संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः| त्रयस्त्रिंशत्तमोऽध्यायः प्रथम खण्डः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशत्तमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः एकोनत्रिंशत्तमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षट्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टात्रिंशत्तमोऽध्यायः एकोनचत्वारिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्त्वारिंशतत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षट्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकविंशतितमोऽध्यायः अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०७१ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७१ अध्यायः ०७२ प्रथम खण्डः - त्रयस्त्रिंशत्तमोऽध्यायः विष्णुधर्मोत्तर पुराण एक उपपुराण आहे. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत त्रयस्त्रिंशत्तमोऽध्यायः Translation - भाषांतर ॥मार्कण्डेय उवाच ॥और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ॥वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ॥१॥तस्या परमया भक्त्या भर्ता तोषमुपागतः ॥उवाच तां वरारोहामृचीको भृगुनन्दनः ॥२॥ ॥ऋचीक उवाच ॥वरं वरय सुश्रोणि यत्ते मनसि वर्तते ॥तोषितोऽहं त्वया भद्रे वने शुश्रूषया वद ॥३॥सत्यवत्युवाच ॥मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम् ॥पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ॥४॥ऋचीक उवाच ॥चरुद्वयं करिष्यामि मातुरर्थे तथा तव ॥यस्य संप्राशनात्पुत्रं त्वं चैव जनयिष्यसि ॥५॥मार्कण्डेय उवाच ॥एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ॥एकस्मिन्सकलं क्षात्रं तेजश्चक्रे सवैष्णवम् ॥६॥श्वश्र्वर्थे तं चरुं कृत्वा द्वितीये स न्यवेशयत् ॥ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवाञ्चरुम् ॥७॥ऋचीक उवाच ॥अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरुस्तव ॥अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ॥८॥।तथैवौदुम्बरस्याऽपि त्वया राजीवलोचने ॥९॥मार्कण्डेय उवाच ॥एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ॥१०॥ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ॥ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ॥११॥श्रेष्ठेन तेजसा युक्तश्चरुरेष कृतः शुभे ॥तस्माच्चरुविपर्यासं मदर्थे कुरु मा चिरम् ॥१२॥अलिङ्गने विपर्यासं द्रुमयोः क्रियतां तथा ॥सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ॥१३॥सगर्भां स गते काले भर्ता वचनमब्रवीत् ॥१४॥ऋचीक उवाच ॥ध्रुवं चरुविपर्यासो द्रुमयोश्च त्वया कृतम् ॥येन त्वमसितापाङ्गि युक्ता क्षत्रियतेजसा ॥१५॥ब्राह्मेण तेजसा युक्तं कृतवानस्मि ते चरुम् ॥मातुस्ते चारुसर्वांगि तथा क्षत्त्रियतेजसा ॥१६॥कृतं चरुविपर्यासं सा विप्रं जनयिष्यति ॥क्षत्रधर्मरतं पुत्रं विप्रं त्वं जनयिष्यसि ॥१७॥सत्यवत्युवाच ॥मातुर्मतात्कृतमिदं भगवन्क्षन्तुमर्हसि ॥क्षत्रधर्मरतः पुत्रो न मे भवितुमर्हति ॥१८॥ऋचीक उवाच ॥एवमस्तु न ते पुत्रः क्षत्रधर्मा भविष्यति ॥पौत्रस्त्ववश्यं भविता भाव्यर्थविधिचोदितः ॥१९॥सत्यवत्युवाच ॥सर्वेश्वरत्वं भगवन्किमर्थं पौत्रस्य मे क्षत्रियभावमुग्रम् ॥निवर्तितुं नेच्छसि मातुलेन वदस्व तन्मे यदि ते न गुह्यम् ॥२०॥इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चरुविपर्यासो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : July 23, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP