाः ॥२॥
सर्षपाः षड्यवो मध्ये अङ्गुलं च तदष्टकम् ॥
द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयं हस्त उच्यते ॥३॥
तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ॥
क्रोशद्वयं च गव्यूतिः योजनं तच्चतुष्टयम् ॥४॥
योजनानां प्रमाणेन चायुतानां शतत्रयम् ॥
अयुतानां च पञ्चाशच्छेषस्थानं मनोहरम् ॥५॥
स एव लोके वाराहः कथितश्च स्वयं प्रभुः ॥
वाराहरूपी भगवाञ्छतरूपधरस्तथा ॥६॥
तत्रास्ते भगवान्विष्णुर्भक्तैः सह महात्मभिः ॥
लोकोऽयमंडसंलग्नश्छत्राकारः प्रकीर्तितः ॥७॥
स्वयं प्रभुर्वीतरजाः सर्वदुःखविवर्जितः ॥
एकान्तभावोपगतास्तं प्रयान्ति हरि जनाः ॥८॥
सर्वाधस्तादयं लोकः कथितस्ते मनोहरः ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥९॥
कालाग्निरुद्रलोकस्तु कथ्यतेऽग्निसमर्चितः ॥
एक एव स तत्रास्ते स्वप्रभाभास्वरात्मकः ॥१०॥
तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ॥
भस्मसात्कुरुते सर्वं यच्चेङ्गं यच्च नेङ्गते ॥११॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥।
पातालनामा पातालः प्रथमः परिकीर्तितः ॥१२॥
योगमायां समास्थाय द्वितीयामास्थितस्तनुम् ॥
सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ॥१३॥
रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ॥
तस्मिन्स भगवानास्ते शेषपर्यङ्कमास्थितः ॥१४॥
नित्यं तालध्वजो वाग्मी वनमालाविभू षितः ॥
धारयञ्छिरसा नित्यं रत्नचित्रां फणावलीम् ॥१५॥
लाङ्गली मुसली खड्गी नीलाम्बरविभूषितः ॥
स्तूयमानः स गन्धर्वैर्नागैर्ऋषिवरैस्तथा। ॥१६॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
सुतलसंज्ञः पाताल शिलाभासः समन्ततः ॥१७॥
बलिस्तु भगवांस्तत्र बहिस्तिष्ठतिसंयतः ॥
रम्यं पुरवरं तस्य विष्णुना निर्मितं स्वयम् ॥१८॥
निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ॥
सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत् ॥१९॥
(फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ॥
तत्रास्ते स महाभागः श्रिया परमया युतः ॥२०॥
तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ॥)
तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा ॥२१॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
आभासतल इत्येव पातालो नीलमृत्तिकः ॥२२॥
तृतीयः स तु विख्यातः सुरभिर्यत्र तिष्ठति ॥
दिग्धेनवस्तथा तत्र चतस्रश्च तथा स्थिताः ॥२३॥
सुभद्रा वह्निरूपा च विश्वरूपा तथैव च ॥
रोहिणी च महाभागा याभिर्वृतमिदं जगत् ॥२४॥
तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ॥
पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोरमम् ॥२५॥
यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगस्तथा ॥
अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप ॥२६॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
पीतभौमश्चतुर्थस्तु गभस्तितलसंज्ञितः ॥२७॥
तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ॥
शशांकशतसंकाशः शातकौंभविभूषणः ॥२८॥
पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ॥
(प्रह्रादस्यासुरेन्द्रस्य बाष्कलेश्च महात्मनः) ॥२९॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
महा तलेति विख्यातो रक्तभौमस्तुपञ्चमः ॥३०॥
सरोवरं तस्य मध्ये योजनानां दशायुतम् ॥
जंगमाजंगमैः सर्वेर्जलजैश्च विवर्जितम् ॥३१॥
तत्रारूपेण वसति कूर्मरूपधरो हरिः ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥३२॥
षष्ठश्चैव महाराज नाम्ना भीमतलस्तु सः ॥
तत्रापि सरसी दिव्या योजनानां शतं गता ॥
तस्यां च वसते देवो मत्स्यरूपधरो हरिः ॥३३॥
सप्तमः कृष्णभौमस्तु नाम्ना भीमतलस्तु सः ॥
तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः ॥३४॥
तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ॥
तथा दानववीराणां नगराणि पृथक्पृथक् ॥३५॥
विरोचनस्य कुम्भस्य निकुम्भस्य हरस्य च ॥
शम्बरस्य करालस्य नरकस्य हयस्य च ॥३६॥
हयग्रीवस्य सुन्दस्य घसस्य प्रघसस्य च ॥
बलेः पुरवरं चात्र योगीशस्य तथापरम् ॥३७॥
यत्रस्थमेनं ददृशे रावणो लोकरावणः ॥
तथा पुरवरं तत्र विष्णोरमिततेजसः ॥३८॥
लक्ष्मीसहायो यत्रास्ते चाग्नेयाम्बरसंवृतः ॥
तिस्रः कोट्यस्तु यत्रास्य भक्तानां सुमहात्मनाम् ॥३९॥
शङ्खचक्रगदापद्मधारिणां पीतवाससाम् ॥४०॥
नीलोत्पल सवर्णानां विष्णोः सदृशतेजसाम् ॥
विष्णोः सुतानां हृष्टानां सततं भूरिवर्चसाम् ॥४१॥
तत्रस्थो दृष्टवान्देवो पौलस्त्यो रावणः पुरा ॥
पुरी भोगवती तत्र तथा वासुकिपालिता ॥४२॥
नागानां च पुराण्यत्र तथैव च पृथक्पृथक् ॥
पद्मस्य धृतराष्ट्रस्य विरक्तस्य कुरोस्तथा ॥४३॥
तक्षकस्यैलपत्रस्य तथा कर्कोटकस्य च ॥
धनञ्जयस्य शङ्खस्य तथैवाश्वतरस्य च ॥४४॥
कन्दलस्य सुरासस्य सुमुखस्य गयस्य च ॥
दिशां गजानां च तथा तत्र स्थानं पृथक्पृथक् ॥४५॥
येषां स्कंधगता भूमिः सशैलवनकानना ॥
विरूपाक्षस्य नागस्य महापद्मस्य चाप्यथ ॥४६॥
तथा सुमनसश्चात्र रुद्रस्य च महात्मनः ॥
पश्चायुतपरीमाणा भूमिः सर्वेषु पार्थिव ॥४७॥
पातालेषु विनिर्दिष्टा पठितान्तरवर्तिनी ॥
अण्डस्यार्धमिदं प्रोक्तमधस्तात्तु प्रमाणतः ॥४८॥
तिस्रः कोट्यस्तु राजेन्द्र नियुतानि तथा दश ॥
पञ्चान्यानि महीपाल भूमि पुष्ट्या महानघ ॥४९॥
पञ्चायुतपरीमाणाः पुष्टिर्भूमेः प्रकीर्तिता ॥
भूमेरथोपरिष्टाच्च अण्डस्यार्धमथापरम् ॥
एतावदेव निर्दिष्टा भूमिपाल प्रमाणतः ॥५०॥
चन्द्रार्कभासा रहितं नृवीर स्वयं प्रभेदं कथितं मयैतत् ॥
पातालपूगं विविधं सुरम्यं शृणुष्व लोकान् गदतो ममान्या न् ॥५१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पातालवर्णनो नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : July 22, 2018
TOP